रामगीता
श्रीगणेशाय नमः । श्री महादेव उवाच ।
ततो जगन्मंगलमङ्गलात्मना विधाय रामायणकीर्तिमुत्तमाम् ।
चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा ॥ १ ॥
सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः ।
राज्ञः प्रमत्तस्य नृपस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः ॥ २ ॥
कदाचिदेकांत उपस्थितं प्रभुं रामं रमालालितपादपंकजम् ।
सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३ ॥
सौमित्रिरुवाच ।
त्वं शुद्धबोधोऽसि हि सर्व देहिनामात्मास्यधीशोऽसि निराकृतिः स्वयम् ।
प्रतीयसे ज्ञानदृशां महामते पादाब्जभृंगाहितसंगसंगिनाम् ॥ ४ ॥
अहं प्रपन्नोऽस्मि पदांबुजं प्रभो भवापवर्गं तव योगिभावितम् ।
यथाञ्जसाज्ञानमपारवारिंधिं सुखं तरिष्यामि तथाऽनुशाधि माम् ॥ ५ ॥
श्रुत्वाऽथ सौमित्रिवचोऽखिलं तदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः ।
विज्ञानमज्ञानतमःप्रशांतये श्रुतिप्रपन्नक्षितिपालभूषणः ॥ ६ ॥
श्रीराम उवाच ॥
आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः ।
समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्गुरुमात्मलब्धये ॥ ७ ॥
क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौ तौ भवतः सुरागिणः ।
धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रियाचक्रवदीर्यते भवः ॥ ८ ॥
अज्ञानमेवास्य हि मूलकारणं तद्धानमेवात्र विधौ विधीयते ।
विद्यैव तन्नाशविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम् ॥ ९ ॥
नाज्ञानहानिर्न च रागसंक्षयो भवेत्ततः कर्म सदोषमुद्भवेत् ।
ततः पुनः संसृतिरप्यवारिता तस्माद् बुधो ज्ञानविचारवान्भवेत् ॥ १० ॥
ननु क्रिया वेदमुखेन चोदिता यथैव विद्या पुरुषार्थसाधनम् ।
कर्तव्यता प्राणभृतः प्रचोदिता विद्यासहायत्वमुपैति सा पुनः ॥ ११ ॥
कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमुक्षुणा ।
ननु स्वतंत्रा ध्रुवकार्यकारणी विद्या न किंचिन्मनसाऽप्यपेक्षते ॥ १२ ॥
न सत्यकार्योऽपि हि यद्वदध्वरः प्रकांक्षतेऽन्यानपि कारकादिकान् ।
तथैव विद्या विधितः प्रकाशितैर्विशिष्यते कर्मभिरेव मुक्तये ॥ १३ ॥
केचिद्वदंतीति वितर्कवादिनस्तदप्यसद्दृष्टविरोधकारणात् ।
देहाभिमानादभिवर्धते क्रिया विद्यागताहङकृतितः प्रसिध्यति ॥ १४ ॥
विशुद्धविज्ञानविरोचनञ्चिता विद्याऽत्मवृत्तिश्चरमेति भण्यते ।
उदेति कर्माखिलकारकादिभिर्निहंति विद्याऽखिलकारकादिकम् ॥ १५ ॥
तस्मात्त्यजेत्कार्यमशेषतः सुधीर्विद्याविरोधान्न समुच्चयो भवेत् ।
आत्मानुसंधानपरायणः सदा निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६ ॥
यावच्छरीरादिषु माययात्मधीस्तावद्विधेयो विधिवादकर्मणाम् ।
नेतीति वाक्यैरखिलं निषिध्य तज्ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७ ॥
यदा परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम् ।
तदैव माया प्रविलीयतेऽञ्जसा सकारकाकारणमात्मसंसृतेः ॥ १८ ॥
श्रुतिप्रमाणाऽभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी ।
विज्ञानमात्रादमलाद्वितीयतस्तस्मादविद्या न पुनर्भविष्यति ॥ १९ ॥
यदि स्म नष्टा न पुनः प्रसूयते कर्ताऽहमस्येति मतिः कथं भवेत् ।
तस्मात्स्वतंत्रा न किमप्यपेक्षते विद्या विमोक्षाय विभाति केवला ॥ २० ॥
सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशस्ताखिलकर्मणां स्फुटम् ।
एतावदित्याह च वाजिनां श्रुतिर्ज्ञानं विमोक्षाय न कर्म साधनम् ॥ २१ ॥
विद्यासमत्वेन तु दर्शितस्त्वया ऋतुर्न दृष्टान्त उदाह्रतः समः ।
फलैः पृथक्त्वाद्बहुकारकैः ऋतुः संसाध्यते ज्ञानमतो विपर्यम् ॥ २२ ॥
सप्रत्यवायो ह्यहमित्यनात्मधीरज्ञप्रसिद्धा न तु तत्त्वदर्शिनः ।
तस्माद्बुधैस्त्याज्यमपि क्रियात्मभिर्विधानतः कर्मविधिप्रकशितम् ॥ २३ ॥
श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः ।
विज्ञाय चैकात्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकंपनः ॥ २४ ॥
आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः ।
तत्त्वंपदार्थौ परमात्मजिवकावसीति चैकात्म्यमथानयोर्भवेत् ॥ २५ ॥
प्रत्यक्परोक्षादिविरोधमात्मनोर्विहाय संगृह्य तयोश्चिदात्मताम् ।
संशोधितां लक्षणया च लक्षितां ज्ञाता स्वमात्मानमथाद्वयो भवेत् ॥ २६ ॥
एकात्मकत्वाज्जहती न संभवेत्तथा जहल्लक्षणता विरोधतः ।
सोऽयंपदार्थाविव भागलक्षणा युज्येत तत्त्वंपदयोरदोषतः ॥ २७ ॥
रसादिपंचीकृतभूतसंभवं भोगालयं दुःखसुखादिकर्मणाम् ।
शरीरमाद्यंतवदादिकर्मजं मायामयं स्थूलमुपाधिमत्मनः ॥ २८ ॥
सूक्ष्मं मनोबुद्धिदशेन्द्रिर्यैर्युतं प्राणैरपंचीकृतभूतसंभवम् ।
भोक्तुः सुखादेरनुसाधनं भवेच्छरीरमन्यद्विदुरात्मनो बुधः ॥ २९ ॥
अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम् ।
उपाधिभेदात्तु यतः पृथक्स्थितं स्वात्मानमात्मन्यवधारयेत् क्रमात् ॥ ३० ॥
कोशेषु पंचस्वपि तत्तदाकृतिर्विभाति संगात्स्फटिकोपलो यथा ।
असंगरूपोऽयमजो यतोऽद्वयो विज्ञायतोऽस्मिन्परितो विचारिते ॥ ३१ ॥
बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः ।
अन्योन्यतोऽस्मिन्व्यभिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२ ॥
देहिन्द्रियप्राणमनश्चिदात्मनां संघादजस्त्रं परिवर्तते धियः ।
वृत्तिस्तमोमूलतयाऽज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवा ॥ ३३ ॥
नेति प्रमाणेन निराकृतोखिलो ह्रदा समास्वादितचिद्धनामृतः ।
त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथाऽम्भः प्रजहाति तत्फलम् ॥ ३४ ॥
कदाचिदात्मा न भृतो न जायते न क्षीयते नापि विवर्धते नवः ।
निरस्तसर्वातिशयः सुखात्मकः स्वयंप्रभः सर्वगतोऽमयद्वयः ॥ ३५ ॥
एवंविधे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयते ।
अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात् ॥ ३६ ॥
यदन्यदन्यत्र विभाव्यते भ्रमादध्यासमित्याहुरमुं विपश्चितः ।
असर्पभूतेऽहिविभावनं यथा रज्ज्वादिके तद्वदपीश्वरे जगत् ॥ ३७ ॥
विकल्पमायारहिते चिदात्मकेऽहङकार एष प्रथमः प्रकल्पितः ।
अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे ॥ ३८ ॥
इच्छादिरागादिसुखादिधर्मिकाः सदाः धियः संसृतिहेतवः परे ।
यस्मात्प्रसुप्तौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः ॥ ३९ ॥
अनाद्यविद्योद्भवबुद्धिबिंबितो जीवः प्रकाशोऽयमितीयते चितः ।
आत्मा धियः साक्षितया पृथक् स्थितो बुध्या परिच्छिन्नपरः स एव हि ॥ ४० ॥
चिद्बिंबसाक्ष्यात्मधियां प्रसंगतस्त्वेकत्र वातादनलाक्तलोहवत् ।
अन्योन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥ ४१ ॥
गुरोः सकाशादपि वेदवाक्यतः सञ्जातविद्यानुभवो निरीक्ष्य तम् ।
स्वात्मानमात्मस्थमुपाधिवर्जितं त्यजेदशेषं जडमात्मगोचरम् ॥ ४२ ॥
प्रकाशरूपोऽहमजोऽहमद्वयो सकृद्विभातोऽहमतिव निर्मलः ।
विशुद्धविज्ञानघनो निरामयः संपूर्ण आनंदमयोऽहमक्रियः ॥ ४३ ॥
सदैव मुक्तोऽहमचिंत्यशक्तिमानतीन्द्रियज्ञानमविक्रियात्मकः ।
अनंतपारोऽहमहर्निशं बुधैर्विभावितोऽहं ह्रदि वेदवादिभिः ॥ ४४ ॥
एवं सदात्मानमखंडितात्मना विचार्यमाणस्य विशुद्धभावना ।
हन्यादविद्यामचिरेण कारकै रसायनं यद्वदुपासितं रुजः ॥ ४५ ॥
विविक्त आसीन उपारतेन्द्रियो विनिर्जितात्मा विमलान्तराशयः ।
विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवल आत्मसंस्थितः ॥ ४६ ॥
विश्वं यदेतत्परमात्मदर्शनं विलाप येदात्मनि सर्वकारणे ।
पूर्णश्चिदानंदमयोऽवतिष्ठते न वेद बाह्यं न च किंचिदान्तरम् ॥ ४७ ॥
पूर्वं समाधेरखिलं विचिंतयेदोंकारमात्रं सचराचरं जगत् ।
तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान्न बोधतः ॥ ४८ ॥
अकारसंज्ञः पुरुषो हि विश्वको ह्यु कारकस्तैजस ईर्यते क्रमात् ।
प्राज्ञो मकारः परिपठ्यतेऽखिलैः समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९ ॥
विश्वं त्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थितः । त
तो मकारं प्रविलाप्य तैजसं द्वितीयवर्णे प्रणवस्य चांतिमम् ॥ ५० ॥
मकारमप्यात्मनि चिद्धने परे विलापयेत्प्राज्ञमपीह कारणम् ।
सोऽहं परं ब्रह्म सदा विमुक्तिमद्विज्ञानदृङमुक्त उपाधितोऽमलः ॥ ५१ ॥
एवं सदा जातपरात्मभावनः स्वानंदतुष्टः परिविस्मृताखिलः ।
आस्ते स नित्यात्मसुखप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिंधुवत् ॥ ५२ ॥
एवं सदाऽभ्यस्तसमाधियोगिनो निवृत्तसर्वेंद्रियगोचरस्य हि ।
विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्गुणात्मनः ॥ ५३ ॥
ध्यात्वैवमात्मानमहर्निशं मुनिस्तिष्ठेत्सदा मुक्तसमस्तबंधनः ।
प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः ॥ ५४ ॥
आदौ च मध्ये च तथैव चान्ततो भवं विदित्वा भयशोककारणम् ।
हित्वा समस्तं विधिवादचोदितं भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ ५५ ॥
आत्मन्यभेदेन विभावयनिदं भवत्यभेदेन मदात्मना तदा । य
था जलं वारिनिधौ यथा पयः क्षीरे वियद्व्योम्न्यनिले यथानिलः ॥ ५६ ॥
इत्थं यदीक्षेत हि लोक संस्थितो जगन्मृषैवेति विभावयन्मुनिह ।
निराकृतत्वाच्छ्र तियुक्तिमानतो यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७ ॥
यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत् ।
श्रद्धालुरत्युर्जितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं ह्रदि ॥ ५८ ॥
रहस्यमेतच्छ्र तिसार संग्रहं मया विनिश्चित्य तवोदितं प्रिये ।
यस्त्वेतदालोचयतीह बुद्धिमान्स मुच्यते पातकराशिभिः क्षणात् ॥ ५९ ॥
भ्रातर्यदीदं परिदृश्यते जगन्मयैव सर्वं परिह्रग्य चेतसा ।
मद्भावनाभावितशुद्धमानसः सुखी भवानन्दमयो निरामयः ॥ ६० ॥
यः सेवते मामगुणं गुणात्परं ह्रदा कदा वा यदि वा गुणात्मकम् ।
सोऽहं स्वपादांचितरेणुभिः स्पृशन् पुनामि लोकत्रितयं यथा रविः ॥ ६१ ॥
विज्ञानमेतदखिलं श्रुतिसारमेकं वेदांतवेद्यचरणेन मयैव गीतम् ।
यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ ६२ ॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकांडे रामगीता समाप्ता ।