Android app on Google Play iPhone app Download from Windows Store

 

विष्णोर्स्तोत्र शिवप्रोक्तं

मार्कण्डेय उवाच
वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव ।
साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥१॥
दितेः पुत्रो महानासीद्धिरण्यकशिपुः पुरा ।
तपस्तेपे निराहारो बहुवर्षसहस्त्रकम् ॥२॥
तपतस्तस्य संतुष्टो ब्रह्मा तं प्राह दानवम् ।
वरं वरय दैत्येन्द्र यस्ते मनसि वर्तते ॥३॥
इत्युक्तो ब्रह्मणा दैत्यो हिरण्यकशिपुः पुरा ।
उवाच नत्वा देवेशं ब्रह्माणं विनयान्वितः ॥४॥
हिरण्यकशिपुरुवाच
यदि त्वं वरदानाय प्रवृत्तो भगवन्मम ।
यद्यदवृणोम्यहं ब्रह्मंस्तत्तन्मे दातुमर्हसि ॥५॥
न शुष्केण न चाद्रेंण न जलेन न वह्निना ।
न काष्ठेन न कीटेन पाषाणेन न वायुना ॥६॥
नायुधेन न शूलेन न शैलेन न मानुषैः ।
न सुरैरसुरैर्वापि न गन्धर्वैर्न राक्षसैः ॥७॥
न किंनरैर्न यक्षैस्तु विद्याधरभुजंगमैः ।
न वानरैर्मृगैर्वापि नैव मातृगणैरपि ॥८॥
नाभ्यन्तरे न बाह्ये तु नान्यैर्मरणहेतुभिः ।
न दिने न च नक्तं मे त्वत्प्रसादाद् भवेन्मृतिः ॥९॥
इति वै देवदेवेशं वरं त्वत्तो वृणोम्यहम् ।
मार्कण्डेय उवाच
इत्युक्तो दैत्यराजेन ब्रह्मा तं प्राह पार्थिव ॥१०॥
तपसा तव तुष्टोऽहं महता तु वरानिमान् ।
दुर्लभानापि दैत्येन्द्र ददामि परमाद्भुतान् ॥११॥
अन्येषां नेदृशं दत्तं न तैरित्थं तपः कृतम् ।
त्वत्प्रार्थितं मया दत्तं सर्वं ते चास्तु दैत्यप ॥१२॥
गच्छ भुङ्क्ष्व महाबाहो तपसामूर्जितं फलम् ।
इत्येवं दैत्यराजस्य हिरण्यकशिपोः पुरा ॥१३॥
दत्त्वा वरान् ययौ ब्रह्मा ब्रह्मलोकमनुत्तमम् ।
सोऽपि लब्धवरो दैत्यो बलवान् बलदर्पितः ॥१४॥
देवान् सिंहान् रणे जित्वा दिवः प्राच्यावयद् भुवि ।
दिवि राज्यं स्वयं चक्रे सर्वशक्तिसमन्वितम् ॥१५॥
देवा अपि भयात्तस्य रुद्राश्चैवर्षयो नृप ।
विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥१६॥
प्राप्तत्रैलोक्यराज्योऽसौ हिरण्यकशिपुः प्रजाः ।
आहूय सर्वा राजेन्द्र वाक्यं चेदमभाषत ॥१७॥
न यष्टव्यं न होतव्यं न दातव्यं सुरान् प्रति ।
युष्माभिरहमेवाद्य त्रैलोक्याधिपतिः प्रजाः ॥१८॥
ममैव पूजां कुरुत यज्ञदानादिकर्मणा ।
ताश्च सर्वास्तथा चक्रुर्दैत्येन्द्रस्य भयान्नृप ॥१९॥
यत्रैवं क्रियमाणेषु त्रैलोक्यं सचराचरम् ।
अधर्मयुक्तं सकलं बभूव नृपसत्तम ॥२०॥
स्वधर्मलोपात् सर्वेषां पापे मतिरजायत ।
गते काले तु महति देवाः सेन्द्रा बृहस्पतिम् ॥२१॥
नीतिज्ञं सर्वशास्त्रज्ञं पप्रच्छुर्विनयान्विताः ।
हिरण्यकशिपोरस्य विनाशं मुनिसत्तम ॥२२॥
त्रैलोक्यहारिणः शीघ्रं वधोपायं वदस्व नः ।
बृहस्पतिरुवाच
श्रृणुध्वं मम वाक्यानि स्वपदाप्राप्तये सुराः ॥२३॥
प्रायो हिरण्यकशिपुः क्षीणभागो महासुरः ।
शोको नाशयति प्रज्ञां शोको नाशयति श्रुतम् ॥२४॥
शोको मतिं नाशयति नास्ति शोकसमो रिपुः ।
सोढुं शक्योऽग्निसम्बन्धः शस्त्रस्पर्शश्च दारुणः ॥२५॥
न तु शोकभवं दुःखं संसोढुं नृप शक्यते ।
कालान्निमित्ताच्च वयं लक्ष्यामस्तत्क्षयं सुराः ॥२६॥
बुधाश्च सर्वे सर्वत्र स्थिता वक्ष्यन्ति नित्यशः ।
अचिरादेव दुष्टोऽसौ नश्यत्येव परस्परम् ॥२७॥
देवानां तु परामृद्धिं स्वपदप्राप्तिलक्षणाम् ।
हिरण्यकशिपोर्नाशं शकुनानि वदन्ति मे ॥२८॥
यत एवमतो देवाः सर्वे गच्छत माचिरम् ।
क्षीरोदस्योत्तरं तीरं प्रसुप्तो यत्र केशवः ॥२९॥
युष्माभिः संस्तुतो देवः प्रसन्नो भवति क्षणात् ।
स हि प्रसन्नो दैत्यस्य वधोपायं वदिष्यति ॥३०॥
इत्युक्तास्तेन देवास्ते साधु साध्वित्यथाब्रुवन् ।
प्रीत्या च परया युक्ता गन्तुं चक्रुरथोद्यमम् ॥३१॥
पुण्ये तिथौ शुभे लग्ने पुण्यं स्वस्ति च मङ्गलम् ।
कारयित्वा मुनिवरैः प्रस्थितास्ते दिवौकसः ॥३२॥
नाशाय दुष्टदैत्यस्य स्वभूत्यै च नृपोतम् ।
ते शर्वमग्नतः कृत्वा क्षीराब्धेरुत्तरं तटम् ॥३३॥
तत्र गत्वा सुराः सर्वे विष्णुं जिष्णुं जनार्दनम् ।
अस्तुवन् विविधैः स्तोत्रैः पूजयन्तः प्रतस्थिरे ॥३४॥
भवोऽपि भगवान् भक्त्या भगवन्तं जनार्दनम् ।
अस्तुवन्नामभिः पुण्यैरेकाग्रमनसा हरिम् ॥३५॥

श्रीमहादेव उवाच
विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः ।
प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ॥३६॥
केशवः केशिहा कल्पः सर्वकारणकारणम् ।
कर्मकृद वामनाधीशो वासुदेवः पुरुष्टुतः ॥३७॥
आदिकर्ता वराहश्च माधवो मधुसूदनः ।
नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥३८॥
ज्योतिष्मान् द्युतिमान् श्रीमानायुष्मान् पुरुषोत्तमः ।
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥३९॥
नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः ।
आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥४०॥
गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ।
पद्मनाभो हषीकेशो विभुर्दामोदरो हरिः ॥४१॥
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ।
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥४२॥
भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः ।
कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥४३॥
संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः ।
बदरीनिलयः शान्तततपस्वी वैद्युतप्रभः ॥४४॥var शान्ततत्त्वज्ञो
भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ।
तपोवासो दमो वासः सत्यवासः सनातनः ॥४५॥
पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः ।
पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ॥४६॥
शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली ।
किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥४७॥
जिष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः ।
शान्तः शान्तिकरः शास्ता शङ्करः शंतनुस्तुतः ॥४८॥
सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ।
सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ॥४९॥
स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः ।
मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥५०॥
स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वमग्नयः ॥५१॥
त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम ।
नमो देवादिदेवाय विष्णवे शाश्वताय च ॥५२॥

अनन्तायाप्रमेयाय नमस्ते गरुडध्वज ।
मार्कण्डेय उवाच
इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ॥५३॥
उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः ।
श्रीभगवानुवाच
युष्माभिः संस्तुतो देवा नामभिः केवलैः शुभैः ॥५४॥
अत एव प्रसन्नोऽस्मि किमर्थं करवाणि वः ।
देवा ऊचुः
देवदेव हृषीकेश पुण्डरीकाक्ष माधव ॥५५॥
त्वमेव जानासि हरे किं तस्मात् परिपृच्छसि ।
श्रीभगवानुवाच
युष्मदागमनं सर्वं जानाम्यसुरसूदनाः ॥५६॥
हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण तु ।
पुण्यनामशतेनैव संस्तुतोऽहं भवेन च ॥५७॥
एतेन यस्तु मां नित्यं त्वयोक्तेन महामते ।
तेनाहं पूजितो नित्यं भवामीह त्वया यथा ॥५८॥
प्रीतोऽहं गच्छ देव त्वं कैलासशिखरं शुभम् ।
त्वया स्तुतो हनिष्यामि हिरण्यकशिपुं भव ॥५९॥
गच्छध्वमधुना देवाः कालं कंचित् प्रतीक्षताम् ।
यदास्य तनयो धीमान् प्रह्लादो नाम वैष्णवः ॥६०॥
तस्य द्रोहं यदा दैत्यः करिष्यति सुरांस्तदा ।
हनिष्यामि वरैर्गुप्तमजेयं देवदानवैः ।
इत्युक्त्वा विष्णुना देवा नत्वा विष्णुं ययुर्नृप ॥६१॥

इति श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥४०॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम्
गुरुवातपुरीश पञ्चरत्नं
सत्यव्रतोक्तदामोदरस्तोत्रम्
द्वादश स्तोत्राणि
नारायणस्तुतिः
नारायणस्तोत्रम्
श्री नारायण हृदयम्
श्रीमन्त्रराजपद स्तोत्रम्
भज गोविन्दं
माङ्गल्यस्तवः
लक्ष्मीनृसिंहपञ्चरत्नम्
सुप्रभात स्तोत्रम्
मङ्गळाशासनम्
लक्ष्मीनृसिंह स्तोत्रम्
लक्ष्मीनृसिंह प्रपत्तिः
श्री नखस्तुतिः
विष्णुपदी
विष्णु पञ्चायुध स्तोत्रम्
विष्णुपञ्जरस्तोत्रम्
विष्णुपादादिकेशान्तस्तोत्रम्
प्रातःस्मरणम्
श्रीविष्णुभुजङ्गप्रयातस्तोत्रम्
श्रीविष्णोः शतनामस्तोत्रम्
अष्टषष्टिनामतीर्थस्तोत्र
विष्णुस्तवनं
विष्णुस्तवराजः
विष्णुस्तवराजः
विष्णुषट्पदी
श्रीविष्णोः षोडशनामस्तोत्रम्
विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे
विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे
विष्णुस्तवनं मार्कण्डेयप्रोक्तं
तीर्थस्नानफलप्रदम्
श्रीविष्णुस्तोत्रं
श्रीविष्णोरष्टाविंशतिनामस्तोत्रम्
श्रीविष्णोर्नामस्तोत्रं
विष्णोर्स्तोत्र शिवप्रोक्तं
शालिग्रामस्तोत्रम्
सङ्कष्टनाशनविष्णुस्तोत्रम्
समस्तपापनाशन
सुमङ्गल स्तोत्र
श्रीरङ्गस्तोत्रम्
श्रीहरिनाममाला स्तोत्रम्
हरि स्तोत्रम्
नारायणस्तोत्रम्‌
विष्णुस्तोत्राणि
नारायणवर्म
विष्णुपञ्जरस्तोत्रम्
श्रीमदच्युताष्टकम्‌
अच्युताष्ट्कम्‌
विष्णूस्तवराजः
विष्णोरष्टाविंशतिनाम स्तोत्रम्‌
मुकुन्दमाला
श्रीविष्णुशतनामस्तोत्रम्‌
परमेश्वरस्तुतिसारस्तोत्रम्‌
भगवच्छरणस्तोत्रम्
हरिनाममालास्तोत्रम्
शालग्रामस्तोत्रम्
अच्युताष्टकम्
विष्णुपादादिकेशांतवर्णनस्तोत्रम्
श्रीहरिस्तोत्रम्
श्रीहरिनामाष्टकम्
श्रीहरि शरणाष्टकम्
श्रीगोविंदाष्टकम्
रमापत्यष्टकम्
संकष्टनाशनविष्णुस्तोत्रम्
अथ पांडवगीताप्रारम्भ:
हरिस्तुतुप्रारंभ:
आचार्यकृतषट्‌पदी
नारायणस्तोत्रम्
श्रीविष्णो:षोडशनामस्तोत्रम्
श्रीविष्णुमहिम्न: स्तोत्र
श्रीदीनबंध्वष्टकम्
कमलापत्यष्टकम्
नारायण कवच
नारायण सूक्तम्
नारायणम्
श्री नारायण हृदयम्