Get it on Google Play
Download on the App Store

श्रीशङ्कराचार्यस्तवः

बुद्धाद्यागम बाह्य दुर्मत घटा प्रोद्दण्डकण्ठीरवः
शुद्धाद्वैत सुधापयोनिधि शरद्राका सुधादीधितिः ।
बद्धानां हितकाम्यया गुरुवरैः संस्थापितो भाति यः
कालट्यां विमलां धियं वितनुतां श्रीशङ्करार्यस्स नः ॥
कल्यादौ श्रुतिबोधिते प्रविहते धर्मे जनैर्नास्तिकैः
सर्वास्तानभिभूय वज्रकठिनैस्तर्कैर्विधायाश्रवान् ।
आम्नायोदित धर्ममत्र निखिले लोके व्यवातिष्ठिपत्
यः श्रीशङ्करदेशिकस्स तनुतां श्रेयांसि भूयांसि नः ॥
॥इति श्रीशङ्कराचार्यस्तवः॥

गुरु स्तोत्रे

स्तोत्रे
Chapters
श्रीजगद्गुरु अष्टोत्तरशतनामावलिः सद्गुरुनाथ श्री सद्गुरुनाथ भगवत्पादानाम् अष्टोत्तरशतनामावलिः श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः श्रीगुरुवन्दनम् श्रीगुरुपादुकास्तोत्रम् श्रीगुरुपरम्परास्तोत्रम् श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् श्रीसदाशिवेन्द्रस्तवः श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् श्रीशङ्कराचार्यस्तवः गुरु स्तोत्रे शंकराचार्य कृतगुर्वष्टकम् गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् दक्षिणामूर्तिस्तोत्रम् दशावतारस्तोत्रम् आर्तत्राणनारायणाष्टादशकम्च्द पञ्चमहायुधस्तोत्रम् श्री बलरामस्तोत्रम् गुरुस्तोत्र