Get it on Google Play
Download on the App Store

समस्तपापनाशन

पुष्कर उवाच
परदारपरद्रव्यजीवहिंसादिके यदा ।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१॥
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिम् ॥२॥
चित्तस्थमीशमव्यक्तमनन्तमपराजितम् ।
विष्णुमीद्यमशेषेण अनादिनिधनं विभुम् ॥३॥
विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् ।
यच्चाहङ्कारगो विष्णुर्यव्दिष्णुर्मयिसंस्थितः ॥४॥
करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च ।
तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥५॥
ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् ।
तमुपेन्द्रमहं विष्णुं प्रणतार्त्तिहरं हरिम् ॥६॥
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।
हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥७॥
सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तुते ॥८॥
नृसिंहानन्त गोविंद भूतभावन केशव ।
दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तुते ॥९॥
यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना ।
अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१०॥
ब्रह्मण्यदेव गोविंद परमार्थपरायण ।
जगन्नाथ जगद्ध्यातः पापं प्रशमयाच्युत ॥११॥
यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता ॥१२॥
जानता च हृषीकेश पुण्डरीकाक्ष माधव ।
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयम् ॥१३॥
शरीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।
पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ॥१४॥
यद्भुंजनयत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः ।
कृतवान् पापमद्याहं कायेन मनसागिरा ॥१५॥
यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकावहम् ।
तद्यातु प्रशमंसर्व वासुदेवानुकीर्तनात् ॥१६॥
परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।
तस्मिन् प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥१७॥
यत् प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम् ।
सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वधम् ॥१८॥
माहात्म्यं
पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि ।
शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥१९॥
सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् ।
तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम् ॥२०॥
प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम् ।
प्रायश्चित्तैः स्त्रोत्रजपैर्व्रतैर्नश्यति पातकम् ॥२१॥
ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥

इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्त पापनाशनस्तोत्रं
नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्