कालभैरव माहात्म्य - अध्याय चवथा
अथ चतुर्थोऽध्यायः
इतिस्त्रिंशत्सहस्रान्तकल्पे विष्णुः प्रतापवान् । नारसिंहं परं रूपं उग्रं संधारयिष्यति ॥२२३॥
योजनानां शतं व्याप्य भानुमंडलसन्निभः । कृत्वा स देवकार्याणि देवैः संपूजितः स्तुतः ॥२२४॥
न मत्तोऽभ्यधिको लोके न मया सदृशोपि वा । नास्तीति सुखर्गेषु पश्यत्सु स वदिष्यति ॥२२५॥
तदा तु शरभं रूपं धृत्वा तं संहाराम्यहं । नरवाग्रे प्रोथयित्वा तं भ्रामयामि न संशयः ॥२२६॥
हरिं हरन्तं ईशानं विश्वस्य सकलस्य च । अनुयास्यंति मां देवा मतीनां ऋषभं प्रभुम् ॥२२७॥
ततो विदार्य तेद्वरं घोरं रूपं वहाम्यहम् । भीतास्तदानीं मां देवाः स्तोष्यंति बहुधा स्तवैः ॥२२८॥
विदारितं नृसिंहं तं विलोक्यायं तु भैरवः । पेषयिष्यति पाषाणैः पुनर्जीवनशंकया ॥२२९॥
तदा प्रभृति देवा मां नरसिंहनिपातनं । पूजयिष्यंति तन्नाम्ना सर्वपापभयापहम् ॥२३०॥
अशैवं भैरवो वीक्ष्य दावानलसमप्रभः । दहिष्यति न संदेहस्तं अशैवं दुरासदं ॥२३१॥
अशैवनाशनार्थाय काश्यां श्रीकालभैरवः । स्थापितोऽस्ति मया देवि सुरगंधर्वपूजितः ॥२३२॥
दृश्यते भैरवः काश्यां अशैवप्रलयानलः । चतुर्दशेषु भुवनेष्वेतत्तुल्यो न शासकः ॥२३३॥
हन्त्ययं ब्रह्मविष्णदीन् क्रोधसंकुलितेक्षणः । महाकालानलप्रख्यो दुराधर्षो मयाऽप्ययम् ॥२३४॥
यातनास्तंभनिकटे यदा शूलधरःस्थित । तदा मयापि सुभगे दुर्निरीक्ष्यो हि भैरवः ॥२३५॥
एकोऽप्यनेकधा भूत्वा विश्वरूपोऽतिभीषणः । संचरत्यस्रहस्तोऽयं यातनास्तं भवीथिषु ॥२३६॥
विग्रहाः कालनाथस्य प्रज्वलद्भूधरा इव । यातनास्तंभपार्श्वेषु दृश्यंते विविधाः शिवे ॥२३७॥
अवापुर्भैरवं क्रुद्धं पुरा विष्णुपुरोगमाः । ते तत्क्रोधानलहता निपेतुर्सुवि मूर्च्छिताः ॥२३८॥
ततस्ते युगपर्यंतं पतिताः पुनरुत्थिताः । शान्ते क्रोधानले नो चेत् यास्यन्त्वेव हि भस्मतां ॥२३९॥
प्रत्याश्रमं प्रतिगृहं प्रविश्यायं तु भैरवः । अशैवान् पश्यति प्राज्ञः शिवार्चनपराङ्मुखान् ॥२४०॥
भस्मोद्धूलनरूद्राक्षधारणदिपराङ्मुखान् । लिंगपूजाविहीनांश्च दृष्ट्वा क्रुद्धो भवत्ययम् ॥२४१॥
क्रोधोऽस्य विफलो नैव भविष्यति कदाचन । यस्मिन् क्रोधोऽस्य तं घोरे पातयत्यस्त्रमंडले ॥२४२॥
देवानामपि सर्वेषां शास्ता श्रीकालभैरवः । तदन्यास्तृणभूतास्तु गंधर्वा मुनयो नराः ॥२४३॥
भैरवो भीमवेषोऽयं दुर्निरीक्ष्यः सुरैरपि । यदा क्रोधसमाक्रांतः तदा द्रष्टुं न शक्यते ॥२४४॥
अशैवशासकं क्रूरं प्राप्य श्रीकालभैरवं । सुखेन संवस्याम्यत्र काश्यां नित्यं वरानने ॥२४५॥
यदा तु शैवधर्माणां संक्षयः संभविष्यति । तदाऽयं शांभवं धर्मं स्थापयिष्यति भैरवः ॥२४६॥
शैवधर्मक्षयं यस्तु कर्तुमिच्छति पार्वति । समित्रं तं भैरवोऽयं नरके पातयिष्यति ॥२४७॥
अशैवानां तु दुष्टानां दुःखदो भैरवोऽपरः । अशैवानां तदन्यस्तु शासको न भविष्यति ॥२४८॥
उपसंहारः
माहात्म्यं भैरवस्येदं समाख्यातं मया शिवे । सर्वपापक्षयकरं पठतां श्रृण्वतामपि ॥२४९॥
येनेदं पठ्यते प्रातर्माहात्म्यं भैरवस्य तु । न तस्य सर्वदा दुःखं स्वप्नेऽपि कमलानने ॥२५०॥
इदं माहात्म्यं अमलं आदित्याभिमुखो यदि । पठति प्रीतह्रदयो न समाप्नोति यातनाम् ॥२५१॥
बालग्रहादिरोगेषु रक्षाकरमनुत्तमं । कुष्ठापस्माररोगादि विनाशकमपि प्रिये ॥२५२॥
भूर्जपत्रे लिखित्वेदं माहात्म्यं प्रत्यहं शिवे । यः पूजयिष्यति प्राज्ञः स दुःखानि न पश्यति ॥२५३॥
एतन्माहात्म्यमंत्रैस्तु प्रत्यहं भैरवार्चकैः । प्रीणनीयो भीमरूपो भैरवो भीमविक्रमः ॥२५४॥
कालाष्टम्यां विशेषण कालभैरवसन्निधौ । तत्प्रादुर्भावमाहात्म्यं पठनीयं प्रयत्नतः ॥२५५॥
श्रृण्वन् श्रीभैरवस्येमां प्रादुर्भावकथां नरः । भैरवार्चारतः शैवो यातनां नैव पश्यति ॥२५६॥
नित्यं भैरवमाहात्म्यमंत्रावर्तनपूर्वकं । प्रदक्षिणादिकं कार्यं भैरवे यातनापहम् ॥२५७॥
श्रीकालभैरवे भक्तिः सदा कार्या प्रयत्नतः । पूजनीयोऽन्वहं पूज्यो देवानां अपि शासकः ॥२५८॥
देवाश्च सर्वदा भीताः शासकं कालभैरवं । पूजयंत्यतियत्नेन प्रत्यहं भीमविक्रमं ॥२५९॥
भैरवानर्चकं दृष्टवा भैरवाप्रेषितान्यपि । तन्नाशकानि शस्त्राणि स्वत एव प्रयांति हि ॥२६०॥
भैरवो ब्रह्मविष्णादीनपि संतर्जयत्यरम् । तदन्यगणना तेन कथं कार्या वद प्रिये ॥२६१॥
न भैरवादुग्ररूपात् अन्यः काश्यां प्रशासकः । अशैवात् परः काश्यां शास्योऽपि न वरानने ॥२६२॥
अशैवं मृतमालोक्य काश्यां भैरवकिंकराः । दीर्घतप्तायसास्त्राग्रैस्ताडयंत्युरुविक्रमाः ॥२६३॥
प्रल्यानलसंकाशो ज्वालामालासमावृतः । कालभैरवकोपाग्निरशैववनदाहकः ॥२६४॥
ततः काश्यां विशेषेण शिवैकपरदेवतैः । शैवैः स्थातव्यं अनिशं अशैवैर्न कदाचन ॥२६५॥
कपाली कुण्डली भीमो भैरवो भीमविक्रमः । व्यालोपवीती कवची शूली शूरः शिवप्रियः ॥२६६॥
एतानि दश नामानि पठन् यः प्रणमेत् सदाः । शैवः शिवार्चकः तस्य नास्ति भैरवयातना ॥२६७॥
॥इति शिवरहस्ये सप्तमांशे शिवगौरीसंवादे काशीमाहात्म्ये एकादशोऽध्याये श्रीकालभैरवमाहात्म्ये संपूर्णम् ॥
॥श्रीकालभैरवार्पणमस्तु॥ ॥ॐ तत्सत् ब्रह्मार्पणमस्तु॥