श्रीशारदास्वर्णरथसमर्पणापद्यावलिः
श्रीशङ्करगुरुत्तंससमर्चितपदाम्बुजे ।
शारदे रथमारोह सौवर्णे सर्वमङ्गले ॥१॥
स्वर्गादिसुखसन्दात्रि स्वर्णसच्छायविग्रहे ।
स्वर्णस्यन्दनमारुह्य सर्वान् पालय शारदे ॥२॥
भक्तप्रिये भद्रदात्रि भक्तानामभयप्रदे ।
हिरण्यगर्भवामाङ्गि हरिदश्वादिसेविते ।
कनकाभरणैर्युक्ते कविताविभवप्रदे ।
कार्तस्वरमयं मातः आरोह रथमुत्तमम् ॥३॥
॥इति श्रीशारदास्वर्णरथसमर्पणापद्यावलिः॥
शारदे रथमारोह सौवर्णे सर्वमङ्गले ॥१॥
स्वर्गादिसुखसन्दात्रि स्वर्णसच्छायविग्रहे ।
स्वर्णस्यन्दनमारुह्य सर्वान् पालय शारदे ॥२॥
भक्तप्रिये भद्रदात्रि भक्तानामभयप्रदे ।
हिरण्यगर्भवामाङ्गि हरिदश्वादिसेविते ।
कनकाभरणैर्युक्ते कविताविभवप्रदे ।
कार्तस्वरमयं मातः आरोह रथमुत्तमम् ॥३॥
॥इति श्रीशारदास्वर्णरथसमर्पणापद्यावलिः॥