Get it on Google Play
Download on the App Store

श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्

॥श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्॥
यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥१॥
योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् ।
भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥२॥
यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥३॥
पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥४॥
उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि शृण्वन् ।
खिद्युन्नुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥५॥
पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥६॥

॥इति शृङ्गगिरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिभिः विरचितं श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रं सम्पूर्णम्॥

गुरु स्तोत्रे

स्तोत्रे
Chapters
श्रीजगद्गुरु अष्टोत्तरशतनामावलिः सद्गुरुनाथ श्री सद्गुरुनाथ भगवत्पादानाम् अष्टोत्तरशतनामावलिः श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः श्रीगुरुवन्दनम् श्रीगुरुपादुकास्तोत्रम् श्रीगुरुपरम्परास्तोत्रम् श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् श्रीसदाशिवेन्द्रस्तवः श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् श्रीशङ्कराचार्यस्तवः गुरु स्तोत्रे शंकराचार्य कृतगुर्वष्टकम् गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् दक्षिणामूर्तिस्तोत्रम् दशावतारस्तोत्रम् आर्तत्राणनारायणाष्टादशकम्च्द पञ्चमहायुधस्तोत्रम् श्री बलरामस्तोत्रम् गुरुस्तोत्र