श्री नखस्तुतिः
पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा ।
कुंभोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः ।
श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर ।
प्रद्ध्वस्तध्वांत शांत प्रवितत मनसा भावितानाकिवृंदैः ॥१॥
लक्ष्मीकांत समंततोऽपिकलयन् नैवेशितुस्ते समम् ।
पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः ।
यद्रोशोत्कर दक्ष नेत्र कुटिलः प्रांतोत्थिताग्नि स्फुरत् ।
खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥२॥
इति श्रीमदानंदतीथर्भगवत्पादाचायर्विरचितं
श्रीनृसिंहनखस्तुतिः संपुर्णम्
॥भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णापर्णमस्तु ॥
वायुभीर्मो भीमनादो महूजाः सवेर्शां च प्राणिनां प्राणभूतः ।
अनावृत्तिदेर्हिनां देहपाते तस्माद्वायुदेर्वदेवो विशिष्टः ॥
ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषि योगे ।
बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्वचकश्च नैव ॥
वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहंता ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥
यो विप्रलंभविपरीतमतिप्रभूतान् वादान्निरस्त कृतवान्भुवि तत्त्ववादम् ।
सवेर्श्वरो हरिरिति प्रतिपादयंतमानंदतीथर् मुनिवयर्महं नमामि ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलम् ।
बट् तद्दर्शनमित्थमेव निहितं देवस्य भगोर् महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः ।
मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥
महाव्याकरणांभोधि मंथमानसमंदरम् ।
कवयंतं रामकीत्यार् हनूमंतमुपास्महे ॥
ब्रह्मान्ता गुरवः साक्षादिष्टं दैवं श्रियः पतिः ।
आचार्याः श्रीमदाचार्याः संतु मे जन्म जन्मनि ॥
प्रथमो हनुमान्नामा द्वितीयो भीम एव च ।
पूर्णप्रज्ञ तृतीयस्तु भगवत्कायर्साधकः ॥
मुख्यप्राणाय भीमाय नमो यस्य भुजांतरम्
नाना वीरसुवणार्नां निकषाश्मायितं बभौ ॥
स्वांतस्थानंतशैयाय पूर्णज्ञानरसाणर्से ।
उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः ॥
येनाहं इह दुर्मार्गात् उद्धृत्यादि निवेशितः ।
सम्यक् श्रीवैष्णवे मार्गे पूर्णप्रज्ञं नमामि तम् ॥
हनूमानंजनी सूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥
उदधिक्रमणश्चैव सीतासंदेशहारकः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥
मारुतिः पाण्डवो भीमो गदापाणिवृर्कोदरः ।
कौन्तेयः कृष्णदूतश्च भीमसेनो महाबलः ॥
जरासंधांतको वीरो दुःशासन विनाशनः ।
पूर्णप्रज्ञो ज्ञानदाता मध्वो ध्वस्त दुरागमः ॥
तत्त्वज्ञो वैष्णवाचार्यो व्यासशिष्यो यतीश्वरः ॥
शुभतीर्थाभिधानश्च जितामित्रो जितेन्द्रियः ।
श्रीमदानंद सन्नाम्नामेव द्वादशकं जपेत् ।
लभते वैष्णवीं भक्तिं गुरुभक्ति समन्वितम् ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं यशो धैयर्ं निभर्यत्त्वं अरोगता ।
अजाड्यं वाक्पटुत्त्वं च हनूमत्स्मरणद्भवेत् ॥
न माधवसमो देवो न च मध्व समो गुरुः ।
न तद्वाक्यसमं शास्त्रं न च तस्य समः पुमान् ॥
भीमसेन समो नास्ति सेनयोरुभयोरपि ।
पाण्डित्येच पटुत्वे च शूरत्वे च बलेपि च ॥
आचार्यः पवनोऽस्माकं आचार्याणी च भारती ।
॥ देवो नारायणः श्रीशः देवी मङ्गळ देवता ॥