विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे
कण्डुरुवाच
नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते ।
जगद्बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते ॥१७८ । १२९॥
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम ।
पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते ॥१७८ । १३०॥
हिरण्यगर्भ श्रीनाथ पद्मनाभ सनातन ।
भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते ॥१७८ । १३१॥
अनाद्यन्तामृताजेय जय त्वं जयतां वर ।
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते ॥१७८ । १३२॥
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित ।
दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते ॥१७८ । १३३॥
भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल ।
भूताधिवास भूतात्मन्भूतगर्भ नमोऽस्तु ते ॥१७८ । १३४॥
यज्ञ यज्वन्यज्ञधर यज्ञधाताऽभयप्रद ।
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते ॥१७८ । १३५॥
क्षेत्रज्ञ क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी ।
क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते ॥१७८ । १३६॥
गुणालय गुणावास गुणाश्रय गुणावह ।
गुणभोक्तृ गुणाराम गुणत्यागिन्नमोऽस्तु ते ॥१७८ । १३७॥
त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः ।
त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः ॥१७८ । १३८॥
त्वं भूतकृत्त्वमव्यक्तस्त्वं भवो भूतभृद्भवान् ।
त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम् ॥१७८ । १३९॥
त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः ।
त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः ॥१७८ । १४०॥
त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शंभुस्त्वं वृषाकृतिः ।
त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः ॥१७८ । १४१॥
त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा ।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं त्वं ज्येष्ठस्त्वं परायणः ॥१७८ । १४२॥

त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः ॥१७८ । १४३॥
त्वमृग्यजुः सामचैव त्वमात्मा संमतो भवान् ।
त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान् ॥१७८ । १४४॥
त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः ।
त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः ॥१७८ । १४५॥
त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा ।
त्वमहस्त्वं तथारात्रिस्त्वामाहुर्वत्सरं बुधाः ॥१७८ । १४६॥
त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणालवाः ।
त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः ॥१७८ । १४७॥
त्वं विश्वयोनिस्त्वं चक्षुस्त्वं वेदाङ्गं त्वमव्ययः ।
त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः ॥१७८ । १४८॥
त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः ।
त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः ॥१७८ । १४९॥
त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान् ।
त्वं संग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः ॥१७८ । १५०॥
त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः ।
त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते ॥१७८ । १५१॥
त्वं गुरुस्त्वं गुरुतमोस्त्वं वामस्त्वं प्रदक्षिणः ।
त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः ॥१७८ । १५२॥
हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः ।
अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा ॥१७८ । १५३॥
त्वं च संकर्षणो देवस्त्वं शशी त्वं प्रजापतिः ।
त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः ॥१७८ । १५४॥
त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः ।
सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक् ॥१७८ । १५५॥
सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः ।
त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः ॥१७८ । १५६॥
यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्त उत्तमः ।
यद्भव्यं तत्त्वमीशानस्त्वमृतस्त्वं तथाऽमृतः ॥१७८ । १५७॥
त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः ।
त्वं ज्यायापुरुषस्त्वं च त्वं देव दशधा स्थितः ॥१७८ । १५८॥
विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि ।
नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः ॥१७८ । १५९॥
भागद्वयं य भूसंस्थं चतुर्भागोऽप्यभूदिह ।
त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम् ॥१७८ । १६०॥
त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान् ।
सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया ॥१७८ । १६१॥
त्वत्तः सुराणामाहारः पृषदाज्यमजायत ।
ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः ॥१७८ । १६२॥
ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः ।
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः ॥१७८ । १६३॥
जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम् ।
त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम् ॥१७८ । १६४॥
अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा ।
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण ॥१७८ । १६५॥
त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते ।
नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम ॥१७८ । १६६॥
नमस्ते सर्वलोकेश नमस्ते कमलालय ।
गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर ॥१७८ । १६७॥
वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम ।
जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन ॥१७८ । १६८॥
नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते ।
गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते ॥१७८ । १६९॥
जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते ।
दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते ॥१७८ । १७०॥
नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण ।
कैटभघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते ॥१७८ । १७१॥
नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत ।
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे ॥१७८ । १७२॥
अश्वशीर्ष महाध्रोण महापुरुषविग्रह ।
मधुकैटभहन्त्रे च नमस्ते तुरगानन ॥१७८ । १७३॥
महाकमठभोगाय पृथिव्युद्धरणाय च ।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः ॥१७८ । १७४॥
नमो महावराहाय पृथिव्युद्धारकारिणे ।
नमश्चाऽऽदिवराहाय विश्वरूपाय वेधसे ॥१७८ । १७५॥
नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च ।
परमाणुस्वरूपाय योगिगम्याय ते नमः ॥१७८ । १७६॥
तस्मै नमः परम कारणकारणाय
योगीन्द्रवृत्तनिलयाय सुदुर्विदाय ।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय
तुभ्यं नमः कनकरत्नसुकुण्डलाय ॥१७८ । १७७ ॥
इति ।
ब्रह्मपुराण अध्याय १७८, १२९१७७, अध्याय श्लोक सङ्ख्या १९४