भज गोविन्दं
भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते ।
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे ॥१॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥२॥
नारीस्तनभर नाभीदेशं
दृष्ट्वा मागामोहावेशम् ।
एतन्मांसवसादि विकारं
मनसि विचिन्तय वारं वारम् ॥३॥
नलिनीदलगत जलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥४॥
यावद्वित्तोपार्जन सक्तः
स्तावन्निज परिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ॥५॥
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥६॥
बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ॥७॥
काते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥८॥
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥९॥
वयसिगते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणेवित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥१०॥
मा कुरु धन जन यौवन गर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा बुध्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥
दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥१२॥
द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः ।
उपदेशो भूद्विद्यानिपुणैः
श्रीमच्छन्करभगवच्छरणैः ॥१२॥
काते कान्ता धन गतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसं गतिरैका
भवति भवार्णवतरणे नौका ॥१३॥
जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि चन पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः ॥१४॥
अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥१५॥
अग्रे वह्निः पृष्ठेभानुः
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ॥१६॥
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहिनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ॥१७॥
सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः ।
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः ॥१८॥
योगरतो वाभोगरतोवा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥१९॥
भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता ।
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा ॥२०॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥२१॥
रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योगनियोजित चित्तो
रमते बालोन्मत्तवदेव ॥२२॥
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्न विचारम् ॥२३॥
त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥२४॥
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥२५॥
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।
आत्मज्ञान विहीना मूढाः
ते पच्यन्ते नरकनिगूढाः ॥२६॥
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम् ।
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥२७॥
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥२८॥
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धन भाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥२९॥
प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् ।
जाप्यसमेत समाधिविधानं
कुर्ववधानं महदवधानम् ॥३०॥
गुरुचरणाम्बुज निर्भर भकतः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥३१॥
मूढः कश्चन वैयाकरणो
डुकृञ्करणाध्ययन धुरिणः ।
श्रीमच्छम्कर भगवच्छिष्यै
बोधित आसिच्छोधितकरणः ॥३२॥
भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे ॥३३॥
गोविन्दं भजमूढमते ।
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे ॥१॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥२॥
नारीस्तनभर नाभीदेशं
दृष्ट्वा मागामोहावेशम् ।
एतन्मांसवसादि विकारं
मनसि विचिन्तय वारं वारम् ॥३॥
नलिनीदलगत जलमतितरलं
तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥४॥
यावद्वित्तोपार्जन सक्तः
स्तावन्निज परिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ॥५॥
यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥६॥
बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ॥७॥
काते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥८॥
सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥९॥
वयसिगते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणेवित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥१०॥
मा कुरु धन जन यौवन गर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा बुध्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥
दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥१२॥
द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः ।
उपदेशो भूद्विद्यानिपुणैः
श्रीमच्छन्करभगवच्छरणैः ॥१२॥
काते कान्ता धन गतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसं गतिरैका
भवति भवार्णवतरणे नौका ॥१३॥
जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि चन पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः ॥१४॥
अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥१५॥
अग्रे वह्निः पृष्ठेभानुः
रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ॥१६॥
कुरुते गङ्गासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहिनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ॥१७॥
सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनं वासः ।
सर्व परिग्रह भोग त्यागः
कस्य सुखं न करोति विरागः ॥१८॥
योगरतो वाभोगरतोवा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥१९॥
भगवद् गीता किञ्चिदधीता
गङ्गा जललव कणिकापीता ।
सकृदपि येन मुरारि समर्चा
क्रियते तस्य यमेन न चर्चा ॥२०॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥२१॥
रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योगनियोजित चित्तो
रमते बालोन्मत्तवदेव ॥२२॥
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्न विचारम् ॥२३॥
त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥२४॥
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥२५॥
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।
आत्मज्ञान विहीना मूढाः
ते पच्यन्ते नरकनिगूढाः ॥२६॥
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम् ।
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥२७॥
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥२८॥
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धन भाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥२९॥
प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् ।
जाप्यसमेत समाधिविधानं
कुर्ववधानं महदवधानम् ॥३०॥
गुरुचरणाम्बुज निर्भर भकतः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥३१॥
मूढः कश्चन वैयाकरणो
डुकृञ्करणाध्ययन धुरिणः ।
श्रीमच्छम्कर भगवच्छिष्यै
बोधित आसिच्छोधितकरणः ॥३२॥
भजगोविन्दं भजगोविन्दं
गोविन्दं भजमूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे ॥३३॥