श्रीजानकीची आरती - कारुण्यमृतसरिते, कोटिसुगु...
कारुण्यमृतसरिते, कोटिसुगुणभरिते । स्वाश्रितजनहृतदुरिते, कविसंस्तुतचरिते । नित्यमहोदयसुहिते, निखिलामयरहिते । विबुधमुनिव्रजमहिते, विरचितविश्वहिते ॥१॥
जय देवि जय देवि जय जानकिमातः । निजचरणनमज्जनजडिमतमः प्रातः ॥जय देवि०॥ध्रु०॥
प्रियतमवामांकगते, तत्प्रेक्षणनिरते । मुक्तालंकृतलसिते, मंदमधुरहसिते । रक्तांबरपरिकलिते, रघुवरव्तनुमिलिते ॥ भगवत्गि मूलप्रकृते, हृतविठ्ठलविकृते ॥जय देवि जय देव०॥२॥