गोपालस्तोत्रम्
श्रीनारद उवाच ।
नवीननीरदश्यामं नीलेन्दीवरलोचनम् । बल्लवीनंदनं वंदे कृष्णं गोपालरूपिणम् ॥ १ ॥
स्फुरद्बर्हदलोद्बद्धनीलकुंचितमूर्धजम् । कदंबकुसुमोद्बद्धवनमालाविभूषितम् ॥ २ ॥
गंधमंडलसंसर्गिचलत्कुंचितकुंतलम् । स्थूलमुक्ताफलोदारहरद्योतितवक्षसम् ॥ ३ ॥
हेमांगदतुलाकोटिकिरीटोज्ज्वलविग्रहम् । मन्दमारुतसंक्षोभचलितांबरसंचयम् ॥ ४ ॥
रुचिरौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः । लसद्गोपालिकाचेतो मोहयंतं पुनः पुनः ॥ ५ ॥
बल्लवीवदनांभोजमधुपानमधुव्रतम् । क्षोभयंतं मनस्तासां सस्मेरापांगवीक्षणै; ॥ ६ ॥
यौवनोद्भिन्नदेहाभिः संसक्ताभिः परस्परम् । विचित्रांबरभूषाभिर्गोपनारीभिरावृतम् ॥ ७ ॥
प्रभिन्नांजनकालिंदीजलकेलिकलोत्सुकम् । योधयंतं क्वचिद् गोपान् व्याहरंतं गवां गणम् ॥ ८ ॥
कालिंदीजलसंसर्गिशीतलानिलसेविते। कदंबपादपच्छाये स्थितं वृन्दावने क्वचित् ॥ ९ ॥
रत्नभूधरसंलग्नरत्नासनपरिग्रहम् । कल्पपादपमध्यस्थहेममंडपिकागतम् ॥ १० ॥
वसंतकुसुमामोदरसुरभीकृतदिङमुखे । गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥ ११ ॥
सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम् । खंडिताखंडलोन्मुक्तमुक्तासारघनाघनम् ॥ १२ ॥
वेणुवाद्यमहोल्लसकृतहुंकारनिःस्वनैः । सरसैरुन्मुखैःशश्वद्गोकुलैरभिवीक्षितम् ॥ १३ ॥
कृष्णमेवानुगायद्भिस्तच्चेष्टादशवर्तिभिः । दंडपाशोद्यतकरैर्गोपालौरुपशोभितम् ॥ १४ ॥
नारद्यैर्मुनिश्रेष्ठैर्वेदवेदांगपारगैः । प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥ १५ ॥
य एनं चिंतयेदेवं भक्त्या संस्तौति मानवः । त्रिसंध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ॥ १६ ॥
राजवल्लभतामेति भवेत्सर्वजनप्रियः । अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥ १७ ॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे गोपालस्तोत्रं संपूर्णम् ।