Get it on Google Play
Download on the App Store

सुर्यकवचम्

किं छत्रं किंनु तिलकमुत तथा कुंडलं कौस्तुभो वा

चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्वलिद्वेषिदेहे ।

ऊर्ध्व मौलौ ललाटे श्रवसि ह्रदि करे नाभिदेशे च दृष्टं

पायात्तद्वोऽर्कबिम्ब स च दनुजरिपुर्वर्धमान: क्रमेण ॥

श्रीगणेशाय नाम: ॥

श्रीसुर्य उवाच । सांब सांब महाबाहो श्रृणृ मे कवचं शुभम् । त्रैलोक्यमंगलं नाम कवचं परमाद्‍भुतम् ॥१॥

यज्ज्ञात्वा मंत्रवित्सम्यक् फलं प्राप्नोति निश्‍चितम्‍ । यद्‍धृत्वा च महादेवो गणानामधिपोऽभवत् ॥२॥

पठनाध्दारणादिष्णु: सर्वेषां पालक: सदा । एकमिन्द्रादय:सर्व सर्वैश्‍वर्यमवाप्नुयु : ॥३॥

कवचस्य ऋषिर्ब्रह्मा छंदोऽनुष्टुबुदाहृत: । श्रीसुर्यो देवता चात्र सर्व देवनमस्कृत: ॥४॥

यश आरोग्यमोक्षेषु विनियोग: प्रकीर्तित: । प्रणवो मे शिर: पातु घृणिर्मे पातु भालकम् ॥५॥

सुर्योऽव्यान्नयनद्वंद्व मादित्य: कर्णयुग्मकम्‍ । अष्टाक्षरो महामंत्र : सर्वाभीष्टफलप्रद: ॥६॥

ह्रीं बीजें मे मुखं पातु हृदयं भुवनेश्‍वरी । चन्द्रबिंबं विंशदाद्यं पातु मे गुह्यदेशकम् ॥७॥

अंक्षरोऽसौ महामन्त्र: सर्वतन्त्रेषु गोपित: । शिवो वह्रिसमायुक्तो वामाक्षीबिंदुभूषित : ॥८॥

एकाक्षरो महामन्त्र: श्रीसुर्यस्य प्रकीर्तित: । गुह्याद्‍गुह्यतरो मन्त्रो वांछाचिंतामणि: स्मृत: ॥९॥

शीर्षादिपादपर्यंतं सदा पातु मनूत्तम: । इति ते कथितं दिव्य त्रिषु लोकेषु दुर्लभम् ॥१०॥

श्रीप्रदं कांतिदं नित्यं धनारोग्यविवर्धनम् । कुष्ठादिरोगशमनं महाव्याविनाशनम् ॥११॥

त्रिसंध्यं य: पठोन्नित्यमरोगी बलवान् भवेत् । बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥१२॥

तत्तत्सर्व भवेत्तस्य कवचस्य च धारणात् । भूतप्रेतपिशाचाश्‍च यक्षगंधर्वराक्षसा: ॥१३॥

ब्रह्मराक्षसवेताला न द्रष्टुमपि तं क्षमा: । दुरादेव पलायंते तस्य संकीर्तनादपि ॥१४॥

भुर्जपत्रे समालिख्य रोचनागुरुकुंकुमै: । रविवारे च संक्रांत्यां सप्तम्यां च विशेषत: ॥१५॥

धारयेत्साधकश्रेष्ठ: श्रीसूर्यस्य प्रियो भवेत् । त्रिलौहमध्यगं कृत्वा धारयेत्साद्दक्षिणे करे ॥१६॥

शिखायामथवा कंठे सोऽपि सूर्यो न संशय: । इति ते कथितं सांब त्रैलोक्यमंगलाभिधम् ॥१७॥

कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् । अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् ॥१८॥

सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥१९॥

इति श्रीब्रह्मयामले त्रैलोक्यमंगलं नाम सूर्यकवचं संपूर्णम् ।

२. सूर्यकवचस्तोत्रम्

श्रीगणेशाय नम: ॥ याज्ञवल्क्य उवाच । श्रृणुष्व मुनिशार्दूल सुर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥१॥

देदीप्यमानमुकुटं स्फुरन्मकरकुंडलम् । ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् ॥२॥

शिरो मे भास्कर: पातु ललाटं मेऽमितद्युति: । नेत्रे दिनमणि: पातु श्रवणे वासरेश्‍वर: ॥३॥

घ्राणं घर्मघृणि: पातु वदनं वेदवाहन: । जिह्वां मे मानद: पातु कण्ठं मे सुरवंदित: ॥४॥

स्कंधौ प्रभाकर: पातु वक्ष: पातु जनप्रिय: । पातु पादौ व्दादशात्मा सर्वांगं सकलेश्‍वर: ॥५॥

सूर्यसक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति य: करे तस्य वशगा: सर्वसिद्धय: ॥६॥

सुस्नातो यो जपेत् सम्यग्योऽधीते स्वस्थमानस: । स रोगमुक्तो दीर्घायु: सुखं पुष्टिं च विंदति ॥७॥

इति श्रीमद्याज्ञवल्क्यविरचितं सूर्यकवचस्तोत्रं सम्पूर्णम् ।