Get it on Google Play
Download on the App Store

हनुमत्पञ्चरत्नम्

वीताखिलविषयेच्छं जातानन्दाश्र। पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

तरुणारुण मुखकमलं करुणारसपूरपूरितापाङ्गम् ।
सन्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥२॥

शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्बज्वलितोष्ठमेकमवलम्बे ॥३॥

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥

एतत्पवनसुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिहनिखिलान् भोगान् भुङ्क्त्वा
श्रीरामभक्तिभाग्भवति ॥६॥

इति श्रीमच्छंकरभगवतः कृतौ हनुमत्पञ्चरत्नं संपूर्णम् ॥

मारुती स्तोत्रे

स्तोत्रे
Chapters
मारुती स्तोत्र आञ्जनेय गायत्रि आञ्जनेय सहस्रनामस्तोत्रम् लाङ्गूलास्त्रस्तोत्रम् लान्गूलोपनिषत् विभीषणकृतम् हनुमत्स्तोत्रम् श्रीविचित्रवीरहनुमन्मालामन्त्रः संकटमोचन हनुमानाष्टक हनुमत्पञ्चरत्नम् हनुमत्स्तवराजः हनुमद्वाडवानलस्तोत्रम् हनुमन्नमस्कारः हनुमत्पञ्चचामरम् हनूमत्स्तुतिः हनुमद्वाडवानलस्तोत्रम् आंजनेय द्वादशनाम स्तोत्रम् श्री हनूमत् पञ्च चामरम् श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् श्रीहनुमन्नमस्कारः विभीषणकृतम् हनुमत्स्तोत्रम् हनुमत्स्तवराजः मारुती स्तोत्रे मारुतिस्तोत्रम् हनुमत्स्तोत्रम् हनुमत्ताण्डवस्तोत्रम् पत्र्चमुखहनुत्कवचम् एकादशमुखहनुमत्कवचम् हनुमत्पञ्चरत्नम् भीमरूपी स्तोत्र श्री हनुमत् पञ्चरत्नम् श्रीहनुमन्नमस्कारः आञ्जनेय गायत्रि