सुर्यस्तोत्रम्
श्रीगणेशाय नम: ॥
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरुपेण कालस्वरुपेण
चतुर्विधभूतनिकायानां ब्रह्मादिस्तंबपर्यंतानामंतर्हृ दयेषु बहिरपि च
आकाश इव उपाधिनाऽव्यवधीयमानो भगवानेक एव
क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥१॥
यदुह वाव विवुधर्षभसवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिनबीजावभर्जनं
भगवत: समभिधीमहि तपनमंडलम् ॥२॥
य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइंद्रियासुगणाननात्मन: स्वयमात्मान्तर्यामी प्रचोदयति ॥३॥
य एवेमं लोक मतिकरालवदनांधकारसंज्ञाजगरग्रहगिलितं संमृतकमिव विचेतनमवलिक्यानुकंपया परमकारुणिकवीक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने
प्रवर्तयत्यवनिपतिरिव असाधूनां भयमुदीरयन्नटति ॥४॥
परित आशापालैस्तत्र तत्र कमलकोशात्र्जलिभिरुपहृतार्हण: ॥५॥
अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिर्वंदितमहामयातयामयतु:काम उपसरामीति ॥६॥
इति श्रीभागवतीयद्वादशस्कंधोक्तं सूर्यस्तोत्रम् सम्पूर्णम् ॥८॥