गोपालाष्टकम्
यस्माद्विश्वं जातमिदं चित्रमतक्यं यस्मिन्नानंदात्मनि नित्यं रमते वै ।
यत्रांते संयाति लयं चैतदशेषं तं गोपालं संततकालं प्रति वंदे ॥ १ ॥
यस्याज्ञानाज्जन्मजरारोगकदंबं ज्ञाते यस्मिनश्यति तत्सर्वमिहाशु ।
गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं संततकालं प्रति वंदे ॥ २ ॥
तिष्ठन्नंतर्योयमयत्येतदजस्त्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि संतम् ।
सर्वं यस्येदं च वशे तिष्ठति विश्वं तं गोपालं संततकालं प्रति वंदे ॥ ३ ॥
धर्मोऽधर्मेणेह तिरस्कारमुपैति काले यस्मिन्मत्स्यमुखैश्चारुचरित्रैः नानारूपैः ।
पाति तदा योऽवनिबिंबं तं गोपालं संततकालं प्रति वंदे ॥ ४ ॥
प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा रुद्ध्वा चित्तं यं ह्रदि पश्यंति समाधौ ।
ज्योतीरूपं योगिजनामोदनिमग्नास्तं गोपालं संततकालं प्रति वंदे ॥ ५ ॥
भानुश्चंद्रश्चोड्डगणश्चैव हुताशो यस्मिन्नैवाभाति तडिच्चापि कदापि ।
यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं संततकालं प्रति वंदे ॥ ६ ॥
सत्यज्ञानं मोदमवोचुर्निगमा यं यो ब्रह्मेन्द्रादित्यगिरिशार्चितपादः ।
शेतेऽनंतोऽनंततनावंबुनिधौ यस्तं गोपालं संततकाल प्रति वंदे ॥ ७ ॥
शैवाः प्राहुर्यं शिवमन्ये गणनाथं शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात् ।
नानाप्रकारैर्भाति य एकोऽखिलशक्तिस्तं गोपालं संततकालं प्रति वंदे ॥ ८ ॥
श्रीमद्गोपालाष्टकमेतत् समधीते भक्त्या नित्यं यो मनुजो वै स्थिरचेताः ।
हित्वा तूर्णं पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपातः ॥ ९ ॥
इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीगोपालाष्टकं संपूर्णम् ।