बृहदम्बार्याशतकम्
॥श्रीगोकर्णनिकेता श्रीविद्यादिव्यशुक्तिकामुक्ता । श्रीकण्ठनित्यमिलिता श्रीचक्रेशी पुरोऽस्तु मे माता ॥१॥
कल्याणं कलयेन्नः कल्यानस्मान् करोतु शतमब्दान् । कल्यातङ्कमपास्येत् कल्याणी नः सदैव बृहदम्बा ॥२॥
तरुणारुणप्रकाशं तरुणा वकुलेन भासुरनिवेशम् । गुरुणा स्तनेन नमितं गुरुणा सदयेन वस्तुः न कथितम् ॥३॥
वकुलद्रुमूलसदनां वनजसहाध्यायिपरिलसद्वदनाम् । वल्गुस्मितेक्ष्यरदनां वन्दे दृक्तर्जिताम्बुजच्छदनाम् ॥४॥
एका द्विलोकसुखदा त्र्यक्षर्याख्यापिता चतुःपीठा । पञ्चाम्नायशिरःस्था बृहदम्ब त्वं षडध्वजनयित्री ॥५॥
नासाभासा चम्पकशोभाक्षोभावहास्तु बृहदम्बा । पारावारात्मजया सेव्या देव्या गिरां च भव्याय ॥६॥
कम्बुलसत्कंधरया कैश्यविनिर्धूतनीलकंधरया । पाल्ये शोणाधरया पावितवकुलद्रुमूलसद्धरया ॥७॥
पीनस्तनावनम्रे पादनताम्भोजवासिनीकम्रे । वाणीजितसरसाम्रे वाचो वल्गन्तु धाम्नि मे ताम्रे ॥८॥
वकुलवनीवासिन्या विद्रुमसच्छायचेलवासिन्या । हृद्राजीवासिन्या हृदयं शंभोर्हृतं सुवासिन्या ॥९॥
वन्दे श्रीबृहदम्बां वल्गुगतापास्तराजकादम्बाम् । आश्रितजनावलम्बामासेवे कैश्यधूतलोलम्बाम् ॥१०॥
केसरसरभासुरया केवलदासीभवत्सुरासुरया । कलिता वाणी सुरया कयापि मे भक्तिनम्रभूसुरया ॥११॥
शिरसा धृतसोमायाः श्रीगोकर्णैकदिव्यधामायाः । पदनम्राणां मायाः पापविधात्र्यः कदापि नोमायाः ॥१२॥
आनन्दसारसीमामानङ्गोत्कर्षपोषकापाङ्गाम् । आनन्तुं बृहदम्बामानन्त्यं मूर्ध्नि वाञ्छामि ॥१३॥
वकुलाटवीनिविष्टां वन्दकसंरक्षणात्यभिनिविष्टाम् । निरवधिकरुणाविष्टां नित्यं सेवेमहीष्टशिपिविष्टाम् ॥१४॥
अभिधायितहृल्लेखामतीतविद्वत्सुकविजनोल्लेखाम् । पदपद्मनमल्लेखां पश्यामः शाश्वतीं तटिल्लेखाम् ॥१५॥
करुणामृतवर्षिण्याः सेवकसर्वापराधमर्षिण्याः । वकुलविपिनहर्षिण्या वश्याः स्मः शंभुचित्तकर्षिण्याः ॥१६॥
करुणाझरसरसाक्षीमरुणाधरशोभिसुन्दरसुहासाम् । तरुनार्धघटितदेहां वरुणालयजेडितां शिवां वृणुमः ॥१७॥
धन्याः के नु मदन्या वलयेऽवन्या यतो वकुलवन्याः । मूले मोक्षवदान्या मान्या कन्या गिरोर्हितमान्या मे ॥१८॥
केचित् त्वां कुलमूले साक्षात्कुर्वन्त्यहं वकुलमूले । अर्धेश्वरां कतिपये मातः सर्वेश्वरामहं कलये ॥१९॥
वाञ्छितसिद्ध्यै भविता लाञ्छितचिकुरा चकोरवृत्तिकृता । काङ्क्षितचरणा सद्भिः कां क्षिप्रं नातनोति संसिद्धिम् ॥२०॥
अरुणिमसारसमष्टिः संसृतिकूपोत्तरणयष्टिः । कलितामृतौघवृष्टिर्बृहदम्बा भातु मे कृपादृष्टिः ॥२१॥
सामजसमानगमना सामसमाजोपगानतुष्टमनाः । समजानुपेतचरणा समरसतापन्नपन्नगाभरणा ॥२२॥
विश्वपतिवश्यहृदया नश्वरविश्वासपश्वनाशास्या । अश्वमुखस्तवशस्या निःश्वसितानुश्रवास्ति बृहदम्बा ॥२३॥
लघु तव चरणं शरणं तरणं मृत्योर्भजामि बृहदम्ब । यावत् तरसा जरसा परसादङ्गानि न कृतानि ॥२४॥
प्रभवति यत्र न गौर्वा नोर्मीणां संकथा न वा जडता । कोऽपि वकुलालवाले जयति चिरानन्दसागरोऽपार ॥२५॥
स्थावरराजतनूजा भावरसस्फीतवैखरी जननी । पीवरवक्षोजनता धीवरदौहित्रसूक्तिपरिचिन्त्या ॥२६॥
सर्वानन्दनिवासा शक्रशतानन्दमुख्यसुरसेव्या । धृतनन्दसूनुदेहा भूमनिजानन्दमेदुरा जयति ॥२७॥
अपहृत्य चित्तशल्यं भक्तिमतामातनोषि कैवल्यम् । बृहदम्ब को न्वकल्यं देवान्तरं त्व्या पाल्यम् ॥२८॥
भवनीकृतगोकर्णं भास्वन्मणिकुण्डलस्फुरत्कर्णम् । ध्यायामि शोणवर्णं धाम परं भक्तमानसाभ्यर्णम् ॥२९॥
कलिता ललिता कलितापहरा दहरान्तरविचिन्त्या । वकुले मुकुलेड्यकुले सदयाभ्युदया किमन्यदेवैर्मे ॥३०॥
वाराणसीनिषेवां वाराश्यवगाहनानि च न तन्याः । वारान् बहूनथाङ्घ्र्योर्वारा पूयस्व वकुलमूलेश्याः ॥३१॥
श्रेयश्च या विधत्ते श्रीबृहदम्बापदाम्बुरुहचिन्ता । कलिकलुषणि विभिन्ते मदमपि कार्तान्तमाहन्ता ॥३२॥
नीवी नवान्यवचसां सा वीणा वाण्यभिपणार्या । भावी भवार्तिहरणी देवी दयतां सदैव बृहदम्बा ॥३३॥
माता सारसनेत्रा मान्या वाराशिकन्यकानेत्रा । मृगचक्रवर्तिपत्रा मनसि मम स्तात् स्तनोल्लसत्पत्रा ॥३४॥
वेलतिगानुकम्पा वकुलवनाम्भोदमञ्जुतरशम्पा । भवतप्तामृतझम्पा भवतु हृदिस्था कृतद्विषत्कम्पा ॥३५॥
पद्यायामाद् यायामाद्यायामम्ब तावकजनानाम् । विद्यां ते निरवद्यां विद्यां गोकर्णराज्ञि दयया ते ॥३६॥
तरणिं तमश्छटानामरणिं ज्ञानानलस्य कलयामि । तरणिं भवाम्बुराशेः सरणिं वेद्यागमस्य बृहदम्बाम् ॥३७॥
वक्षोजभारनमिता लक्षोत्तरवेदगीःप्रमिता । इक्षोर्मधुरोक्तिमिता न क्षोभ्या त्वं दयाधुनी स्तिमिता ॥३८॥
हृदयं पुराणवचसां सदयं दीनावने परं तेजः । मदयन्नधरं शंभोस्तदयं यातो जनः शरणम् ॥३९॥
माङ्कणतीरकुटीरा मेदुरवक्षोजलिप्तपाटीरा । पतिधृतचन्द्राण्डीरा ध्येयाम्बा मुक्तिदानशौण्डीरा ॥४०॥
आपन्नरक्षणार्थे चापं पुण्ड्रेक्षुमादधाना सा । रोपं च पौष्पमम्बा पापं प्रोत्सारयेन्ममाशेषम् ॥४१॥
दक्षा निरर्गला सा दातुं स्वर्गं त्रिवर्गमपवर्गम् । बृहदम्बा महदन्तर्वासा भासारुणा जयति ॥४२॥
वारिदसोदरचिकुरां वदनपराभूतविस्फुरन्मुकुराम् । सुन्दरहासाङ्कूरां सेवेऽम्बां वाग्जितामृतासाराम् ॥४३॥
बिन्दुत्रयात्मकतया कलयन्ति त्वामपारकरुणाब्धिम् । ये बृहदम्ब भवाब्धिर्विदुषां तेषां कति पृषन्ति ॥४४॥
नीवारशूकशाता नीहारांशुच्छटाशीता । बालादित्यशताभा मूलाधारात् समुद्यता भासि ॥४५॥
विश्वप्रथानिदानं वेदशिरःस्फूर्जदपदानम् । बृहदम्बिकाभिधानं बहुशः सेवेय मङ्गलविधानम् ॥४६॥
आलोलनीलवेणी फालोत्सङ्गानुषङ्गिदिव्यमणी । कालोन्मिषत्कुवलयच्छायादायादलोचनद्वितया ॥४७॥
मणिताटङ्कसमुद्यद्घृणिगणनीराजितकपोलम् । नासाग्रलम्बिमुक्ताभासा संपृक्तमन्दहासरुचिः ॥४८॥
अरुणाधरजितबिम्बा वक्त्रपराभूतशीतकरबिम्बा । पीनोन्नतस्तनभरा पाशसृणीष्विक्षुचापकरा ॥४९॥
शिञ्जितमञ्जीरलसन्मञ्जुलचरणाब्जनम्रसुरलोका । बृहदम्बा मम हृदये निवसतु वात्सल्यशीतलालोका ॥५०॥
भानव्या या नव्या मानव्याघातभीतया दीप्त्या । आतन्वीत सुतन्वी सा तन्वीड्या श्रियं तवाम्ब तनूः ॥५१॥
इच्छात्तविश्वशिल्पां पञ्चब्रह्मप्रकल्पितसुतल्पाम् । वन्दीकृतादिजल्पां वन्दे देवीं दयोदयानल्पाम् ॥५२॥
केचिन्मदालसाक्षं कालोन्मीलत्कुवालजयदक्षम् । गात्रं तवापरोक्षं कुर्युर्बृहदम्ब दुष्कृतविपक्षम् ॥५३॥
शयधृतचारुविपञ्ची श्रोणीबिम्बावलम्बिमणिकाञ्ची । गोकर्णेश्यघवञ्ची दृष्टा चेत् को न भक्तिरोमाञ्ची ॥५४॥
कालं प्रयाप्य मेऽलं भारैर्दुःस्थैरचारुकुचभारैः । क्षामैरशुकश्यामैरन्यैर्देवैरधूतनतदैन्यैः ॥५५॥
सोमार्धसल्ललामा सा मामव्यात् सुवकुलवनदामा । कामारिदिव्यरामा परमा संविद् घनश्यामा ॥५६॥
कोमलवाकुलमूला स्तोमलसत्कुन्तलाधिगोकर्णम् । यामलवर्ण्या कापि श्यामलवर्णा विभाति गुरुमूर्तिः ॥५७॥
प्रवहत्करुणापाङ्गं प्रत्यग्राम्भोदमेचकश्यामम् । विश्वाधिकान्तरङ्गं वकुलवने भाति पालितपाङ्गम् ॥५८॥
शिखिपिञ्छं तापिञ्छं सभयं धम्मिल्लशोभया स्वभया । आदधती दधतीन्दुं माङ्कणरोधोऽङ्कणे जयत्यम्बा ॥५९॥
वामकुचचुम्बिवीणामर्धोन्मीलन्मनोज्ञट्टक्कोणाम् । विश्वावनप्रवीणां वकुलाटव्यां नमामि रममाणाम् ॥६०॥
अंसानुषङ्गिचूली संसारापारवारिधेराली । शं सा ददातु काली कंसारीड्या सदात्तवकुलाली ॥६१॥
वीणावादिनि शर्मास्वादिनि कर्माद्रिभेदिनि स्यान्मे । विश्वाकारिणि चन्द्रालंकारिणि बोधकारिणि प्रेम ॥६२॥
अरुणांशुकामुपासे निगमं शुकरूपिणं दधतीम् । ददतीमाशुकवित्वं स्वांशुकदर्थीकृतातसीं जननीम् ॥६३॥
सज्जनकृतवरिवस्यं सारसपरिहाससादरनिजास्यम् । गान्धर्वस्य रहस्यं किंचन कुर्यान्मदाशास्यम् ॥६४॥
दूर्वाश्यामलकाये दुर्वासोमुख्यमौनिगणसेव्ये । अर्वास्यवर्णितगुणे कुर्वाशापूर्तिमद्य बृहदम्ब ॥६५॥
लीलालोला वकुलाटव्यामव्याच्छुकाभिरामकरा । वीणाक्काणाभिरता माता भूताधिपस्य दयिता नः ॥६६॥
दुरितेभ्यो न कृतेभ्यो नापि कृतान्ताद् बिभेमि दुर्दान्तात् । दृष्टा दयासमष्टिर्वकुलवने श्यामलाकृतिर्येन ॥६७॥
धन्योऽहं धन्योऽहं वंशद्वितयी मदीक्षिता धन्या । परिपणमाम्नायानां श्यामलमालोकि वकुलमूले यत् ॥६८॥
वित्तादिभिर्नराणां मत्तानां दुर्लभा विना भक्तिम् । तत्तादृशानुभावा सत्ता काचिद् विभाति गोकर्णे ॥६९॥
परिहृतसर्वविकल्पा परिधृतशीतांशुकोरकाकल्पा । बालदिवाकरकल्पा बृहदम्बा पातु सत्यसंकल्पा ॥७०॥
चम्पकनीपरसालाः सन्त्येवान्ये रसास्थले सालाः । वकुले तु मेऽस्ति भक्तिर्यस्मिन् दृष्टे स्मृता भवत्यम्बा ॥७१॥
भ्रमरीविभ्रमकबरीं भ्रूभ्रमणेनैव पञ्चकृत्यकरीम् । संवित्सुखामृतझरीं संसेवेऽम्बां भवाम्बुराशितरीम् ॥७२॥
कुमुदेशपाकचूडं कलितसुरोद्यानमालिकापीडम् । अञ्चितवकुलाक्रीडं किंचिदुपासे दयानिवहनीडम् ॥७३॥
सरले सरले विरले तरले हृन्नेत्रकुचसीम्नि । वस्तुनि मेऽस्तु निवास्तुनि करुणायाश्चित्तवृत्तिरपतन्द्रा ॥७४॥
कं गणयेऽन्यमुपास्यं मङ्कणकासारतीरकौतुकिनः । अङ्गणवाकुलसुमनोरिङ्खणसौरभ्यनिर्भराद्धाम्नः ॥७५॥
वेशन्ततुल्यनाभी वासन्तस्फारपुष्पशुभवेणी । सीमन्तभासिवुसृणा सा हन्त प्रेक्षिताद्य बृहदम्बा ॥७६॥
श्रुतिलासिकालिरङ्गायितस्वमहिमाक्षिनिर्जितकुरङ्गा । प्रोद्यत्कृपातरङ्गा पायादम्बा मृगेश्वरतुरङ्गा ॥७७॥
निबिडघनस्तनकुम्भा निजवेणीन्यस्तशीतकरडिम्भा । निवसितवरकौसुम्भा निवसतु चित्ते जगद्धितारम्भा ॥७८॥
गम्भीरनाभिकुहरां कुम्भीन्द्रस्पर्धिमुग्धसंचाराम् । तां भीमस्य न भामां कुम्भीपाकेच्छवो भजन्त्यज्ञाः ॥७९॥
वाह्यापि नो पुराण्या तत्त्वविपण्या यदुच्चतागण्या । सा वर्ण्यास्तु शरण्या कस्य धरण्यामुमाखिलवरेण्या ॥८०॥
गोकर्णेशयसेव्यां गोकर्णेशप्रियां प्रणमन् । गोकर्णे वस तूष्णीं गोकर्णे भ्रामकांस्तु जप मन्त्रान् ॥८१॥
क्षुद्रार्थदानशीला न द्रागाराधिताः प्रसीदन्ति । निद्रालसास्त्वदन्ये तद्राज्ञि त्वां भजे वकुलवन्याः ॥८२॥
आगमकोटिनिरुक्तामाब्रह्मस्तम्बरक्षणासक्ताम् । आर्यामनादिमुक्तामालोके केसराटवीसक्ताम् ॥८३॥
सेवे किंचन दिव्यं भावे तेजः समस्तसंसेव्यम् । धीवेदिमेत्य हृद्यं संवेद्याख्यं दहेन्ममाभव्यम् ॥८४॥
वाणी चाम्बुधिकन्या सा वृणुते तं बलादिवानन्या । किंचित् त्वया जनन्या कटाक्षितो यः कियत्यथ स्त्र्यन्या ॥८५॥
शक्तः कोऽपि यदीयां लङ्घितुमाज्ञां न लोकेषु । यस्याज्ञां बृहदम्बा साध्यास्ते कस्ततो ह्यधिकः ॥८६॥
अष्टापदादि सर्वं लोष्टाभिन्नं सदाभिपश्यन्तः । अष्टात्मनः प्रणयिनीं शिष्टाः पश्यन्त्यनन्यतया ॥८७॥
दाहं भवानलोत्थं व्याहन्तुं वाकुलाटवीं देवीम् । सोऽहं भजामि भक्त्या याहंतारूपिनीति गुरुणोक्ता ॥८८॥
कुलदैवतं मदीयं कुलकुण्डाभ्यन्तरैकवास्तव्यम् । कुलपर्वतेशभाग्यं कुलायमीक्षेऽनुपाधिकरुणायाः ॥८९॥
अग्नाविष्णुमुखेड्या भग्नाशेषार्तिरात्मभक्तानाम् । भुग्नालका मदीये लग्ना चित्ते चकास्तु बृहदम्बा ॥९०॥
अव्याजभूतकरुणा भव्यापाङ्गप्रकल्पितत्राणा । अव्याद्विलिप्तघुसृणा स्तव्या श्रुत्या सदाप्तगोकर्णा ॥९१॥
अम्भोजतुल्यनयनामङ्कालंकारिणीं त्रिनेत्रस्य । अङ्गीकृतादिमरसाम्बां गोकर्णनायिकां सेवे ॥९२॥
भार्यामनादियूनोऽहार्याधीशान्ववायमणिभूषाम् । आर्यामुपाध्वमनिशं कार्याकार्यावमर्शनिष्णाताः ॥९३॥
वरदे सुरदेशिकवाङ्निकरासुकरानुवर्णने धाम्नि । करवै मुरवैरिमुखैः शिरसा सुरसार्थकैर्नते चेतः ॥९४॥
मङ्कणकासारझरीसमीरधारामनोहरोदारे । मिलदलिलोलन्मुकुले वकुलवने लालसीति सकलेशी ॥९५॥
पश्यल्ललाटदारान् परिपूर्णानन्दसंविदाकारान् । कठिनघनस्तनभारान् कलये गोकर्णपावनागारान् ॥९६॥
गोकर्णेशमहिष्या व्याकर्तुं को गुणान् भवेदीशः । स्वीकर्तुं हृदि वा तान् श्रीकर्कास्यं तमेकमपहाय ॥९७॥
तुष्टा श्रीबृहदम्बा कष्टानुन्मूलयेत् कृपादृष्ट्या । इष्टानि च प्रदद्यान्मृष्टां प्रतिभां परत्र च श्रेयः ॥९८॥
वन्दे विश्वविधात्रीं वन्दे विद्याचिमुक्तिफलदात्रीम् । वन्दे वकुलवनेशीं वन्दे गोकर्णवल्लभसुकेशीम् ॥९९॥
जयति स्फारदयार्द्रा गोकर्णाधीशवल्लभा जयति । जयति प्रसादसुमुखी श्रीरघुनाथेन्द्रपूजिता जयति ॥१००॥
आख्यां सकृद् यदीयामाख्यायाशेषवाञ्छितं लभते । तस्याः स्तुतिप्रियायाः यः स्यात् स्तोत्रं पठन् स पूर्णार्थः ॥१०१॥॥
इति श्रीबृहदम्बाशतकं संपूर्णम्॥