Android app on Google Play iPhone app Download from Windows Store

 

माङ्गल्यस्तवः

दाल्भ्यः  
कार्यारंभेषु सर्वेषु दुःस्वप्नेषु च सत्तम । अमाङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥१॥
येनारंभाश्च सिद्ध्यन्ति दुःस्वप्नश्चोपशाम्यति । अमङ्गलानां दृष्टानां परिहारश्च जायते ॥२॥
श्री पुलस्त्यः:
जनार्दनं भूतपतिं जगद्गुरुं स्मरन् मनुष्यः सततं महामुने । दुष्टान्यशेषण्यपहन्ति साधयति अशेषकार्याणि च यान्यभीप्सति ॥३॥
शृणुष्व चान्यत् गदतो ममाखिलं वदामि यत् ते द्विजवर्य! मङ्गलम् । सर्वार्थसिद्धिं प्रददाति यत् सदा निहन्त्य्शेषाणि च पातकानि ॥४॥
प्रतिष्टितं यत्र जगच्चराचरं जगत्त्रये यो जगतश्च हेतुः । जगच्च पात्यत्ति च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥५॥
व्योमाम्बुवाय्वग्निमहीस्वरूपैः विस्तारवान् योऽणुतरोऽणुभावात् । अस्थूलसूक्ष्मः सततं परेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥६॥
यस्मात् परस्मात् पुरुषादनन्तात् अनादिमध्यादधिकं न किंचित् । स हेतुहेतुः परमेश्वरेश्वरः ममास्तु माङ्गल्यविवृद्धये हरिः ॥७॥
हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हन्ति । गुणाग्रणीर्यो भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥८॥
परः सुराणां परमोऽसुराणां परो यतीनां परमो मुनीनाम् । परः समस्तस्य च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥९॥
ध्यातो मुनीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः । मनोभिरामः पुरुषः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥१०॥
सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् । स शुद्धशुद्धः परमेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥११॥
यन्नामसङ्कीर्तनतो विमुच्यते ह्यनेकजन्मार्जितपापसञ्चयात् । पापेन्धनाग्निः स सदैव निर्मलो ममास्तु माङ्गल्यविवृद्धये हरिः ॥१२॥
येनोद्धृतेयं धरणी रसातलात् अशेषसृष्टिस्थितिकारणादिकम् । बिभर्ति विश्वं जगतः स मूलं ममास्तु माङ्गल्यविवृद्धये हरिः ॥१३॥
पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः । यस्येश्वरेशस्य स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥१४॥
समस्त यज्ञाङ्गमयं वपुः प्रभोः यस्याङ्गमीशेश्वरसंस्तुतस्य । वराहरूपी भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥१५॥
विक्षोभ्य सर्वोदधितोयसंभवं दधार धात्रीं जगतश्च यो भुवम् । यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥१६॥
पातालमूलेश्वरभोगिसंहतो विन्यस्य पादौ पृतिवीं च बिभ्रतः । यस्योपमानं न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ॥१७॥
सघर्घरं यस्य च बृंहितं मुहुः सनन्दनाद्यैर्जनलोकसंश्रितैः । श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥१८॥
एकार्णवाद् यस्य महीयसौ महीं आदाय वेगेन खमुत्पतिष्यतः । नतं वपुर्योगिवरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥१९॥
हतो हिरण्याक्षमहासुरः पुरा पुराणपुंसा परमेण येन । वराहरूपः स पतिः प्रजापतिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥२०॥
दंष्ट्राकरालं सुरभीतिनाशकं कृतं वपुर्दिव्यनृसिंहरूपिणा । त्रातुं जगत् येन स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥२१॥
दैत्येन्द्रवक्षःस्थलदारदारुणैः करेरुहैर्यः क्रकचानुकारिभिः । विच्छेद लोकस्य भयानि सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ॥२२॥
दन्तान्तदीप्तद्युतिनिर्मलानि यः चकार सर्वाणि दिशां मुखानि । निनादवित्रासितदानवो ह्यसौ ममास्तु माङ्गल्यविवृद्धये हरिः ॥२३॥
यन्नामसंकीर्तनतो महाभयात् विमोक्षमाप्नोति न संशयं नरः । स सर्वलोकार्तिहरो नृकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥२४॥
सटाकरालभ्रमणानिलाहताः स्फुटन्ति यस्यांबुधराः समन्ततः । स दिव्यसिंहः स्फुरितानलेक्षणो ममास्तु माङ्गल्यविवृद्धये हरिः ॥२५॥
यदीक्षणज्योतिषि रश्मिमण्डलं प्रलीनमीषन्न रराज भास्वतः । कुतः शशाङ्कस्य स दिव्यरूपधृक् ममास्तु माङ्गल्यविवृद्धये हरिः ॥२६॥
अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम् । स सर्वलोकार्तिहरो महाहरिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥२७॥
द्रवन्ति दैत्याः प्रणमन्ति देवताः नश्यन्ति रक्षांसि अपयान्ति चारयः । यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥२८॥
ऋक्पावितं यो यजुषा हि श्रीमत् सामध्वनिध्वस्तसमस्तपातकम् । चक्रे जगत् वामनकः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥२९॥
यत्पादविन्यासपवित्रतां मही ययौ वियच्चर्ग्यजुषामुदीरणात् । स वामनो दिव्यशरीररूपदृङ् ममास्तु माङ्गल्यविवृद्धये हरिः ॥३०॥
यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात् ननाम खेदादवनिः ससागरा । स वामनः सर्वजगन्मयः सदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥३१॥
महाद्भुते दैत्यपतेर्महाध्वरे यस्मिन् प्रविष्टे क्षुभितं महासुरैः । स वामनोऽन्तस्थितसप्तलोकधृङ् ममास्तु माङ्गल्यविवृद्धये हरिः ॥३२॥
संघैः सुराणां दिवि भूतलस्थितैः तथा मनुष्यैर्गगने च खेचरैः । स्तुतः क्रमाद् यः प्रच्चार सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥३३॥
क्रान्त्वा धरित्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम् । स देवदेवो भुवनेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥३४॥
अनुग्रहं चापि बलेरनुत्त्मं चकार यश्चेन्द्रपदोपमं क्षणात् । सुरांश्च यज्ञांशभुजः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥३५॥
रसातलाद् येन पुरा समाहृताः समस्तवेदा जलचाररिरूपिणा । स कैटभारिमधुहाऽम्बुशायी ममास्तु माङ्गल्यविवृद्धये हरिः ॥३६॥
निःक्षत्रियं यश्च चकार मेदिनीं अनेकशो बाहुवनं तथाऽच्छिनत् । यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु माङ्गल्यविवृद्धये हरिः ॥३७॥
निहत्य यो वालिनमुग्रविक्रमं निबद्ध्य सेतुं जलधौ दशाननम् । जघान चान्यान् रजनीचरान् असौ ममास्तु माङ्गल्यविवृद्धये हरिः ॥३८॥
चिक्षेप बालः शकटं, बभञ्ज यो यमार्जुनं, कंसमरिं जघान च । ममर्द चाणूरमुखान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥३९॥
प्रातः सहस्रांशुमरीचिनिर्मलं करेण बिभ्रत् भगवान् सुदर्शनम् । कौमोदकी चापि गदामनन्तो ममास्तु माङ्गल्यविवृद्धये हरिः ॥४०॥
हिमेन्दुकुन्दस्फटिकाभनिर्मलं मुखानिलापूरितमीश्वरेश्वरः । मध्याह्नकालेऽपि स शन्खमुद्वहन् ममास्तु माङ्गल्यविवृद्धये हरिः ॥४१॥
तथापराह्णे प्रविकासि पङ्कजं वक्षस्थलेन श्रियमुद्वहन् हरिः । विस्तारिपद्मायतपत्रलोचनो ममास्तु माङ्गल्यविवृद्धये हरिः ॥४२॥
सर्वेषु कालेषु समस्तदेशेषु अशेषकार्येषु तथेश्वरेश्वरः । सर्वैः स्वरूपैर्भगवान् अनादिमान् ममास्तु माङ्गल्यविवृद्धये हरिः ॥४३॥
एतत् पठन् दाल्भ्य समस्तपापैः विमुच्यते विष्णुपरो मनुष्यः । सिद्ध्यन्ति कार्याणि तथाऽस्य सर्वान् अर्थानवाप्नोति यथेच्छते तान् ॥४४॥
दुःस्वप्नः प्रशममुपैति पठ्यमाने स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य । प्रारम्भो द्रुतमुपयाति सिद्धिमीशः पापानि क्षपयति चास्य देवदेवः ॥४५॥
माङ्गल्यं परमपदं सदाऽर्थसिद्धिं निर्विघ्नामधिकफलां श्रियं ददाति । किं लोके तदिह परत्र चापि पुंसां यद्विष्णुप्रवणधियां न दाल्भ्य! साध्यम् ॥४६॥
देवेन्द्रस्त्रिभुवनमर्थमेकपिंगः संसिद्धिं त्रिभुवनगां च कार्तवीर्यः । वैदेहः परमपदं प्रसाद्य विष्णुं संप्राप्ताः सकलफलप्रदो हि विष्णुः ॥४७॥
सर्वारम्भेषु दाल्भ्यैतद् दुःस्वप्नेषु च पण्डितः । जपेदेकमना विष्णौ तथाऽमङ्गल्यदर्शने ॥४८॥
शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः । कर्मारम्भाश्च सिद्ध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥४९॥
हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः । करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥५०॥
॥श्रीविष्णुधर्मोत्तरान्तर्गतः माङ्गल्यस्तवः संपूर्णः॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम्
गुरुवातपुरीश पञ्चरत्नं
सत्यव्रतोक्तदामोदरस्तोत्रम्
द्वादश स्तोत्राणि
नारायणस्तुतिः
नारायणस्तोत्रम्
श्री नारायण हृदयम्
श्रीमन्त्रराजपद स्तोत्रम्
भज गोविन्दं
माङ्गल्यस्तवः
लक्ष्मीनृसिंहपञ्चरत्नम्
सुप्रभात स्तोत्रम्
मङ्गळाशासनम्
लक्ष्मीनृसिंह स्तोत्रम्
लक्ष्मीनृसिंह प्रपत्तिः
श्री नखस्तुतिः
विष्णुपदी
विष्णु पञ्चायुध स्तोत्रम्
विष्णुपञ्जरस्तोत्रम्
विष्णुपादादिकेशान्तस्तोत्रम्
प्रातःस्मरणम्
श्रीविष्णुभुजङ्गप्रयातस्तोत्रम्
श्रीविष्णोः शतनामस्तोत्रम्
अष्टषष्टिनामतीर्थस्तोत्र
विष्णुस्तवनं
विष्णुस्तवराजः
विष्णुस्तवराजः
विष्णुषट्पदी
श्रीविष्णोः षोडशनामस्तोत्रम्
विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे
विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे
विष्णुस्तवनं मार्कण्डेयप्रोक्तं
तीर्थस्नानफलप्रदम्
श्रीविष्णुस्तोत्रं
श्रीविष्णोरष्टाविंशतिनामस्तोत्रम्
श्रीविष्णोर्नामस्तोत्रं
विष्णोर्स्तोत्र शिवप्रोक्तं
शालिग्रामस्तोत्रम्
सङ्कष्टनाशनविष्णुस्तोत्रम्
समस्तपापनाशन
सुमङ्गल स्तोत्र
श्रीरङ्गस्तोत्रम्
श्रीहरिनाममाला स्तोत्रम्
हरि स्तोत्रम्
नारायणस्तोत्रम्‌
विष्णुस्तोत्राणि
नारायणवर्म
विष्णुपञ्जरस्तोत्रम्
श्रीमदच्युताष्टकम्‌
अच्युताष्ट्कम्‌
विष्णूस्तवराजः
विष्णोरष्टाविंशतिनाम स्तोत्रम्‌
मुकुन्दमाला
श्रीविष्णुशतनामस्तोत्रम्‌
परमेश्वरस्तुतिसारस्तोत्रम्‌
भगवच्छरणस्तोत्रम्
हरिनाममालास्तोत्रम्
शालग्रामस्तोत्रम्
अच्युताष्टकम्
विष्णुपादादिकेशांतवर्णनस्तोत्रम्
श्रीहरिस्तोत्रम्
श्रीहरिनामाष्टकम्
श्रीहरि शरणाष्टकम्
श्रीगोविंदाष्टकम्
रमापत्यष्टकम्
संकष्टनाशनविष्णुस्तोत्रम्
अथ पांडवगीताप्रारम्भ:
हरिस्तुतुप्रारंभ:
आचार्यकृतषट्‌पदी
नारायणस्तोत्रम्
श्रीविष्णो:षोडशनामस्तोत्रम्
श्रीविष्णुमहिम्न: स्तोत्र
श्रीदीनबंध्वष्टकम्
कमलापत्यष्टकम्
नारायण कवच
नारायण सूक्तम्
नारायणम्
श्री नारायण हृदयम्