शालग्रामस्तोत्रम्
श्रीगणेशाय नम: ॥
अस्य श्रीशालग्रामस्तोत्रमन्त्रस्य श्रीभगवानृषि: ।
नारायणो देवता । अनुष्टुप् छन्द: । श्रीशालग्रामस्तोत्रमन्त्रजपे विनियोग: ।
युधिष्ठिर उवाच । श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्व श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥१॥
श्रीभगवानुवाच ॥ गंडक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे । दक्षयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥२॥
शालग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयो: संगमो यत्र मुक्तिस्तत्र न संशय: ॥३॥
शालग्रामशिला यत्र यत्र द्वारावती शिला। उभयो: संगमो यत्र मुक्तिस्तत्र न संशय: ॥४॥
आजन्मकृतपापानां प्रायश्चित्तं य इच्छति । शालग्रामशिलावारि पापहारि पिबेत्तु स: ॥५॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णो: पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥६॥
शंखमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥७॥
स्नानोदकं पिबेन्नित्यं चक्रांकितशिलोद्भवम् । प्रक्षालयति तत्तोयं ब्रह्महत्यां व्यपोहति ॥८॥
अग्निष्टोमसहस्त्राणि वाजपेयशतानि च । सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥९॥
नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषत: पादजलेन विष्णो: । योऽश्नाति नित्यं पुरतो मुरारे: प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥१०॥
खंडिता स्फुटिता भिन्ना अग्निदग्धा तथैव च । शालग्रामशिला यत्र तत्र दोषो न विद्यते ॥११॥
न मंत्र: पूजनं नैव न तीर्थं न च भावना । न स्तुतिर्नोपचारश्च शालग्रामशिलार्चने ॥१२॥
ब्रह्महत्यादिकं पापं मनोवाक्कायसंभवम् । शीघ्रं नश्यति तत्सर्व शालग्रामशिलार्चनात् ॥१३॥
नाना वर्णमयं चैव नानाभोगेन वेष्टितम् । तथा वरप्रसादेन लक्ष्मीकांतं वदाम्यहम् ॥१४॥
नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा । तथा वरप्रसादेन लक्ष्मीकांतं वदाम्यहम् ॥१५॥
कृष्णे शिलातले यत्र सूक्ष्मं चक्रं सुदृश्यते । सौभाग्यं संततिं धत्ते सर्वसौख्यं ददाति च ॥१६॥
वासुदेवस्य चिह्नानि दृष्ट्वा पापै: प्रमुच्यते । श्रीधर: सुकरे वामेहरिद्वर्णस्तुदृश्यते ॥१७॥
वाराहरूपिणं देवं कुर्मागैरपि चिह्नितम् । गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥१८॥
पीतवर्णस्तु देवानां रक्तवर्ण भयावहम् । नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥१९॥
शंखचक्रगदाकूर्मा: शंखो यत्र प्रदृश्यते । शंखवर्णस्य देवानां वामे देवस्य लक्षणम् ॥२०॥
दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् । पूर्णद्वारेण संकीर्णा पीतरेखा च दृश्यते ॥२१॥
छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियम् । चपटे च महादु:खं शूलाग्रे तु रणं ध्रुवम् ॥२२॥
ललाटे शेषभोगन्तु शिरोपरि सुकांचनम् । चक्रकांचनवर्णानां वामदेवस्य लक्षणम् ॥२३॥
वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिंगलम् । लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥२४॥
लंबोष्ठे च दरिद्रं स्यात्पिंगले हानिरेव च लग्नचक्रे भवेद् व्याधिर्विदारे मरणं ध्रुवम् ॥२५॥
पादोदके च निर्माल्यं मस्तके धारयेत्सदा । विष्णोर्दृष्टं भक्षितव्यं तुलसीदलमिश्रितम् ॥२६॥
कल्पकोटिसहस्त्राणि वैकुंठे वसते सदा । शालग्राम शिलाबिंदुर्हत्याकोटि-विनाशन: ॥२७॥
तस्मात्संपूजयेद्धयात्वा पूजितं चापि सर्वदा । शालग्रामशिलास्तोत्रं य: पठेच्च द्विजोत्तम: ॥२८॥
स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरि: । सर्वपापनिर्मुक्तो विष्णुलोकं स गच्छति ॥२९॥
दशावतारा देवानां पृथग्वर्णस्तुदृश्यते । ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥३०॥
कोटयो हि ब्रह्महत्यानामगम्यागम्यकोटय: । ता: सर्वा नाशमायांति विष्णुनैवेद्यभक्षणात् ॥३१॥
विष्णो: पादोदकं पीत्वा कोटिजन्माघनाशनम् । तस्मादष्टगुणं पापं भूमौ विंदुनिपातनात् ॥३२॥