Get it on Google Play
Download on the App Store

श्रीदत्तात्रेयवज्रकवचम्‌

॥श्रीहरि:॥
दत्तात्रयवज्रकवच

॥श्रीदत्तात्रेयवज्रकवचम्‌ ॥
श्रीगणेशाय नम: । श्रीदत्तात्रेयाय नम: ।ऋषय ऊचु: ।
कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे ।
धर्मार्थकाममोक्षणां साधनं किमुदाह्रतम्‌ ॥ १ ॥
व्यास उवाच ।
श्रृण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम्‌ ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम्‌ ॥ २ ॥
गौरीश्रृङ्गे हिमवत: कल्पवृक्षोपशोभितम्‌ ।
दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम्‌ ॥ ३ ॥
रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम्‌ ।
मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती॥ ४ ॥
श्रीदेव्युवाच
देवदेव महादेव लोकशङ्कर शङ्कर ।
मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नश: ॥ ५ ॥
तन्त्रजालान्यनेकानि मया त्वत्त: श्रुतानि वै ।
इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम्‌ ॥ ६ ॥
इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वर: ।
करेणामृज्य संतोषात्पार्वतीं प्रत्यभाषत ॥ ७ ॥
मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्कर: ॥ ८ ॥
ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन्‌ ।
क्वचिद्‌ विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥ ९ ॥
तत्र व्याहन्तुमायान्तं भिल्लं परशुधारिणम्‌ ।
वध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम्‌ ॥ १० ॥
अतीव चित्रचारित्र्यं वज्रकायसमायुतम्‌ ।
अप्रयत्नमनायासमखिन्नं सुखमास्थितम्‌ ॥ ११ ॥
पलायन्तं मृगं पश्चाद्‌ व्याघ्रो भीत्या पलायित: ।
एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम्‌ ॥ १२ ॥
पार्वत्युवाच
किमाश्चर्यं किमाश्चर्यमग्ने शम्भो निरीक्ष्यताम्‌ ।
इत्युक्त: स तत: शम्भूर्दृष्ट्‌वा प्राह पुराणवित्‌ ॥ १३ ॥
श्रीशङ्कर उवाच
गौरि वक्ष्यामि ते चित्रमवाङ्मनसगोचरम्‌ ।
अदृष्टपूर्वमस्माभिर्नास्ति किञ्चिन्न कुत्रचित्‌ ॥ १४ ॥
मया सम्यक्‌ समासेन वक्ष्यते श्रृणु पार्वति ।
अयं दूरश्रवा नाम भिल्ल: परमधार्मिक: ॥ १५ ॥
समित्कुशप्रसूनानि कन्दमूलफलादिकम्‌ ।
प्रत्यहं विपिनं गत्वा समादाय प्रयासत: ॥ १६ ॥
प्रिये पूर्वं मुनीन्द्रेभ्य: प्रयच्छति न वाञ्छति ।
तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिन: ॥ १७ ॥
दलादनो महायोगी वसन्नेव निजाश्रमे ।
कदाचिदस्मरत्‌ सिद्धम दत्तात्रेयं दिगम्बरम्‌ ॥ १८ ॥
दत्तात्रेय: स्मर्तृगामी चेतिहासं परीक्षितुम‌ ।
तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेय: समुत्थित: ॥ १९ ॥
तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनि: ।
सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम्‍ ॥ २० ॥
मयोपहूत: सम्प्राप्तो दत्तात्रेय महामुने ।
स्मर्तृगामी त्वमित्येतत्‌ किंवदन्तीं परीक्षितुम्‌ ॥ २१ ॥
मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ २२ ॥
अभक्त्या वा सुभक्त्या वा य: स्मरेन्मामनन्यधी: ।
तदानीं तमुपागत्य ददामि तदभीप्सितम्‌ ॥ २३ ॥
दत्तात्रेयो मुनि: प्राह दलादनमुनीश्वरम्‌ ।
यदिष्टं तद्‌ वृणीष्व त्वं यत्‌ प्राप्तोऽहं त्वया स्मृत: ॥ २४ ॥
दत्तात्रेयं मुनि: प्राह मया किमपि नोच्यते ।
त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥ २५ ॥
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम्‌ ।
तथेत्यङ्गिकृतवते दलादमुनये मुनि: ॥ २६ ॥
स्ववज्रकवचं प्राह ऋषिच्छन्द:पुर:सरम्‌ ।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषत: ॥ २७ ॥
अथ विनियोगादि :
अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य किरातरूपी महारुद्र ऋषि:, अनुष्टप्‌ छन्द:,
श्रीदत्तात्रेयो देवता, द्रां बीजम्‌, आं शक्ति:, क्रौं कीलकम्‌, ॐ आत्मने नम: ।
ॐ द्रीं मनसे नम: । ॐ आं द्रीं श्रीं सौ: ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्ल: ।
श्रीदत्तात्रेयप्रसादसिद्‌ध्यर्थे जपे विनियोग: ॥ ॐ द्रां अङ्गुष्ठाभ्यां नम: ।
ॐ द्रीं तर्जनीभ्यां नम: । ॐ द्रूं मध्यमाभ्यां नम: ।
ॐ द्रैं अनामिकाभ्यांनम: । ॐ द्रौं कनिष्ठिकाभ्यांनम: ।
ॐद्र: करतलकरपृष्ठाभ्यां नम: । ॐ द्रां ह्रदयाय नम: । ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट्‌ । ॐ द्रैं कवचाय हुम्‌ । ॐ द्रौं नेत्रत्रयाय वौषट्‍ ।
ॐ द्र: अस्त्राय फट्‍ । ॐ भूर्भुव:स्वरोम्‍ इरि दिग्बन्ध: ।
अथ ध्यानम्‍
जगदङ्कुरकन्दाय सच्चिदानन्दमूर्तये ।
दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने (नम:) ॥ १ ॥
कदा योगी कदा भोगी कदा नग्न: पिशाचवत्।
दत्तात्रेयो हरि: साक्षाद्‍ भुक्तिमुक्तिप्रदायक: ॥ २ ॥
वाराणसीपुरस्नायी कोल्हापुरजपादर:
माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर: ॥ ३ ॥
इन्द्रनीलसमाकारश्चन्द्रकान्तसमद्युति: ।
वैदुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधर: ॥ ४ ॥
स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिक: ।
भ्रूवक्ष:श्मश्रुनीलाङ्क: शशाङ्कसदृशानन: ॥ ५ ॥
हासनिर्जितनीहार: कण्ठनिर्जितकम्बुक: ।
मांसलांसो दीर्घबाहु: पाणिनिर्जितपल्लव: ॥ ६ ॥
विशालपीनवक्षाश्च ताम्रपाणिर्दरोदर: ।
पृथुलश्रोणिललितो विशालजघनस्थल: ॥ ७ ॥
रम्भास्तम्भोपमानोरूर्जानुपूर्वैकजंघक: ।
गूढगुल्फ: कूर्मपृष्ठो लसत्पादोपरिस्थल: ॥ ८ ॥
रक्तारविन्दसदृशरमणीयपदाधर: ।
चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥ ९ ॥
ज्ञानोपदेशनिरतो विपद्धरनदीक्षित: ।
सिद्धासनसमासीन ऋजुकायो हसन्मुख: ॥ १० ॥
वामह्स्तेन वरदो दक्षिणेनाभयंकर: ।
बालोन्मत्तपिशाचीभि: क्वचिद्युक्त: परीक्षित: ॥ ११ ॥
त्यागी भोगी महायोगी नित्यानन्दो निरञ्जन: ।
सर्वरूपी सर्वदाता सर्वग: सर्वकामद: ॥१२॥
भस्मोद्धूलितसर्वाङ्गो महापातकनाशन: ।
भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशय: ॥ १३ ॥
एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत्।
मामेव पश्यन्सर्वत्र स मया सह संचरेत् ॥ १४ ॥
दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलम डमरुं गदायुधम् ।
पद्‌मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरेणन नित्यम् ॥ १५ ॥
अथ पञ्चोपचारपूजा
ॐ नमो भगवते दत्तात्रेयाय लं पृथिवीगन्धतन्मात्रात्मकं चन्दनं परिकल्पयामि ।
ॐ नमो भगवते दत्तात्रेयायं हं आकाशशब्दतन्मात्रात्मकं पुष्पं परिकल्पयामि ।
ॐ नमो भगवते दत्तात्रेयाय यं वायुस्पर्शतन्मात्रात्मकं धूपं परिकल्पयामि ।
ॐ नमो भगवते दत्तात्रेयाय रं तेजोरूपतन्मात्रात्मकं दीपं परिकल्पयामि ।
ॐ नमोभगवते दत्तात्रेयाय वं अमृतरसत्नमात्रात्मकं नैवेद्यं परिकल्पयामि ।
ॐ द्रां' इति मन्त्रम् अष्टोत्तरशतवारं (१०८) जपेत्।) 
अथ वज्रकवचम्‍
ॐ दत्तात्रेय: शिर: पातु सहस्त्राब्जेषु संस्थित: ।
भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यग: ॥ १ ॥
कूर्चं मनोमय: पातु हं क्षं द्विदलपद्मभू: ।
ज्योतीरूपोऽक्षिणी पातु पातु शब्दात्मक: श्रुती ॥ २ ॥
नासिकां पातु गन्धात्मा मुखं पातु रसात्मक: ।
जिह्वां वेदात्मक: पातु दन्तोष्ठौ पातु धार्मिक: ॥३॥
कपोलावत्रिभू: पातु पात्वशेषं ममात्मवित्।
स्वरात्मा षोडशाराब्जस्थित: स्वात्माऽवताद्‍गलम्॥४॥
स्कन्धौ चन्द्रानुज: पातु भुजौ पातु कृतादिभू: ।
जत्रुणी शत्रुजित्‍ पातु पातु वक्ष:स्थलं हरि: ॥५॥
कादिठान्तद्वादशारपद्‍मगो मरुदात्मक: ।
योगीश्वरेश्वर: पातु ह्रदयं ह्रदयस्थित: ॥ ६ ॥
पार्श्वे हरि: पार्श्ववर्ती पातु पार्श्वस्थित: स्मृत: ।
हठयोगादियोगज्ञ: कुक्षी पातु कृपानिधि: ॥७॥
डकारादिफकारान्तदशारसरसीरुहे ।
नाभिस्थले वर्तमानो नाभिं वह्वयात्मकोऽवतु ॥८॥
वह्नितत्त्वमयो योगी रक्षतान्मणिपूरकम्।
कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥९॥
बकारादिलकारान्तषट्‍पत्राम्बुजबोधक: ।
जलतत्त्वमयो योगी स्वाधिष्ठानं ममावतु ॥ १० ॥
सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु ।
वादिसान्तचतुष्पत्रसरोरुहनिबोधक: ॥ ११ ॥
मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही ।
पृष्ठं च सर्वत: पातु जानुन्यस्तकराम्बुज: ॥१२॥
जङ्घे पत्ववधूतेन्द्र: पात्वङ्घ्री तीर्थपावन; ।
सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशव: ॥१३॥
चर्म चर्माम्बर: पातु रक्तं भक्तिप्रियोऽवतु ।
मांसं मांसकर: पातु मज्जां मज्जात्मकोऽवतु ॥१४॥
अस्थीनि स्थिरधी: पायान्मेधां वेधा: प्रपालयेत्।
शुक्रं सुखकर: पातु चित्तं पातु दृढाकृति: ॥ १५॥
मनोबुद्धिमहंकारम ह्रषीकेशात्मकोऽवतु ।
कर्मेन्द्रियाणि पात्वीश: पातु ज्ञानेन्द्रियाण्यज: ॥१६॥
बन्धून‍ बन्धूत्तम: पायाच्छत्रुभ्य: पातु शत्रुजित्
गृहारामधनक्षेत्रपुत्रादीञ्छ्ङ्करोऽवतु ॥१७॥
भार्यां प्रकृतिवित्पातु पश्वादीन्पातु शार्ङ्गभृत् ।
प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्कर: ॥१८॥
सुखं चन्द्रात्मक: पातु दु:खात्पातु पुरान्तक: ।
पशून्पशुपति: पातु भूतिं भुतेश्वरो मम ॥१९॥
प्राच्यां विषहर: पातु पात्वाग्नेय्यां मखात्मक: ।
याम्यां धर्मात्मक: पतु नैऋत्यां सर्ववैरिह्रत्।२०॥
वराह: पातु वारुण्यां वायव्यां प्राणदोऽवतु ।
कौबेर्यां धनद: पातु पात्वैशान्यां महागुरु: ॥२१॥
ऊर्ध्व पातु महासिद्ध: पात्वधस्ताज्जटाधर: ।
रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वर: ॥२२॥
'
ॐ द्रां' मन्त्रजप:, ह्रदयादिन्यास: च ।एतन्मे वज्रकवचं य: पठेच्छृणुयादपि ।
वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम्॥२३॥
त्यागी भोगी महायोगी सुखदु:खविवर्जित: ।
सर्वत्रसिद्धसंकल्पो जीवन्मुक्तोऽथ वर्तते ॥२४॥
इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बर: ।
दलादनोऽपि तज्जप्त्वा जीवन्मुक्त: स वर्तते ॥ २५ ॥
भिल्लो दूरश्रवा नाम तदानीं श्रुतवानिदम्।
सकृच्छ्र्वणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥२६॥
इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिन: ।
श्रुत्वाशेषं शम्भुमुखात्‍ पुनरप्याह पार्वती ॥२७॥
पार्वत्युवाच
एतत्कवचमाहात्म्यम वद विस्तरतो मम ।
कुत्र केन कदा जाप्यं किं यज्जाप्यं कथं कथम्॥२८॥
उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम्।
श्रीशिव उवाच
श्रृणु पार्वति वक्ष्यामि समाहितमनविलम्॥२९॥
धर्मार्थकाममोक्षणामिदमेव परायणम् ।
हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम्॥३०॥
पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् ।
वेदशास्त्रादिविद्यानां निधानं परमं हि तत्॥३१॥
सङ्गितशास्त्रसाहित्यसत्कवित्वविधायकम्।
बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम्॥३२॥
सर्वसंतोषकरणं सर्वदु:खनिवारणम् ।
शत्रुसंहारकं शीघ्रं यश:कीर्तिविवर्धनम् ॥३३॥
अष्टसंख्या: महारोगा: सन्निपातास्त्रयोदश ।
षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगका: ॥३४॥
अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।
अशीतिर्वातरोगाश्च चत्वारिंशत्तु पैत्तिका: ॥३५॥
विंशति: श्लेष्मरोगाश्च क्षयचातुर्थिकादय: ।
मन्त्रयन्त्रकुयोगाद्या: कल्पतन्त्रादिनिर्मिता: ॥३६॥
ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्‍भवा: ।
संगजा देशकालस्थास्तापत्रयसमुत्थिता: ॥३७ ॥
नवग्रहसमुद्‍भूता महापातकसम्भवा: ।
सर्वे रोगा: प्रणश्यन्ति सहस्त्रावर्तनाद्‍ध्रुवम्॥ ३८ ॥
अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत्।
अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत्॥३९॥
अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।
सहस्त्रादयुतादर्वाक्‍ सर्वकार्याणि साधयेत्॥४०॥
लक्षावृत्त्या कार्यसिद्धिर्भवत्येव न संशय: ॥४१॥
विषवृक्षस्य मूलेषु तिष्ठन्‍ वै दक्षिणामुख: ।
कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम्॥४२॥
औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ।
श्रीवृक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि ॥४३॥
ओजस्कामोऽश्वत्थमूले स्त्रीकामै: सहकारके ।
ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभि: ॥४४॥
धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ।
देवालये सर्वकामैस्तत्काले सर्वदर्शितम्॥४५॥
नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत्।
युद्धे वा शास्त्रवादे वा सहस्त्रेन जयो भवेत्॥४६॥
कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत्।
ज्वरापस्मारकुष्ठादितापज्वरनिवारणम्॥४७॥
यत्र यत्स्यात्स्थिरं यद्यत्प्रसक्तं तन्निवर्तते ।
तेन तत्र हि जप्तव्यं तत: सिद्धिर्भवेद्‍ध्रुवम्॥४८ ॥
इत्युक्तवान्‍ शिवो गौर्ये रहस्यं परमं शुभम्।
य: पठेद्‍ वज्रकवचं दत्तात्रेयसमो भवेत्॥४९॥
एवम शिवेन कथितं हिमवत्सुतायै।
प्रोक्तं दलादमुनयेऽत्रिसुतेन पूर्वम्।
य: कोऽपि वज्रकवचं पठतीह लोके
दत्तोपमश्र्चरति योगिवरश्र्चिरायु: ॥५०॥
इति श्रीरुद्रयामले हिमवत्खण्डे मन्त्रशास्त्रे उमामहेश्वरसंवादे
श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ॥

देवी कवचे

संकलित
Chapters
श्रीदत्तात्रेयवज्रकवचम्‌ देवी कवच - ॐ अस्य श्रीचण्डीकवचस्य ब्... देवी कवच - अथार्गलास्तोत्रम् देवी कवच - कीलकम् देवी कवच - रात्रिसूक्तम् देवी कवच - श्रीसप्तश्लोकी देवी कवच - तन्त्रोक्तं देवीसूक्तम् देवी कवच - सिद्धकुज्जिकास्तोत्रम् देवी कवच - दुर्गाद्वात्रिंशन्नाममाला देवी कवच - देव्यपराधक्षमापनस्तोत्रम् देवी कवच - कर्मसमर्पणम् देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवी कवच - अन्नपूर्णास्तोत्रम् देवी कवच - ऋग्वेदोक्तं देवीसूक्तम् देवी कवच - प्राधानिकं रहस्यम् देवी कवच - वैकृतिकं रहस्यम् देवी कवच - मूर्तिरहस्यम् देवी कवच - क्षमा-प्रार्थना श्रीभार्गवकवचम्‌