Get it on Google Play
Download on the App Store

संकीर्णवर्गः - श्लोक २७१ ते ३१३


 २७१) विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः
२७२) संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम्
२७३) संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम्
२७४) नीवाकस् तु प्रयामः स्यात् संनिधिः संनिकर्षणम्
२७५) लवोऽभिलाषो लवने निष्पावः पवने पवः
२७६) प्रस्तावः स्यादपसरस्त्रसरः सूत्रवेष्टनम्
२७७) प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ
२७८) धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः
२७९) प्रत्युत्क्रमः प्रयोगाऽर्थः प्रक्रमः स्यादुपक्रमः
२८०) स्यादभ्यादानमुद्धात आरम्भः संभ्रमस् त्वरा
२८१) प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम्
२८२) उपलम्भस्त्वनुभवः समालम्भो विलेपनम्
२८३) विप्रलम्भो विप्रयोगो विलम्भस् त्वतिसर्जनम्
२८४) विश्रावस् तु प्रतिख्यातिरवेक्षा प्रतिजागरः
२८५) निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने
२८६) आदीनवास्रवौ क्लेशे मेलके संगसंगमौ
२८७) संवीक्षनं विचयनं मार्गणं मृगणा मृगः
२८८) परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्
२८९) निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्
२९०) प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः
२९१) उपशायो विशायश् च पर्यायशयनाऽर्थकौ
२९२) अर्तनं च ऋतीया च हृणीया च घृणाऽर्थकाः
२९३) स्याद्व्यत्यासो विपर्यासो व्यत्ययश् च विपर्यये
२९४) पर्ययोऽतिक्रमस् तस्मिन्नतिपात उपात्ययः
२९५) प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम्
२९६) स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम्
२९७) निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः
२९८) स्तम्बघ्नस् तु स्तम्बघनः स्तम्बो येन निहन्यते
२९९) आविधो विध्यते येन तत्र विष्वक्समे निघः
३००) उत्ख़ारश् च निकारश् च द्वौ धान्योत्क्षेपणाऽर्थकौ
३०१) निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु
३०२) आरत्यवरतिविरतय उपरामेऽथाऽस्त्रियां तु निष्ठेवः
३०३) निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि
३०४) जवने जूतिः सातिस् त्ववसाने स्यादथ ज्वरे जूर्तिः
३०५) उदजस् तु पशु प्रेरणमकरणिरित्यादयः शापे
३०६) गोत्राऽन्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम्
३०७) आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम्
३०८) माणवानां तु माणव्यं सहायानां सहायता
३०९) हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम्
३१०) द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात्
३११) खलानां खलिनी खल्याऽप्यथ मानुष्यकं नृणाम्
३१२) ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्
३१३) अपि साहस्रकारीषवार्मणाथर्वणादिकम् 
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९