नारायणस्तुतिः
नारद उवाच
किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा ।
एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥५९॥
ब्रह्मोवाच
यः परः प्रक्ऱृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।
स एव सर्वभूतानां नर इत्यभिधीयते ॥६०॥
नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
तान्येव चायनं तस्य तेन नारायणः स्म्ऱृतः ॥६१॥
नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥६२॥
नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।
नारायणः परं ज्योतिरात्मा नारायणः परः ॥६३॥
परादपि परश्चासौ तस्मान्नातिपरं मुने ।
यच्च किञ्चिज्जगत्यस्मिन् द्ऱृश्यते श्रूयतेऽपि वा ॥६४॥
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥६५॥
नमो नारायणायेति ध्यात्वा चानन्यमानसाः ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥६६॥
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ।
एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥६७॥
परस्परविरुद्धार्थैः किमन्यैः शास्त्रविस्तरैः ।
बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥६८॥
तथा ज्ञानानि सर्वाणि प्रविशन्ति तमीश्वरम् ।
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥६९॥
जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः ।
विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥७०॥
वासुदेवो जगद्वासः पुराणः कविरव्ययः ।
यस्मात्प्राप्तं स्थितिं क्ऱृत्स्नं त्रैलोक्यं सचराचरम् ॥७१॥
तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते ।
यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥७२॥
तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः ।
तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥७३॥
विज्ञानमात्रं केचिच्च केचिद्ब्रह्म परं तथा ।
केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥७४॥
केचिच्च परमात्मानं केचिच्चैवमनामयम् ।
केचित्क्षेत्रज्ञमित्याहुः केचित्षड्विंशकं तथा ॥७५॥
अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् ।
एते चान्ये च मुनिभिः संज्ञाभेदाः प्ऱृथग्विधाः ॥७६॥
शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः ।
एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥७७॥
बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥७८॥
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।
त्यक्त्वा व्यामोहकान् सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥७९॥
अनन्यचेता ध्यायस्व नारायणमतन्द्रितः ।
एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥८०॥
क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः ।
श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥८१॥
ततोऽहमासं विप्रेन्द्र नारायणपरायणः ।
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥८२॥
अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् ।
तस्मान्नारायणस्तात परमात्मा सनातनः ॥८३॥
अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः ।
नारायणो जगद्व्यापी परमात्मा सनातनः ॥८४॥
जगतां स्ऱृष्टिसंहारपरिपालनतत्परः ।
श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥८५॥
आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा ।
निः स्प्ऱृहा नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥८६॥
निर्ममा निरहंकारा रागद्वेषविवर्जिताः ।
अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥८७॥
ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् ।
त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ॥८८॥
कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् ।
तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥८९॥
तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ।
हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥९०॥
अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च ।
तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥९१॥
किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९२॥
चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा ।
भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥९३॥
ये न्ऱृशंसा दुरात्मानः पापाचाररताः सदा ।
तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥९४॥
जन्मान्तरसहस्रेषु यस्य स्यद्बुद्धिरीद्ऱृशी ।
दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिनः ॥९५॥
प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः ।
किं पुनस्तद्गतपुराणः पुरुषः संयतेन्द्रियः ॥९६॥
इति ।
नरसिंहपुराणे अध्याय ६४ श्लोक ५९९६, अध्याय श्लोक संख्या १२४