Android app on Google Play

 

कार्तवीर्यकृत दत्तात्रेयस्तोत्रम्

 

कार्तवीर्य उवाच -
यस्मिन्निदं जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं पुरदुःख दुःखम् ।
त्वय्येव नित्य सुख बोधतनावनंते
मायात उद्यदपि यत्सदिवावभाति ॥१॥
यस्मिन्विभाति सकलं मनसो विलासं
दृष्टं विनिष्टमतिलोलमलातचक्रम् ।
विज्ञान मेकमुरुधैव विभाति माया -
स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥२॥
एतद्विमृश्य मुनयो मनसस्त्र्यवस्था -
त्वन्माययात्मनिकृता इति निश्चितार्थाः ।
संच्छिद्य हार्दमनुमानसदुक्तितीक्ष्णज्ञानासिना -
खिल गुरं शरणं प्रपन्नाः ॥३॥
तं त्वामहं शरणदं सचिवं बिलेऽस्मिन्
विज्ञानदं स्वजन दुःख हरं त्र्यधीशम् ।
गोविंद मच्युतमजं शिवदं मुमुक्षुः
सर्वात्मना खिल गुरुं प्रणतः परेशम् ॥४॥
तन्नित्यमुक्तपरिशुद्ध विबुद्धमीशं
सर्वस्यदेवमवितारमनन्यसिद्धम् ।
देहेंन्द्रियासुविषयैः परिभुक्तरूपः
सर्वात्मना शरणदं शरणं प्रपन्नः ॥५॥
यस्मिन्निदं प्रोत मशेषमोतं
पटोयथा तंतुवितानसंस्थः ।
तं सच्चिदानंदमहं पुराणं
नारायणं नरवरं शरणं प्रपद्ये ॥६॥
दष्टं जनं संपतितं बिलेऽस्मिन्
कालाहिना क्षुद्रसुखोरुतर्षम् ।
समुद्धरैनं कृपया पवर्गै
र्वचो भिरासिंच महानुभाव ॥७॥
तवेहितं कोर्हति साधु वेदितुं
स्वमाययेदं सृजतो नियच्छतः ।
यन्मायया विश्वसृजः परेशम्
विमोहिता ये किमु कर्मबद्धाः ॥८॥
तापत्रयेणाभिहतस्य घोरे
संतप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच्छरणं तवांघ्रि -
द्वंद्वातपत्रादमृताभिवर्षात् ॥९॥
ज्ञानं विशुद्धं विपुलं यथैत
द्वैराग्य विज्ञान युतं पुराणम् ।
आख्याहि विश्वेश्वरविश्वमूर्ते
त्वद्भक्तियोगं च महद्विमृग्यम् ॥१०॥
तवाव तारोऽय मकुंठ धामन्
धर्मोपदेशायच योग गुप्त्यै ।
मुमुक्षु वर्गस्य विधातुमीश
ज्ञानस्वरूपं विभवाय तेषाम् ॥११॥
जीवस्य यत्संसरतो विमोक्षणं
न ज्ञानतोऽनर्थवहाच्छरीरतः ।
लीलावतारैस्तनुभिः समीहसे
यथां जसा दुस्तरमुत्तरेज्जनः ॥१२॥
तं त्वां वयं जडधियो न विदाम भूमन्
कूटस्थामादि पुरुषं जगतामधीशम् ।
यत्सत्वतः सुरगणा रजसः प्रजेशा
भूतादयश्च तमसः सभवान् गुणेशः ॥१३॥
कामं तनोषि विभवं भजतामधीश
मन्ये तथा न वितनोषि पदं निजं यत् ।
त्वत्पादुके अविरतं प्रणता विभूम्न -
तेषां तदेव भगवन्न च नश्वरं यत् ॥१४॥
किमेनया खलु विभो विविध प्रसूत्या
भूम्या तथा सुतकलत्र गजाश्वभृत्यैः ।
राजेन किं मम सुरेश समस्त कामैः
योहं न वेद्मि निजरूप मिदं त्वदीयम् ॥१५॥
सत्यं विभाति सकलं मनसाथ बुध्या
द्वैतं मृषाभ्रममिति प्रवदन्ति सिद्धाः ।
मायामयं तदिदमाशु कथं विभातं
सम्यकं प्रशाधि शरणं भगवन् प्रपन्नम् ॥१६॥
नाहं बिभेन्यजितशत्रुभिरूर्जितैर्वा
मृत्योर्नचेश शिखिनो न जलान्न वायोः ।
नैवोद्विजेमि विकटाद्यमराज दंडा -
त्संसार चक्रग्रसनाद्धि यथा बिभेमि ॥१७॥
तस्मात्तवांघ्रि कमले मम मौलि रीश
भृंगायते निजसुखे रमितं मनो मे ।
औत्कंठ्यबाष्पकलया मुमुरर्द्यमानं
त्वय्येव देव रमते विभवं विसृज्य ॥१८॥
विस्फार्य विश्वविजयाय दृशौ महेश
तप्तं शुचा त्रिगुणया शमयात्मसूक्तैः ।
देव त्वदंघ्रिकमलाद्विसुखा मनुष्या
स्तेषां विभोऽ‍यमुचितो विषयैः प्रसंगः ॥१९॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेधसम्
विश्वात्मानमजंब्रह्मान्प्रणतोऽस्मि परं पदम् ॥२०॥
योगरंधित कर्माणो हृदियोग विभाविते ।
योगिनो यं प्रपश्यंति योगीशं तं नतोस्म्यहम् ॥२१॥
निर्विण्णो नितरां ब्रह्मन्नसदिंद्रिय तर्पणात् ।
तर्पणादेवम परं निमग्नोवृजिनार्णवे ॥२२॥
अलमेतावता भूमन् विषयासक्त चेतसा ।
यौवनाद्वहु तिथिर्यातो नाद्यापि वितृषं मनः ॥२३॥
सत्संगेन हि दैतेया यातुधानाः खगा मृगाः ।
निस्तीर्णा मनुजा देव दुस्तरं भवसागरम् ॥२४॥
दुर्भगो बत लोकेहं नितरां क्षत्रियाधमः ।
निषेव्य चरणांभोजं न मुमुक्षे च बंधनात् ॥२५॥
मिथ्या विलासितेष्वेषु लंपटः सन्सदा विभो ।
सुसाम्राज्यश्रिया मत्तो नांतकं बुबुधे परम् ॥२६॥
इदानीं त्वत्प्रसादेन ह्यनु तप्तोस्मि केवलम् ।
न कथंचिल्लभे शांतिं विना ते वचनामृतम् ॥२७॥
न पारमेष्ठ्यं न महेंद्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धिरमरार्थिता विभो
सुखाय मे सर्व मिदं त्वदाप्तम् ॥२८॥
तस्मात प्रप्न्नार्तिहराद्य हार्दं
मायामयं वासनया विरूढम् ।
सदुक्ति तीक्ष्णासिना विवृक्तुमीश
विकधत्स्वमूलं विविधायमस्य ॥२९॥
विशुद्धविज्ञानघनं स्वसंस्थया
समाप्त सर्वार्थममोघवांछितम् ।
लीलागृहीतामल रुक्मदेहं
वंदे सदानंद वपुः पुराणम् ॥३०॥
तवावतारोयमकुंठ धामन्
माया विमूढान्विमुखानघेन ।
पादारविंदादरविंदनाभे
विभो समुद्धर्तुमपीश विद्मः ॥३१॥
त्वदीयपादाब्जरसाधिरूढ
मनोलिनो ये भवदीयमुख्याः ।
कुतः पुनस्तेषु भवामयोयं
विभो विधातुं वृजिनं विभुः स्यात् ॥३२॥
पुरात्रिणा देव तपः सुतप्तं
त्वदाप्तिकामेन समान शीलया ।
प्रस्वा तवानंतवरप्रदस्त्वं
दत्तो मयाहं भगवान् स दत्तः ॥३३॥
न तेऽस्ति देहो न तवेश वर्णो
न नामरूपे न च तेस्तिकर्म ।
उद्धर्तुकामेन भवांबुधेर्जनं
लीलावपुस्त्वं प्रकटी कृत्तं ते ॥३४॥
निजपदाब्जदलाविशन्मतिं विकसिताब्जदलैर्नयनाब्जैः ।
विकसिताब्जसुखं हृषितांगं परम करुणिकेश
विधत्स्व माम् ॥३५॥
नान्यदस्तिशरणं ममलोके तव सुसेव्यचरणाद्धि दयालो ।
मग्नमुद्धरभवांबुधेर्विभो तव पदाब्जरतं निजभक्तम् ॥३६॥
नमस्ते पुंडरीकाक्ष नमस्ते पुरुषोत्तम ।
नमस्ते विश्ववंद्यांघ्रे नमस्ते योगिनांवर ॥३७॥
नमस्ते वासुदेवाय नमः संकर्षणाय च ।
प्रद्युम्नायानिरुद्धाय योगिवंद्याय ते नमः ॥३८॥
नमस्ते पद्मनाभाय नमस्ते जलशायिने ।
नमस्तेस्तु हृषीकेश पाहि मां वृजिनार्णवात् ॥३९॥
नमोनंताय सूक्ष्माय सर्वाध्यक्षाय साक्षिणे ।
तमो गिरां विदूराय भक्तावासाय ते नमः ॥४०॥
नमः पंकज नाभाय नमः पंकजमालिने ।
नमः पंकज नेत्राय नमस्ते पंकजांघ्रये ॥४१॥
प्रसीद परमानंद प्रसीद परमेश्वर ।
आधिव्याधिभुजंगेन दष्टंमामुद्धर प्रभो ॥४२॥
॥ इति श्रीब्रह्मांडपुराणे कार्तवीर्यकृत दत्तात्रेयस्तोत्रं संपूर्णम् ॥

 

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम्
दकारादि श्री दत्त सहस्रनाम स्तोत्रम्
दत्त अथर्वशीर्ष
दत्त भावसुधारस स्तोत्रम्
दत्तमाला मन्त्र
दत्तात्रेय अपराधक्षमापनस्तोत्रम्
दत्तात्रेय अष्टचक्रबीजस्तोत्रम्
दत्तात्रेयतन्त्रम्
दत्तात्रेयप्रार्थनास्तोत्रम्
दत्तस्तवस्त्रोत्र
दत्त भावसुधारस स्तोत्रम्
श्रीदत्तात्रेयप्रार्थनास्तोत्रम्
घोर कष्टोद्धारण स्तोत्रम्
दत्तात्रेयस्तोत्र
श्रीदत्तात्रेय जय दत्तात्रेय
दत्तात्रेय योग शास्त्र
कार्तवीर्यकृत दत्तात्रेयस्तोत्रम्
अथ दत्तमाला प्रारभ्यते
अथ दत्तकवचः प्रारभ्यते
अथ श्रीदत्तहृदय प्रारंभः
अथ दत्तपंजरः प्रारभ्यते
अथ दत्तषट्चक्रस्तोत्रम्
अथ कामधेनुकल्पः प्रारभ्यते
अथ दत्तव्याहृति प्रारभ्यते
अथ दत्तस्तवराजः प्रारभ्यते
अथ श्रीदत्ताष्टकम्
अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी )
अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी )
जयलाभादिकरं श्रीदत्तस्तोत्रम्
दत्तनामस्मरणम्
इंदुकोटि स्तोत्रम्
सर्वसौख्यकरं स्तोत्रम्
दत्तलहरि
ओव्या
अथ श्रीदत्तात्रेयस्तोत्राणि
दत्तरक्षास्तोत्रम्