Get it on Google Play
Download on the App Store

शंकराचार्य कृतगुर्वष्टकम्


शरीरं सुरूपं तथा वा कलत्रं यशश्‍चारु चित्रं धनं मेरुतुल्यम् ।
मनश्‍चेन्न लग्नं हरेरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥
कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बांधवाः सर्वमेतद्धि जातम् ।
गुरोरंघ्रिपद्मे मनश्‍चेन्न लग्नं ततः किं० ॥ २ ॥
षडंगादिदेवो मुखे शास्‍त्रविद्या कवित्वादि गद्यं सुपद्यं करोति । गुरोरंघ्रिपद्मे० ॥ ३ ॥
विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः । गुरोरंघ्रिपद्मे ॥ ४ ॥
क्षमामंडले भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविंदम् । गुरोरंघ्रिपद्मे० ॥ ५ ॥
यशो मे गतं दिक्षु दानप्रतापाज्जगद्वस्तु सर्वं करे यत्प्रसादात् । गुरोरंघ्रिपद्मे० ॥ ६ ॥
न भोगे न योगे न वा वाजिराजौ न कांतामुखे नैव विषेशु चित्तम् । गुरोरंघ्रिपद्मे० ॥ ७ ॥
अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये । गुरोरंघ्रिपद्मे० ॥ ८ ॥
अनर्घ्याणि रत्‍नानि मुक्‍तानि सम्यक्समालिंगिता कामिनी यामिनीषु । गुरोरंघ्रिपद्मे० ॥९॥
गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वांछितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्‍तवाक्ये मनो यस्य लग्नम् ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं गुरोरष्टकं समाप्तम् ।

गुरु स्तोत्रे

स्तोत्रे
Chapters
श्रीजगद्गुरु अष्टोत्तरशतनामावलिः सद्गुरुनाथ श्री सद्गुरुनाथ भगवत्पादानाम् अष्टोत्तरशतनामावलिः श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः श्रीगुरुवन्दनम् श्रीगुरुपादुकास्तोत्रम् श्रीगुरुपरम्परास्तोत्रम् श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् श्रीसदाशिवेन्द्रस्तवः श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् श्रीशङ्कराचार्यस्तवः गुरु स्तोत्रे शंकराचार्य कृतगुर्वष्टकम् गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् दक्षिणामूर्तिस्तोत्रम् दशावतारस्तोत्रम् आर्तत्राणनारायणाष्टादशकम्च्द पञ्चमहायुधस्तोत्रम् श्री बलरामस्तोत्रम् गुरुस्तोत्र