Get it on Google Play
Download on the App Store

इन्द्रकृतरामस्तोत्रम्

श्रीगणेशाय नमः । इन्द्र उवाच ।

भजेऽहं सदा राममिंदीवराभं भवारण्यदावानलाभाभिधानम् । भवानीह्रदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥

सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानंदरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २ ॥

प्रपन्नाखिलानंददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तयोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥

सदा भोगभाजां सुदुरे विभातं सदा योगभाजामदूरे विभातम् । चिदानन्दकंदं सदा राघवेशं विदेहात्मजानंदरूपं प्रपद्ये ॥ ४ ॥

महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः । त्वदानंदलीलाकथापूर्णकर्णाः सदानंदरूपा भवंतीह लोके ॥ ५ ॥

अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः । इदानीं भवत्पादपद्मप्रसादात्रिलोकाधिपत्याभिमानोविनिष्टः ॥ ६ ॥

स्फुरद्रत्‍नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् । शरच्चंद्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥ ७ ॥

सुराधीशनीलाभ्रनीलांगकांति विराधादिरक्षोवधाल्लोकशांतिम् । किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥ ८ ॥

सच्चंद्रकोटिप्रकाशादिपीठे समासीनमंके समाधाय सीताम् । स्फुरद्धेमवर्णां तडित्पुंजभासां भजे रामचन्द्रं निवृत्तार्त्तितन्द्रम् ॥ ९ ॥

इति श्रीमदध्यात्मरामायणे युद्धकाण्डे इन्द्रकृतं रामस्तोत्रं संपूर्णम् ।