Get it on Google Play
Download on the App Store

श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषि । अनुष्टुप् छन्दः । श्रीकृष्णो देवता । श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोतरशतनामजपे विनियोगः ॥ शेष उवाच । श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वासुदेवात्मजः पुण्यो लीलामानुषविग्रहः
॥ १ ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रसिगदाशंखाद्युदायुधः ॥ २ ॥
देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥
पूतनाजीवितहरः शकटासुरभंजनः । नंदव्रजजनानंदी सच्चिदानंदविग्रहः ॥ ४ ॥
नवनीतनवाहारी मुचुकंदप्रसादकः । षोडशस्त्रीसहस्त्रेशस्त्रिभंगी मधुराकृतिः ॥ ५ ॥
शुकवागमृताब्धींदुर्गोविंदो गोविंदां पतिः । वत्सपालनसंचारी धेनुकासुरभंजनः ॥ ६ ॥
तृणीकृततृणावर्तो यमलार्जुनभंजनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७ ॥
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परं ज्योतिर्यादवेंद्रो यदूद्वहः ॥ ८ ॥
वनमाली पीतवासाः पारिजातापहारकः । गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९ ॥
अजो निरंजनः कामजनकः कञ्जलोचनः । मधुहामथुरानाथो द्वारकानायको बली ॥ १० ॥
वृन्दावनांतःसंचारी तुलसीदामभूषणः । स्यमंतकमणेर्हर्ता नरनारायणात्मकः ॥ ११ ॥
कुब्जाकृष्णांबरधरो मायी परमपूरषः । मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ १२ ॥
संसारवैरी कंसारिर्मुररिर्नरकांतकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३ ॥
शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४ ॥
सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५ ॥
जगद्‌गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बाणासुरबलांतकृत् ॥ १६ ॥
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७ ॥
कालीयफणिमाणिक्यरंजितश्रीपदांबुजः । दामोदर यज्ञभोक्ता दानवेन्द्राविनाशनः ॥ १८ ॥
नारायणः परब्रह्म पन्नगाशनवाहनः । जलक्रिडासमासक्तगोपीवस्त्रापहारकः ॥ १९ ॥
पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपः परात्परः ॥ २० ॥
इत्येवं कृष्णदेवस्य नाम्नमष्टोत्तरं शतम् । कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१ ॥
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परमानंददायकम् ॥ २२ ॥
अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् । दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३ ॥
पठतां श्रृण्वतां चैव कोटिकोटिगुणं भवेत् पुत्रप्रदमपुत्राणामगतीनं गतिप्रदम् ॥ २४ ॥
धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदंपुष्टिवर्धनम् ॥ २५ ॥
वातग्रहज्वरदीनां शमनं शांतिमुक्तिदम् । समस्तकामदं सद्यः कोतिजन्माघनाशनम् ॥ २६ ॥
अन्ते कृष्णस्मरणदं भवताभयापहम् । कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने ।
नाथाय रुक्मिणीशाय नमो वेदांतवेदिने ॥ २७ ॥
इम मन्त्रं महादेव जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८ ॥
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निविश्य भोगानंतेऽपि कृष्णसायुज्यमाप्नुयात् ॥ २९ ॥
इति श्रीनारदपचरात्रे ज्ञानामृतसारे उमामहेश्वरसंवादान्तर्गतधरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ।

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम् गोपालहृदयस्तोत्रम् गोविन्द दामोदर स्तोत्र गोविन्दस्तोत्रम् शालिग्रामस्तोत्र नारायणाय अष्टाक्षरमाहात्म्यं उक्ति प्रत्युक्ति स्तोत्रम् श्री कृष्ण सुप्रभातम् कर्पूर आरती मन्त्रः श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः ज्वर रचित कृष्णस्तोत्र धर्मकृतं श्रीकृष्णस्तोत्र नारायणकृतं श्रीकृष्णस्तोत्र ब्रह्मकृतं श्रीकृष्णस्तोत्र शम्भुकृतं श्रीकृष्णस्तोत्र सरस्वतीकृतं श्रीकृष्णस्तोत्र मोहिनी रचित स्तोत्र श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः श्री कृष्णजयन्ती निर्णयः कृष्णद्वादशनामस्तोत्रम् गर्भस्तुतिः गोपालस्तुतिः गोपालस्तोत्र गोपालविंशतिस्तोत्रम् गोपीगीतम् गोविन्द स्तोत्रम् गोविन्दराजप्रपत्तिः नख स्तुति श्रीमधुसूदनस्तोत्रम् जयदेवककृत अष्टपदि श्रीकॄष्ण स्तोत्रे त्रैलोक्यमंगलकवचम् श्रीबालरक्षा श्रीकृष्णस्तवराजः भगवन्मानसपूजा देवकृतगर्भस्तुतिः वसुदेवकृतश्रीकृष्णस्तोत्रम् श्रीवेंकटेश्वरमंगलस्तोत्रम् बालकृतकृष्णस्तोत्रम् गोपालस्तोत्रम् जगन्नाथाष्टकम् मोहिनीकृतश्रीकृष्णस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोत्रम् श्रीकृष्णस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम् विप्रपत्‍नीकृतकृष्णस्तोत्रम् गोपालविंशतिस्तोत्रम् श्रीगोविंदाष्टकम् गोपालाष्टकम् श्रीकृष्णाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम् ज्वरकृतकृष्णस्तोत्रम् श्री जगन्नाथ स्तोत्र श्रीगोविन्ददामोदरस्तोत्र सन्तानगोपाल स्तोत्र द्वादश स्तोत्राणि गोविन्दराजप्रपत्तिः