श्री कामाक्षी सुप्रभातम्
श्री देवी ध्यानम् जगदवन विधौ त्वं जाग रूका भवानि तव तु जननि निद्रामात्मवत्कल्पयित्वा ।
प्रतिदिवसमहं त्वां बोधयामि प्रभाते त्वयि कृतमपराधं सर्वमेतं क्षमस्व॥१॥
यदि प्रभातं तव सुप्रभातं तदा प्रभातं मम सुप्रभातम् । तस्मात्प्रभाते तव सुप्रभातं वक्ष्यामि मातः कुरु सुप्रभातम्॥२॥
गुरु ध्यानम् यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं जिव्हां गताऽसि वरदे मम मन्द बद्धः ।
यस्यांब नित्यमनघे हृदये विभासि तं चन्द्रशेखर गुरुं प्रणमामि नित्यम्॥३॥
जये जयेन्द्रो गुरुणा ग्रहीतो मठाधिपत्ये शशिशेखरेण । यथा गुरुस्सर्व गुणोपपन्नो जयत्यसौ मङ्गळमातनोतु॥४॥
शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गळा शुभं दिशतु नो देवी कामकोटी मटेशः ।
शुभं दिशतु तच्चिष्य सद्गुरुर्नो जयेन्द्रो सर्वं मङ्गळमेवास्तु मङ्गळानि भवन्तु नः॥५॥॥
शुभम्॥॥
श्रीः॥कामाक्षि देव्यंब तवाद्रर्दृष्ट्या मूकस्वयं मूककवीर्यथाऽसीत् ।
तथा कुरुत्वं परमेश जाये त्वत्पादमूले प्रणतं दयाद्रेर्॥
उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदेश्वरि ।
उत्तिष्ठ जगदाधारे त्रैलोक्यां मङ्गळं कुरु॥१॥
शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम् मृदङ्गभेरीपटहानकानाम् ।
वेदध्वनिं शिक्षितभूसुराणाम् । शृणोषि भद्रे कुरु सुप्रभातम्॥२॥
शृणोषि भद्रे ननु शङ्ख घोषम् वैताळिकानां मधुरं च गानम् ।
शृणोषि मातः पिककुक्कुटानाम् ध्वनिं प्रभाते कुरु सुप्रभातम्॥३॥
मातर्निरीक्ष वदनं भगवान्शशाङ्को लज्जान्वितः स्वयमहो निलयं प्रविष्टः ।
द्रष्टुं त्वदीय वदनं भगवान्दिनेशो ह्यायाति देवि सदनं कुरु सुप्रभातम्॥४॥
पश्याम्ब केचित्घृतपूर्णकुम्भाः केचिद् दयाद्रेर् धृतपुष्पमालाः ।
काचित्शुभाङ्गयो ननुवाद्यहस्ताः तिष्ठन्ति तेषां कुरु सुप्रभातम्॥५॥
भेरीमृदङ्गपणवानकवाद्यहस्ताः स्तोतुं महेशदयिते स्तुतिपाठकात्वाम् ।
तिष्ठन्ति देवि समयं तव काङ्क्षमाणा ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम्॥६॥
मातर्निरीक्ष वदनं भगवान्त्वदीयम् नैवोत्थितश्शशिधिया शयितस्तवाङ्के ।
संबोधयाशु गिरिजे विमलं प्रभातम् जातं महेशदयिते कुरु सुप्रभातम्॥७॥
अन्तश्चरन्त्यास्तव भूषणानाम् झल्झल्ध्वनिं नूपुरकङ्कणानाम् ।
शृत्वा प्रभाते तव दर्शनार्थी द्वारि स्थितोऽहं कुरु सुप्रभातम्॥८॥
वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् ।
काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा । नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम्॥९॥
उत्थाय देवि शयनाद्भगवान्पुरारिः स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् ।
नैको हि गन्तुमनघे रमते दयाद्रेर् ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम्॥१०॥
पश्यांब केचित्फलपुष्पहस्ताः केचित्पुराणानि पठन्ति मातः ।
पठन्ति वेदान्बहवस्तवारे तेषां जनानां कुरु सुप्रभातम्॥११॥
लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम् कन्दर्पदर्पदळनोऽपि वशंगतस्ते ।
कामारिचुम्बितकपोलयुगं त्वदीयं द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम्॥१२॥
गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां गङ्गाजलैः स्नपयितुं बहवो घटांश्च ।
धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः द्वारि स्थिता हि वरदे कुरु सुप्रभातम्॥१३॥
मन्दारकुन्दकुसुमैरपि जातिपुष्पैः मालाकृता विरचितानि मनोहराणि ।
माल्यानि दिव्यपदयोरपि दातुमंब तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम्॥१४॥
काञ्चीकलापपरिरंभनितम्बबिम्बम् काश्मीरचन्दनविलेपितकण्ठदेशम् ।
कामेशचुम्बितकपोलमुदारनासां द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम्॥१५॥
मन्दस्मितं विमलचारुविशालनेत्रम् कण्ठस्थलं कमलकोमलगर्भगौरम् ।
चक्राङ्कितं च युगळं पदयोमृर्गाक्षि द्रष्टं स्थिताः वयमये कुरु सुप्रभातम्॥१६॥
मन्दस्मितं त्रिपुरनाशकरं पुरारेः कामेश्वरप्रणयकोपहरं स्मितं ते ।
मन्दस्मितं विपुलहासमवेक्षितुं । ते मातः स्थिताः वयमये कुरु सुप्रभातम्॥१७॥
माता शिशूनां परिरक्षणार्थम् न चैव निद्रावशमेति लोके ।
माता त्रयाणां जगतां गतिस्त्वम् सदा विनिद्रा कुरु सुप्रभातम्॥१८॥
मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः हृद्यानि दिव्यमधुराणि मनोहराणि ।
श्रोतुं तवांब वचनानि शुभप्रदानि द्वारि स्थिता वयमये कुरु सुप्रभातम्॥१९॥
दिगंबरो ब्रह्मकपालपाणिः विकीर्णकेशः फणिवेष्ठिताङ्गः ।
तथाऽपि मातस्तव देविसङ्गात् महेश्वरोऽभूत् कुरु सुप्रभातम्॥२०॥
अयि तु जननि दत्तस्तन्यपानेन देवि द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः ।
द्रविडतनयभुक्तक्षीरशेषं भवानी वितरसि यदि मातः सुप्रभातं भवेन्मे॥२१॥
जननि तव कुमारः स्तन्यपानप्रभावात् शिशुरपि तव भर्तुः कर्णमूले भवानि ।
प्रणवपदविशेषं बोधयामास देवि यदि मयि च कृपा ते सुप्रभातं भवेन्मे॥२२॥
त्वं विश्वनाथस्य विशालनेत्रा हालस्यनाथस्य नु मीननेत्रा ।
एकाम्रनाथस्य नु कामनेत्रा कामेशजाये कुरु सुप्रभातम्॥२३॥
श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये । त्वत्पादभक्तिभरितः फलपुष्पपाणिः ।
एकाम्रनाथदयिते तव दर्शनार्थी ।
तिष्ठत्ययं यतिवरो मम सुप्रभातम्॥२४॥
एकाम्रनाथदयिते ननु कामपीठे संपूजिताऽसि वरदे गुरुशङ्करेण ।
श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम् द्रष्टुं शिता वयमये कुरु सुप्रभातम्॥२५॥
दुरितशमनदक्षौ मृत्युसन्तासदक्षौ चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ ।
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं त्रिपुरदळनजाये सुप्रभातं ममार्ये॥२६॥
मातस्तदीयचरणं हरिपद्मजाद्यैः वन्द्यं रथाङ्गसरसीरुहशङ्खचिन्हम् ।
द्रष्टुं च योगिजनमानसराजहंसं द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम्॥२७॥
पश्यन्तु केचिद्वदनं त्वदीयं स्तुवन्तु कल्याणगुणांस्तवान्ये ।
नमन्तु पादाब्ज युगं त्वदीयाः द्वारि स्थितानां कुरु सुप्रभातम्॥२८॥
केचित्सुमेरोश्शिखरेऽतितुङ्गे केचित्मणिद्वीपवरे विशाले ।
पश्यन्तु केचित्त्वमृदाभ्धिमध्ये पश्याम्यहं त्वामिह सुप्रभातम्॥२९॥
शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् ।
कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम्॥३०॥
कामप्रदाकल्पतरुर्विभासि नान्या गतिर्मे ननु चातकोऽहम् ।
वर्ष्यस्यमोघः कनकांबुधाराः काश्चित्तु धाराः मयि कल्पयाशु॥३१॥
त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् । त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके॥३२॥
कृतज्ञता कामाक्षि देव्यंब तवार्द्रदृष्ट्या कृतं मयेदं खलु सुप्रभातम् ।
सद्यः फलं मे सुखमंब लब्धं तथा च मे दुःखदशा गता हि॥३३॥
प्रार्थना ये वा प्रभाते पुरतस्तवार्ये पठन्ति भक्त्या ननु सुप्रभातम् ।
शृण्वन्ति ये वा त्वयि बद्धचित्ताः तेषां प्रभातं कुरु सुप्रभातम्॥३४॥
इति लक्ष्मीकान्त शर्मा विरचितं श्रीकामाक्षीसुप्रभातं समाप्तम्॥