रेणुकास्तोत्रम्
पाकामृतांशुमकुटाभरणा भवानी शोकापहा नतजनस्य शुभाखिलाङ्गी ।
कोकाकृतिस्तनभरा कुशलानि नित्यं मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ॥
श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति संप्रदायः ॥ॐ॥
कालाग्न्यादि शिवावसानमखिलं ते गुल्फदघ्नं शिवे मूर्तिं कीर्तयितुं न कस्य रसना लज्जाम्बुधौ मज्जति ।
तस्मात् त्वच्चरणैकदेशनखरज्योतिःस्फुलिङ्गा इव स्फूर्जन्ति प्रभविष्णवश्च सततं ते पद्मनाभादयः ॥१॥
कल्पः कोऽपि स शांभवो विजयते मातस्त्वया कल्पितो यत्रानल्पविकल्पजालविमुखः कश्चिद्विपश्चित् परः ।
सा त्वं सत्त्ववतामपीह सुलभा नैवासि किं स्तूयसे स्वच्छन्दं शिशवो यथा तव पुनः क्रीडन्ति वेदा इमे ॥२॥
लीलाचामरधारिणीसहचरीगत्या महासिद्धयो नूनं वञ्चयितुं स्फुरन्ति भवतीकारुण्यशून्यं जनम् ।
अम्ब त्वन्नयनाञ्चलं करुणया यस्मिन् परिक्रीडते तस्य द्वारि निवारितोऽपि कुरुते सेवां सुराणां गणः ॥३॥
आ पातालतलात् फणीश्वरशिरोरत्नांशुनीराजिता- दा सर्वज्ञनिकेतनादपि शिखायौतांशुधौताङ्कणात् ।
एकच्छत्रमवाप्य वैभवमहो दीव्यन्ति ते संततं ये संध्याचलनिश्चलं तव पदं ध्यायन्ति गायन्ति च ॥४॥
ये त्वामम्ब पलाशबिल्वकुसुमैरुल्लासिभिर्मल्लिका- पुष्पैर्वा वनमल्लिकाविरचितैरुद्दामभिर्दामभिः ।
मुग्धोन्मीलितमालतीभिरभितः संपूजयन्त्यादरात् तेषामुद्धृतसौरभा प्रतिदिनं व्याजृम्भते भारती ॥५॥
त्वां सह्याचलमौलिसुस्थितपदां श्री- एकवीराम्बिके ये लिम्पन्ति सचन्द्रचन्दनरसैस्तेषां सुधास्राविणी ।
वाणीविस्मयवर्ण्यमानगिरिशव्यालोलगङ्गाजल- स्वच्छन्दोर्मितपरंपराविजयिनी वाणी नरीनृत्यति ॥६॥
ये त्वां ब्राह्ममुहूर्तनिर्मलधियस्त्वाधारतश्चिन्तय- न्त्यूर्ध्वं मूर्ध्नि सरोरुहेऽतिधवले पीयूषधारावृते ।
ते मृत्युं सहसा विजित्य रचयन्त्युच्चैर्गतिं नित्यशः प्रत्यादिष्टपुरःसुधाकरसुधाहंभावसंभाविताः ॥७॥
यस्त्वां पश्यति तस्य नश्यति महापापान्धकारः क्षणात् किं चार्धादपरे पुराणपुरुषप्राणप्रिये पार्वति ।
मूर्ध्नस्तस्य ततो भवेत् कृतधियः श्री- एकवीराम्बिके दृश्यन्ते न मनागपीह यदियं प्रत्यक्षमुद्योतसे ॥८॥
किं योगेन किमर्चनेन किमथ ज्ञानेन किं कर्मणा किं ध्यानेन किमिज्यया किमथवा दानेन किं दीक्षया ।
दृश्यन्ते यदि सह्यशैलशिखरश्रीगर्विताः सर्वदा मातः पार्वति रेणुके तव पदाम्भोजप्रभाविभ्रमाः ॥९॥
हे सह्याचलनित्यकेलिरसिके कर्पूरकस्तूरिका- विन्यस्तागरुकुङ्कुमैर्मलयजैस्त्वं चर्चिताभ्यर्चिता ।
ते दीव्यन्ति सुरेन्द्रमुख्यविबुधश्रेणीकिरीटस्फुर- न्माणिक्यप्रतिबिम्बितारुणपदस्थाः संप्रदाः संपदाम् ॥१०॥
हे सह्याद्रिविनिद्रलिङ्गवपुषि श्री- एकवीराम्बिके त्वां कृष्णागरुगुग्गुलुप्रभृतिभिर्ये धूपयन्त्यादरात् ।
ते कैलासनिवासिनीभिरभितः संचारितैश्चारुभि- र्लीलाचामरमारुतैश्चिरतरं नन्दन्ति रुद्रा इव ॥११॥
मातः शांभवि जृम्भितामृतशिलालिङ्गात्मिके रेणुके त्वां सह्याद्रिशिरोविहारसुलभां नीराजयन्त्यादरात् ।
ते बृन्दारकबृन्दवन्दितपदाश्चन्द्रार्कचूडामणि- ज्योतिर्मेदुरमन्दिराङ्कणभुवो भूतिं लभन्तेऽद्भुताम् ॥१२॥
दूरादङ्गणरङ्गसंगतरजोराजीविराजद्वपु- स्तुभ्यं यः प्रणिपत्तिमम्ब कुरुते कश्चित् कदाचित् क्वचित्।
संप्राप्य श्रियमिन्दुसुन्दरयशःसंदोहनिष्यन्दिनी- मन्ते निर्विषयं स्वयं प्रविशति श्रीशांभवं वैभवम् ॥१३॥
त्वामुद्दिश्य कदापि कोऽपि किमपि क्वापि प्रपद्यन् नरो भक्त्यावेशवशीकृतो जपति वा यो यज्जुहोत्यादरात् ।
तत् तस्याक्षयमेव देवि भवति स्वर्गापवर्गप्रदं त्वन्नामस्मरणं गतो विजयते सर्वोऽपि शर्वो जनः ॥१४॥
मातस्त्वच्चरणेन यास्यति चिरं रुद्रोऽपि भद्राशय- श्चूडाचन्द्रकलामरीचिनिचयैराचान्तरत्नासनैः ।
तत्त्वानामुपरि स्थितो विजयते वामादिभिर्नामभिः श्रीकामेश्वरि दक्षपुत्रि गिरिजे त्वं रेणुके रक्ष माम् ॥१५॥
मातर्भैरवि भर्गपत्नि गिरिजे गायत्रि गोत्रात्मिके दुर्गे गौरि सरस्वति त्रिणयने श्रीसिद्धलक्ष्मी धृते ।
नित्ये मृत्युविकारहारिणि शिवे श्री- एकवीराम्बिके सोऽहं ते शरणागतः करुणया त्वं रेणुके रक्ष माम् ॥१६॥
इति श्रीरेणुकास्तोत्रं समाप्तः॥पाकामृतांशुमकुटाभरणा भवानी शोकापहा नतजनस्य शुभाखिलाङ्गी ।
कोकाकृतिस्तनभरा कुशलानि नित्यं मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ॥
श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति संप्रदायः ॥ॐ॥