Get it on Google Play
Download on the App Store

गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम्


यं विज्ञातुं भृगु पितरमुपगतः पंचवारं यथावज्ज्ञानादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्ध्वा ।
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानंदमुक्‍तानंताद्वैतप्रतिते न कुरु कितवतां पाहि मां दीनबंधो ॥ १ ॥
यस्मान्नश्यस्य जन्मस्थितिविलयमिमे तैत्तिरीयाः पठंति स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च । तस्मै० ॥ २ ॥
यो वेदांतैकलभ्यं श्रुतिषु नियमितस्तैत्तिरीयैश्‍च काण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कारभाजाम् । तस्मै० ॥ ३ ॥
यस्मिन्नेवावसन्नाः सकलनिगमवाङमौलयः सुप्तपुंसि प्रोक्‍तं तन्नामतद्वन्निजमहिमगतध्वांततत्कार्यरूपे । तस्मै० ॥ ४ ॥
चित्त्वात्संकल्पपूर्वं सृजति जगदिदं योगिवन्मायया नः स्वात्मन्येवाद्वितीये परमसुखदृशि स्वप्नवद् भूम्नि नित्ये ॥ तस्मै० ॥ ५ ॥
इत्यच्युतविरचितं गुरुवरप्रार्थनापञ्चरत्‍नस्तोत्रं संपूर्णम् ।

गुरु स्तोत्रे

स्तोत्रे
Chapters
श्रीजगद्गुरु अष्टोत्तरशतनामावलिः सद्गुरुनाथ श्री सद्गुरुनाथ भगवत्पादानाम् अष्टोत्तरशतनामावलिः श्रीचन्द्रशेखरभारती अष्टोत्तरशतनामावलिः श्रीगुरुवन्दनम् श्रीगुरुपादुकास्तोत्रम् श्रीगुरुपरम्परास्तोत्रम् श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् श्रीसदाशिवेन्द्रस्तवः श्रीशङ्कराचार्यभुजङ्गप्रयात स्तोत्रम् श्रीशङ्कराचार्यस्तवः गुरु स्तोत्रे शंकराचार्य कृतगुर्वष्टकम् गुरुवरप्रार्थनापंचरत्‍नस्तोत्रम् दक्षिणामूर्तिस्तोत्रम् दशावतारस्तोत्रम् आर्तत्राणनारायणाष्टादशकम्च्द पञ्चमहायुधस्तोत्रम् श्री बलरामस्तोत्रम् गुरुस्तोत्र