सूर्यार्यास्तोत्रम्
श्रीगणेशाय नम: ॥
शुकतुंडच्छवि सवितुश्चंडरुचे: पुंडरीकवनबन्धो: । मंडलमुदितं वदे कुडलमाखंडलाशाया: ॥१॥
यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽयं । कुरुतेऽत्र्जलिं त्रिनेत्र: स जयति धाम्नां निधि: सूर्य: ॥२॥
उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अंबरचूडमणये दिग्वनिताकर्णपुराय ॥३॥
जयति जनानंदकर: करनिकरनिरस्ततिमिरसंघात: । लोकालोकालोक: कमलारुणमण्डल: सुर्य: ॥४॥
प्रतिबोधितकमलवन: कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवन: परहितनिरतो रवि: सदा जयति ॥५॥
अपनयतु सकलकलिकृतमलपटलं सुतप्तकनकाभ: । अरविंदवृन्दविघटनपटुतरकिरणोत्कर: सविता ॥६॥
उदयाद्रिचारुचामर हरितहयखुपरिहतरेणुराग । हरितहय हरितपतिकर गगनांगनदीपद नमस्ते ॥७॥
उदितवति त्वयि विकसित मुकुलीयति समस्तमस्तमित-बिंबे । न ह्यन्यस्मिन्दिनकर शकलं कमलायते भुवनम् ॥८॥
जयति रविरुदयसमये बालातप: कनकसंनिभो यस्य । कुसुमांजलिरिव जलधौ तरंति रथसप्तय: सप्त ॥९॥
आर्या: सांबपुरे सत्प आकाशाप्तपिता भुवि । यस्य कण्ठे गृहे वापि न स लक्ष्म्या विजुज्यते ॥१०॥
आर्या: सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् । तस्य गेहं च देहं च पद्मा सत्यं न मुत्र्चति ॥११॥
निधिरेष दरिद्राणां रोगिणां परमौषधम् । सिद्धि: सकलकार्याणां गाथेयं संस्मृता रवे: ॥१२॥
इति श्रीयाज्ञवल्क्यकृतं सुर्यार्यास्तोत्रं सम्पूर्णम् ।