Android app on Google Play iPhone app Download from Windows Store

 

कृष्णद्वादशनामस्तोत्रम्

श्रीकृष्ण उवाच ।
किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन ।
तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥१॥
प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा ।
तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ॥२॥
पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् ।
सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥३॥
नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।
कृष्णमेकादशं विन्द्याद् द्वादशं श्रीधरं तथा ॥४॥
एतानि द्वादश नामानि विष्णुप्रोक्ते विधीयते ।
सायं-प्रातः पठेन्नित्यं तस्य पुण्यफलं शृणु ॥५॥
चान्द्रायण-सहस्राणि कन्यादानशतानि च ।
अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ॥६॥
अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः ।
प्रातःकाले पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥७॥
॥इति श्रीमन्महाभारतेऽरण्यपर्वणि कृष्णद्वादशनामस्तोत्रं सम्पूर्णम् ॥

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम्
गोपालहृदयस्तोत्रम्
गोविन्द दामोदर स्तोत्र
गोविन्दस्तोत्रम्
शालिग्रामस्तोत्र
नारायणाय अष्टाक्षरमाहात्म्यं
उक्ति प्रत्युक्ति स्तोत्रम्
श्री कृष्ण सुप्रभातम्
कर्पूर आरती मन्त्रः
श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः
ज्वर रचित कृष्णस्तोत्र
धर्मकृतं श्रीकृष्णस्तोत्र
नारायणकृतं श्रीकृष्णस्तोत्र
ब्रह्मकृतं श्रीकृष्णस्तोत्र
शम्भुकृतं श्रीकृष्णस्तोत्र
सरस्वतीकृतं श्रीकृष्णस्तोत्र
मोहिनी रचित स्तोत्र
श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः
श्री कृष्णजयन्ती निर्णयः
कृष्णद्वादशनामस्तोत्रम्
गर्भस्तुतिः
गोपालस्तुतिः
गोपालस्तोत्र
गोपालविंशतिस्तोत्रम्
गोपीगीतम्
गोविन्द स्तोत्रम्
गोविन्दराजप्रपत्तिः
नख स्तुति
श्रीमधुसूदनस्तोत्रम्
जयदेवककृत अष्टपदि
श्रीकॄष्ण स्तोत्रे
त्रैलोक्यमंगलकवचम्
श्रीबालरक्षा
श्रीकृष्णस्तवराजः
भगवन्मानसपूजा
देवकृतगर्भस्तुतिः
वसुदेवकृतश्रीकृष्णस्तोत्रम्
श्रीवेंकटेश्वरमंगलस्तोत्रम्
बालकृतकृष्णस्तोत्रम्
गोपालस्तोत्रम्
जगन्नाथाष्टकम्
मोहिनीकृतश्रीकृष्णस्तोत्रम्
ब्रह्मदेवकृतकृष्णस्तोत्रम्
श्रीकृष्णस्तोत्रम्
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
इन्द्रकृतकृष्णस्तोत्रम्
विप्रपत्‍नीकृतकृष्णस्तोत्रम्
गोपालविंशतिस्तोत्रम्
श्रीगोविंदाष्टकम्
गोपालाष्टकम्
श्रीकृष्णाष्टकम्
सत्यव्रतोक्तदामोदरस्तोत्रम्
ज्वरकृतकृष्णस्तोत्रम्
श्री जगन्नाथ स्तोत्र
श्रीगोविन्ददामोदरस्तोत्र
सन्तानगोपाल स्तोत्र
द्वादश स्तोत्राणि
गोविन्दराजप्रपत्तिः