Get it on Google Play
Download on the App Store

विष्णुपदी

ॐ नमो गङ्गायै ।
श्रीब्रह्मोवाच ।
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त नमः प्रभो ।
विष्णो विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ॥११३॥
श्री नारायण उवाच ।
शिवसङ्गीतसंमुग्धश्रीकृष्णाङ्गद्रवोद्भवाम् ।
राधाङ्गद्रवसम्भूतां तां गङ्गां प्रणमाम्यहम् ॥११४॥
या जन्मसृष्टेरादौ च गोलोके रासमण्डले ।
संनिधाने शंकरस्य तां गङ्गां प्रणमाम्यहम् ॥११५॥
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।
कार्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥११६॥
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।
समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥११७॥
षष्टिलक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा ।
समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥११८॥
विंशल्लक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा ।
समावृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम् ॥११९॥
त्रिंशल्लक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ।
आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥१२०॥
षड्योजनसुविस्तीर्णा दैर्घ्ये वशगुणा ततः ।
मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥१२१॥
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।
आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥१२२॥
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः ।
आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥१२३॥
योजनैः षष्टिसाहस्रैर्दैर्घ्ये दशगुणा ततः ।
आवृता सूर्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥१२४॥
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः ।
आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥१२५॥
दशलक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः ।
आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ॥१२६॥
सहस्रयोजना या च दैर्घ्ये सप्तगुणा ततः ।
आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥१२७॥
सहस्रयोजनयामा दैर्घ्ये सप्तगुणा ततः ।
आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥१२८॥
पाताले या भोगवती विस्तीर्णा दशयोजना ।
ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥१२९॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा न कुत्रचित् ।
क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥१३०॥
सत्ये य क्षीरवर्णा च त्रेतायामिन्दुसंनिभा ।
द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ॥१३१॥
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ।
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥१३२॥
यस्याः प्रभाव अतुलः पुराणे च श्रुतौ श्रुतः ।
या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ॥१३३॥
यत्तोयकणिकास्पर्शः पापिनां च पितामह ।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥१३४॥
इत्येवं कथितं ब्रह्मन्गङ्गापद्यैकविंशतिम् ।
स्तोत्ररूपं च परमं पापघ्नं पुण्यबीजकम् ॥१३५॥
नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् ।
अश्वमेधफलं नित्यं लभते नात्र संशयः ॥१३६॥
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ।
रोगान्मुच्येत रोगी च बद्धो मुच्येत बन्धनात् ॥१३७॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।
यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥१३८॥
शुभं भवेत्तु दुस्स्वप्नं गङ्गास्नानफलं भवेत् ॥१३९॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
गङ्गोपाख्याने दशमोऽध्यायान्तर्गतं गङ्गास्तोत्रं सम्पूर्णम् ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्