Get it on Google Play
Download on the App Store

कल्याणवृष्टिस्तवः


श्रीः॥
कल्याणवृष्टिभिरिवामृतपूरिताभि- र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भाग्यवतां जनानाम्॥१॥
एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सांनिध्यमुद्यदरुणायुतसोदरस्य त्वद्विग्रहस्य परया सुधयाप्लुतस्य॥२॥
ईशत्वनामकलुषाः कति वा न सन्ति ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति॥३॥
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः संमोहयन्ति तरुणीर्भुवनत्रयेऽपि॥४॥
ह्रींकारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय दिव्यन्ति नन्दनवने सह लोकपालैः॥५॥
हन्तुः पुरामधिगलं परिपीयमानः क्रूरः कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्धं देहस्य शश्वदमृताप्लुतशीतलस्य॥६॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वे चामरे च महतीं वसुधां ददाति॥७॥
कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवात्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम्॥८॥
हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव॥९॥
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- मालोकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो न च जायते वा॥१०॥
ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया तान्सेवते वसुमती स्वयमेव लक्ष्मीः॥११॥
संपत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम्॥१२॥
कल्पोपसंहृतिषु कल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका॥१३॥
लग्नं सदा भवतु मातरिदं तवार्धं तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणनिलयं परमामृतार्द्रम्॥१४॥
ह्रींकारमेव तव नाम तदेव रूपं त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति ।
त्वत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुहसंभवादेः॥१५॥
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वश्गा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः॥१६॥
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कल्याणवृष्टिस्तवः संपूर्णः॥

देवी स्तोत्रे

स्तोत्रे
Chapters
महिषासुरमर्दिनी स्तोत्रम् ललितापञ्चरत्नम् आनन्दसागरस्तवः भगवतीस्तोत्रम् विन्ध्येश्वरी स्तोत्रम् श्रीचन्द्रमौलीश्वर स्तुतिशतकम् श्रीशारदास्वर्णरथसमर्पणापद्यावलिः ललितापञ्चरत्नम् शारदाभुजङ्गप्रयाताष्टकम्‌ श्रीशारदापञ्चरत्नस्तुतिः श्री देवी स्तोत्रे देवकृतलक्ष्मीस्तोत्रम् त्रिपुरसुन्दरीस्तोत्रम् लक्ष्मीलहरि: इन्द्राक्षीस्तोत्रम् भवानीभुजंगस्तोत्रम् श्रेयस्करीस्तोत्रम् देवीषट्‌कम् दुर्गापदुद्धारस्तोत्रम् नीलसरस्वतीस्तोत्रम् सरस्वती स्तोत्र श्रीमहालक्ष्मीस्तोत्र देवी स्तोत्र देवी स्तोत्र देवी स्तोत्र देवी प्रणव श्लोकी दुर्गाष्टोत्तरशतनामस्तोत्रं श्रीदुर्गासप्तश्लोकी देवी माहात्म्यम् कीलकस्तोत्रम् देवी कवचम् देवी स्तोत्र नवरत्नमालिका देवी पञ्चरत्नम् धनलक्ष्मी स्तोत्रम् अथ देवीसूक्तं धनलक्ष्मी स्तोत्रम् धर्माम्बिकास्तवः नवदुर्गास्तोत्र नवाक्षरीस्तोत्रम् पार्वतीस्तोत्रम् ब्रह्मस्तोत्रम् बृहदम्बार्याशतकम् भगवतीस्तोत्रम् देवी स्तोत्र हिमवानुवाच देवी स्तोत्र मीनाक्षी पञ्चरत्नम् मीनाक्षीस्तोत्रम् योगविषयः योगिनीहृदयम् श्रीराजराजेश्वर्यष्टकम् राजराजेश्वरीस्तवः रेणुकास्तोत्रम् देवकृत लक्ष्मी स्तोत्रम् देवी स्तोत्र शक्तिसूत्राणि शान्तिस्तवः अघनाशकगायत्रीस्तोत्र अम्बास्तोत्रम् अर्धनारीश्वराष्टकम् अष्टलक्ष्मी स्तोत्रम् धनलक्ष्मी स्तोत्र आर्यापञ्चदशीस्तोत्रम् उमामहेश्वरस्तोत्रम् कनक धारा स्तोत्र कल्याणवृष्टिस्तवः श्री कामाक्षी सुप्रभातम् कीलकस्तोत्रम् गंगास्तोत्र श्री चण्डीपाठ देवी स्तोत्र देवी अथर्वशीर्ष