एकादशमुखहनुमत्कवचम्
लोपामुद्रोवाच ॥
कुम्भोद्भवदया सिन्धो श्रुतं हनुमंत: परम् । यंत्रमंत्रादिकं सर्वं त्वन्मुखोदोरितं मया ॥१॥
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशखात्मन: ॥२॥
इत्येवं वचनं श्रुत्वा प्रियाया: प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभु: ॥३॥
अगस्त उवाच ॥ नमस्कृत्वा रामदूतं हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥४॥
सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं सर्वक्षोनिबर्हणम् ॥५॥
सर्वसंपत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमत: ॥६॥
हनुमत्कवचमंत्रस्य सनन्दन ऋषि: स्मृत: । प्रसन्नात्मा हनुमांश्च देवाताऽत्र प्रकीर्तिता ॥७॥
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्य: प्राण: शक्तिरिति विनियोग: प्रकर्तित: ॥८॥
सर्वकामार्थसिद्धयर्थ जप एवमुदीरयेत् । ॐ स्फ्रें बीजं शक्तिधृक् पातु शिरो मे पवनात्मज: ॥९॥
क्रौं बीजात्मा नयने पातु मां वानरेश्वर: । क्षं बीजरुपी कर्णौं मे सीताशोकविनाशन: ॥१०॥
ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायक: । वं बीजार्थश्च कण्ठं मे पातु चाक्षयकारक: ॥११॥
ऎं बीजवाच्यो हृदयं पातु मे कपिनायक: । व बीजकीर्तित: पातु बाहु मे चात्र्जनीसुत: ॥१२॥
ह्रं बीजं राक्षसेन्द्रस्य दर्पहा चोदारम् । ह्रं सौं बीजमयो मध्यं पातु लंकाविदाहाक: ॥१३॥
ह्रीं बीजधर: पातु गुह्यं देवेन्द्रवन्दित: । रं बीजात्मा सदा पातु चोरू वारिधिलंघन: ॥१४॥
सुग्रीव सचिव: पातु जानुनी मे मनोजव: । पादौ पादतले पातु द्रोणाचलधरो हरि: ॥१५॥
आपादमस्तकं पातु रामदुतो महाबल: । पुर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥१६॥
दक्षिणे नारसिंहस्तु नैऋत्यां गणनायक: । वारुण्यां दिशि मामव्यात्खवत्र्को हरिश्वर: ॥१७॥
वायव्यां भैरवमुख: कौबर्यां पातु मां सदा । क्रोडास्य: पातु मां नित्यमीशान्यां रुद्ररूपधृक् ॥१८॥
ऊर्ध्व हयानन: पातु त्वध: शेषमुखस्तथा । रामास्य: पातु सर्वत्र सौम्यरुपी महाभुज : ॥१९॥
इत्येवं रामदूतस्य कवचं प्रपठेस्तदा । एकादशमुखस्यैवद् गोप्यं वै कीर्तितं मया ॥२०॥
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदंधनदं चोग्रं शत्रुसंघविमर्दनम् ॥२१॥
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मंत्रसिद्धिर्न जायते ॥२२॥
चत्वारिंशत्सहस्त्राणि पठेच्छुद्वात्मना नर: । एकावारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥२३॥
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधी: ॥२४॥
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशय: । यं यं चिन्तयते चार्थं तं तं प्राप्नोति पुरुष: ॥२५॥
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥२६॥ इत्येवमुक्त्वा वचनं महर्षिस्तूष्णींबभूवेन्दुमुखीं निरिक्ष्य ।
संहृष्टचित्ताऽपि तदा तदीयपादौ ननामातिमुदा स्वभुर्तु: ॥२७॥
इत्यगस्त्यसंहितायामेकादशमुखहनुमत्कवचं संपूर्णम् । इति मारुतिस्तोत्राणि ॥