श्रीमधुसूदनस्तोत्रम्
ओमिति ज्ञानमात्रेण रोगाजीर्णेन निर्जिता ।
कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥१॥
न गतिर्विद्यते चान्या त्वमेव शरणं मम ।
पापपङ्के निमग्नोस्मि त्राहि मां मधुसूदन ॥२॥
मोहितो मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥३॥
भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो ।
अनाश्रयमनाथं च त्राहि मां मधुसूदन ॥४॥
गतागतेनश्रान्तोस्मि दीर्घसंसारवत्मर्स्तु ।
येन भूयो न गच्छामि त्राहि मां मधुसूदन ॥५॥
वहवो हि मया दृष्टाः क्लेशाश्चैव पृथक् पृथक् ।
गर्भवासे महद्दुःखं त्राहि मां मधुसूदन ॥६॥
तेन देव प्रपन्नोस्मि त्राणार्थं त्वत्परायणः ।
दुःखार्णवपरित्राणात् त्राहि मां मधुसूदन ॥७॥
वाचा यच्च प्रतिज्ञातं कर्मणा तोपपादितम् ।
तत्पापार्जितमग्नोस्मि त्राहि मां मधुसूदन ॥८॥
सुकृतं न कृतं किञ्चिद्दुष्कृतं च कृतं मया ।
संसारघोरे मग्नोस्मि त्राहि मां मधुसूदन ॥९॥
देहान्तरसहस्त्रेषु चान्योन्यभ्रामितो मया ।
तिर्यक्त्वं मानुष्त्वं च त्राहि मां मधुसूदन ॥१०॥
वाचयामि यथोन्मत्तः प्रलपामि तवाग्रतः ।
जरामरणभीतोस्मि त्राहि मां मधुसूदन ॥११॥
यत्र यत्र च यातोस्मि स्त्रीषु वा पुरुषेषु च ।
तत्र तत्राचला भक्तिस्त्राहि मां मधुसूदन ॥१२॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निबर्त्तन्ते द्वादशाक्षरचिन्तकाः ॥१३॥
ऊर्ध्वपातालमर्त्येषु व्याप्तं लोकं जगत्त्रयम् ।
द्वादशाक्षरात्परं नास्ति वासुदेवेन भाषितम् ॥१४॥
द्वादशाक्षरं महामन्त्रं सर्वकामफलप्रदम् ।
गर्भवासनिवासेन शुकेन परिभाषितम् ॥१५॥
द्वादशाक्षरं निराहारो यः यः पठेद्हरिवासरे ।
स गच्छेद्वैष्णवस्थानं यत्र योगेश्वरो हरिः ॥१६॥
इति श्रीशुकदेवविरचितं मधुसूदनस्तोत्रं सम्पूर्णम् ॥