Get it on Google Play
Download on the App Store

गोविन्दराजप्रपत्तिः

यश्चैकशैलनिकटे कमलापुरीश-
गोविन्दराजपदयोरकरोत् प्रपत्तिम् ।
तं वादिभीकरगुरोश्चरणं प्रपद्ये
पात्रं गुरुं वरवरं परमं गुरूणाम् ॥१॥

श्रीमन् निदान जगतां निखिलाण्डजात-
निर्वाहशक्तिमुखदिव्यगुणैकतान ।
अत्यन्तभोग्यनतदोष निरस्तदोष
गोविन्दराज चरणौ शरणं प्रपद्ये ॥२॥

रेखारथाङ्गसरसीरुहवज्रशङ्क-
च्छत्राङ्कुशप्रभृतिमङ्गलचिह्नगर्भौ ।
संसारतापहरणे निपुणौ नतानां
गोविन्दराज चरणौ शरणं प्रपद्ये ॥३॥

पश्यत्सु सान्द्रभयकौतुकमर्भकेषु
प्रौढेषु सत्सु कृतकृत्यपरायणेषु ।
विध्वंसितोर्ध्वशकटावपि बालभावे
गोविन्दराज चरणौ शरणं प्रपद्ये ॥४॥

आलम्ब्य बाहुयुगलेन कुमारभावे
गाढं कराङ्गुलियुगं किल नन्दपत्न्याः ।
अभ्यस्यमानदशचङ्क्रमणाभिरामौ
गोविन्दराज चरणौ शरणं प्रपद्ये ॥५॥

घोषाङ्गनाकरसरोरुहतालनाद-
संगीतसंपदनुरूपमनोज्ञनृत्तौ ।
माणिक्यनूपुरमरीचिकृताङ्गलेपौ
गोविन्दराज चरणौ शरणं प्रपद्ये ॥६॥

कुट्टाकतामुपगतौ सरसः प्रसह्य
मध्येसरित्सलिलमुद्धतकालियस्य ।
तत्सुन्दरीनयननन्दनसंनिवेशौ
गोविन्दराज चरणौ शरणं प्रपद्ये ॥७॥

वासांसि देहि तव कृष्ण वशंवदाना-
मस्माकमाकुलधियामिति गोपकन्याः ।
उद्दिश्य यौ विदधुरञ्जलिमा प्रसादाद्
गोविन्दराज चरणौ शरणं प्रपद्ये ॥८॥

गोरक्षणे किल बभूव यदीयरेणु-
रक्रूरमस्तकमणेः सरणिं समेतः ।
तावद्भुतावनुपमावतिपावनौ ते
गोविन्दराज चरणौ शरणं प्रपद्ये ॥९॥

मल्लावहे मधुरया मधुराङ्गनानां
फुल्लारविन्ददलतल्लजलोचनानाम् ।
वाण्या प्रशंसितपरार्ध्यगतिप्रकारौ
गोविन्दराज चरणौ शरणं प्रपद्ये ॥१०॥

कंसं निपात्य कनकासनतः पृथिव्या-
मुद्धृत्य सागसमनागसमुग्रसेनम् ।
राज्येऽभिषिच्य विनिवारितभूमिभारौ
गोविन्दराज चरणौ शरणं प्रपद्ये ॥११॥

दुर्योधने दुरभिमानिनि दुर्भगाणा-
मग्रेसरे भजति ते शिरसः प्रदेशम् ।
धन्येन यन्निकटतः स्थितमर्जुनेन
गोविन्दराज चरणौ शरणं प्रपद्ये ॥१२॥

सारथ्यवेषसमलंकृतपाण्डुसूनो-
र्युद्धाङ्गणोज्ज्वलरथाञ्चलसंनिवेशौ ।
सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौ
गोविन्दराज चरणौ शरणं प्रपद्ये ॥१३॥

भक्त्या प्रसन्नहृदयेन धनंजयेन
यत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे ।
साक्षात्कृतानि सहसाद्भुतवैभवौ तौ
गोविन्दराज चरणौ शरणं प्रपद्ये ॥१४॥

अस्मद्गुरुप्रभृतिभिः कमलावसानै-
रादर्शितौ करुणया मम देशिकेन्द्रैः ।
सत्त्वोत्तरैः सकलजीवदयापरैस्तै-
र्गोविन्दराज चरणौ शरणं प्रपद्ये ॥१५॥

अस्मात्पितामहमशेषगुणाभिराम-
माचार्यरत्नमयि वादिभयंकरार्यम् ।
गोवर्धनाद्रिधृतिधारितगोप वीक्ष्य
गोविन्दराज मम दुर्लपितं क्षमस्व ॥१६॥

। इति श्रीगोविन्दराजप्रपत्तिः संपूर्णा ।

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम् गोपालहृदयस्तोत्रम् गोविन्द दामोदर स्तोत्र गोविन्दस्तोत्रम् शालिग्रामस्तोत्र नारायणाय अष्टाक्षरमाहात्म्यं उक्ति प्रत्युक्ति स्तोत्रम् श्री कृष्ण सुप्रभातम् कर्पूर आरती मन्त्रः श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः ज्वर रचित कृष्णस्तोत्र धर्मकृतं श्रीकृष्णस्तोत्र नारायणकृतं श्रीकृष्णस्तोत्र ब्रह्मकृतं श्रीकृष्णस्तोत्र शम्भुकृतं श्रीकृष्णस्तोत्र सरस्वतीकृतं श्रीकृष्णस्तोत्र मोहिनी रचित स्तोत्र श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः श्री कृष्णजयन्ती निर्णयः कृष्णद्वादशनामस्तोत्रम् गर्भस्तुतिः गोपालस्तुतिः गोपालस्तोत्र गोपालविंशतिस्तोत्रम् गोपीगीतम् गोविन्द स्तोत्रम् गोविन्दराजप्रपत्तिः नख स्तुति श्रीमधुसूदनस्तोत्रम् जयदेवककृत अष्टपदि श्रीकॄष्ण स्तोत्रे त्रैलोक्यमंगलकवचम् श्रीबालरक्षा श्रीकृष्णस्तवराजः भगवन्मानसपूजा देवकृतगर्भस्तुतिः वसुदेवकृतश्रीकृष्णस्तोत्रम् श्रीवेंकटेश्वरमंगलस्तोत्रम् बालकृतकृष्णस्तोत्रम् गोपालस्तोत्रम् जगन्नाथाष्टकम् मोहिनीकृतश्रीकृष्णस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोत्रम् श्रीकृष्णस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम् विप्रपत्‍नीकृतकृष्णस्तोत्रम् गोपालविंशतिस्तोत्रम् श्रीगोविंदाष्टकम् गोपालाष्टकम् श्रीकृष्णाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम् ज्वरकृतकृष्णस्तोत्रम् श्री जगन्नाथ स्तोत्र श्रीगोविन्ददामोदरस्तोत्र सन्तानगोपाल स्तोत्र द्वादश स्तोत्राणि गोविन्दराजप्रपत्तिः