Get it on Google Play
Download on the App Store

गोपालविंशतिस्तोत्रम्

श्रीमान् वेंकटनार्थायः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा ह्रदि ॥ १ ॥
वंदे वृन्दावनचरं बल्लवीजनवल्लभम् ।
जयंतीसंभवं धाम वैजयंतीविभूषणम् ॥ २ ॥
वाचं निजाङकरसिकां प्रसमीक्षमाणो वक्त्रारविदविनिवेशितपाञ्चजन्यः ।
वर्णत्रिकोणरुचिरे वरपुंडरिके बद्धासनो जयति बल्लभचक्रवर्ती ॥ ३ ॥
आम्नायगंधरुचिरस्फुरिताधरोष्ठमस्त्राविलेक्षणमनुक्षणमंदहासम् ।
गोपालडिंभवपुषं कुहनाजनन्याः प्राणस्तनंधयमवैमि परं पुमांसम् ॥ ४ ॥
आविर्भवत्यनिभृतभरणं पुरस्तादाकुंचितैकचरणं निहितान्यपादम् ।
राधानिबद्धमुकुरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ५ ॥
कुंदप्रसूनविशदैर्दशनैश्चतुर्भिः संदश्य मातुरनिशं कुचचूचुकाग्रम् ।
नंदस्य वक्त्रमवलोकयतो मुरारेर्मदस्मितं मम मनीषितमातनोतु ॥ ६ ॥
हर्तु कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं दृष्ट्‌वा दामग्रहणचटुलां मातरं जातरोषम् ।
पायादीषत्प्रचलितपदो नापगच्छन्नतिष्ठन्मिथ्यागोपाः सपदि नयने मीलयन् विश्वगोप्ता ॥ ७ ॥
व्रजयोषिदपांगवेदनीयं मथुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधूस्तनंधयं तत्‌ किमपि ब्रह्म किशोरभावदृश्यम् ॥ ८ ॥
परिवर्तितकंधरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि ।
विटपित्वनिरासककयोश्चिद्विपुलोलूखलकर्षकं कुमारम् ॥ ९ ॥
निकटेषु निशामयामि नित्यं निगमांतैरधुनापि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवतं युवानम् ॥ १० ॥
पदवीमदवीयसीं विमुक्तेरटवीसंपदमंबु वाहयंतीम् ।
अरुणाधरसाभिलाषवंशां करुणां कारणमानुषं भजामि ॥ ११ ॥
अनिमेषनिषेवणीयमक्ष्णोरजहद्योवनमाविरस्तु चित्ते ।
कलहायितकुन्तलं कलापैः करुणोन्मादकविग्रहं मनो मे ॥ १२ ॥
अनुयायिमनोज्ञवंशनालैरवतु स्पर्शितबल्लवीविमोघैः ।
अनघस्मितशीतलौरसौ मामनुकंपासरिदंबुजैरपाङ्गैः ॥ १३ ॥
अधराहितचारुवंशनाला मुकुटालंबिमयूरपिच्छमालाः ।
हरिनीलशिलाविहंगलीलाः प्रतिभासंतु ममांतिमप्रयाणे ॥ १४ ॥
अखिलानवलोकयामि कालान्महिलादीनभुजांतरस्य यूनः ।
अभिलाषपदं ब्रजांगनानामभिलापक्रमदूरमाभिरूप्यम् ॥ १५ ॥
महसे महिताय मौलिना विनतेनांजलिमंजनन्त्विषे ।
कलयामि विदग्धबल्लवीवलयाभाषितमंजुवेणवे ॥ १६ ॥
जयतु ललितकृतं शिक्षको बल्लवीनांशिथिलवलयसिजाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेषस्य विष्णोरधरमणिसुधाया वंशवान्वंशनालः ॥ १७ ॥
चित्राकल्पश्रवसि कलयँल्लांगलीकर्णपूरं बर्होत्तंसस्फुरितचिकुरो बंधुजीवं दधानः ।
गुंजाबद्धामुरसि ललितां धारयन्‍ हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १८ ॥
लीलायाष्टिं करकिसलये दक्षिणे न्यस्य धन्यामंसे देव्याः पुलकनिविडे सन्निविष्टान्यबाहुः ।
मेघश्यामो जयति ललितं मेखलादत्तवेणुर्गुंजापीडस्फुरितचिकुरो गोपकन्या भुजङ्गः ॥ १९ ॥
प्रत्यालीढस्मृतिमधिगतां प्राप्तगाढांगपालीं पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।
भस्त्रायंत्रप्रणिहितकरो भक्तिजीवातुरव्याद्वारिक्रीडानिबिडवसनो बल्लवीवल्लभो नः ॥ २० ॥
वासो ह्रत्वा दिनकरसुतासंनिधौ वल्लवीनां लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसनं ताभिरभ्यर्थ्यमानः कामी कश्चित्करकमलयोरंजलिं याचमानः ॥ २१ ॥
इत्यनन्यमनसा विनिर्मितां वेंकटेशकविना स्तुतिं पठन ।
दिव्यबेणुरसिकैः समीक्षते दैवतं किमपि यौवतप्रियम् ॥ २२ ॥
इति गोपालविंशतिस्तोत्रं संपूर्णम् ।

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम् गोपालहृदयस्तोत्रम् गोविन्द दामोदर स्तोत्र गोविन्दस्तोत्रम् शालिग्रामस्तोत्र नारायणाय अष्टाक्षरमाहात्म्यं उक्ति प्रत्युक्ति स्तोत्रम् श्री कृष्ण सुप्रभातम् कर्पूर आरती मन्त्रः श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः ज्वर रचित कृष्णस्तोत्र धर्मकृतं श्रीकृष्णस्तोत्र नारायणकृतं श्रीकृष्णस्तोत्र ब्रह्मकृतं श्रीकृष्णस्तोत्र शम्भुकृतं श्रीकृष्णस्तोत्र सरस्वतीकृतं श्रीकृष्णस्तोत्र मोहिनी रचित स्तोत्र श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः श्री कृष्णजयन्ती निर्णयः कृष्णद्वादशनामस्तोत्रम् गर्भस्तुतिः गोपालस्तुतिः गोपालस्तोत्र गोपालविंशतिस्तोत्रम् गोपीगीतम् गोविन्द स्तोत्रम् गोविन्दराजप्रपत्तिः नख स्तुति श्रीमधुसूदनस्तोत्रम् जयदेवककृत अष्टपदि श्रीकॄष्ण स्तोत्रे त्रैलोक्यमंगलकवचम् श्रीबालरक्षा श्रीकृष्णस्तवराजः भगवन्मानसपूजा देवकृतगर्भस्तुतिः वसुदेवकृतश्रीकृष्णस्तोत्रम् श्रीवेंकटेश्वरमंगलस्तोत्रम् बालकृतकृष्णस्तोत्रम् गोपालस्तोत्रम् जगन्नाथाष्टकम् मोहिनीकृतश्रीकृष्णस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोत्रम् श्रीकृष्णस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम् विप्रपत्‍नीकृतकृष्णस्तोत्रम् गोपालविंशतिस्तोत्रम् श्रीगोविंदाष्टकम् गोपालाष्टकम् श्रीकृष्णाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम् ज्वरकृतकृष्णस्तोत्रम् श्री जगन्नाथ स्तोत्र श्रीगोविन्ददामोदरस्तोत्र सन्तानगोपाल स्तोत्र द्वादश स्तोत्राणि गोविन्दराजप्रपत्तिः