अथ देवीसूक्तं
अहं रुद्रेभिरित्यादिमन्त्रस्य ब्रह्माद्या ऋषयो गायत्र्यादीनि छन्दांसि, आद्या देवी देवता,देवीसूक्तजपे विनियोगः ।
ॐ अहं रुद्रेभिर्बसुभिश्चराम्यहमादितैरुत विश्वदेवैः । अहं मित्रावरुणोभा विभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
अहं सोममाहनसं विभर्म्यहं त्वष्टारमुत पूषणं भगं । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥२॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीं ॥३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तं । अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्विवं ते वदामि ॥४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधां ॥५॥
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे । ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मनोपस्पृशामि ॥७॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिवैतावती महिमा सं वभूव ॥८॥
॥इति ऋग्वेदोक्त देवीसूक्तं समाप्तं ॥