Get it on Google Play
Download on the App Store

श्रीविद्यारत्नसूत्राणि

श्रीगौडपादाचार्यकृतं ॥
अथ शाक्तमन्त्रागमाजिज्ञासा ॥१॥
आत्मैवाऽखण्डाकारः ॥२॥
चैतन्यस्वरूपा चिच्छक्तिः ॥३॥
सैवेयमनामाख्या श्रीविद्या ॥४॥
तत्त्वत्रयेण सा विविधा ॥५॥
कोणपत्रसमुच्चयं चक्रं ॥६॥
सा शाम्भवी विद्या श्यामा तत्त्वत्रयाकृतिस्त्रिविधा जाता ॥७॥
विद्यायाः पूर्वोत्तराभ्यामनेकविद्या जाताः ॥८॥
ता विद्याः परिवारा इति ॥९॥
श्यामायाः पूर्वस्मिन् स्थिताः ॥१०॥
याम्यदिशि स्थिताः सौभाग्यादयः स्वस्या उद्भवाः ॥११॥
तथाऽधः स्थिताः पश्चिमदिशि ॥१२॥
शम्भव्याः परिवारा उत्तरस्मिन् ॥१३॥
स्वयमूर्ध्वाऽकारेण ॥१४॥
अथ चिन्तामणिगृहस्थिता त्रिपुरसुन्दरी महाविद्याऽनुत्तरा ॥१५॥
भण्डासुरहननार्थमेकैवाऽनेका ॥१६॥
तया मन्त्रा अनेकाश्च तथा यन्त्रतन्त्राणि ॥१७॥
विविध भक्तिर्विविधोपासनम् ॥१८॥
तस्मात् फलान्यनेकानि ॥१९॥
कगजदशारद्वयमन्व स्राSतदलस्वरपत्रत्रिवृत्तभूबिम्बसंज्ञाकथितं
श्रीसदनम् ॥२०॥
मणिगणनवावरणं तस्य ॥२१॥
स्वस्या जनित सौभाग्यायास्तन्देतत्सदनम् ॥२२॥
स्वजत्वादेतत्पश्चिमादेः ॥२३॥
त्रयाणां त्रयाणामावरणान्येकम् ॥२४॥
अथ ठडतपत्रमनुस्वारधरणि शुद्धाविद्यासदनम् ॥२५॥
तदेव तत्र वसुद्वययुक्तमनुस्वरं कुमारीसदनम् ॥२६॥
एतयोरावरणान्ताक्षरगणनं यलषहणदहपत्रधरणि द्वदशार्द्धासदनम् ॥२७॥
पभमजकोणस्वरजपत्रगणना धरणी श्यामासदनम् ॥२८॥
पुष्पिण्याः परिसर्जनमेतत् ॥२९॥
श्रीइति पुष्पिण्यादिवत् ॥३०॥
शारिकाशुकयोः ॥३१॥
एतासामावरणं सगणनम् ॥३२॥
जगद्रञ्जन्यादिसर्वासामेवम् ॥३३॥
कगतजकोणहपत्रधरणिनागाः ॥३४॥
तस्यावरणं सगणनम् ॥३५॥
समयावद्यश्वयाः सदनं शुद्धविद्यावत् ॥३६॥
डततकोणाथ नागनागदलस्यारधरणी सौभाग्यायाः सन्निहितासदनम् ॥३७॥
अथ तस्याः पञ्चावरणम् ॥३८॥
कहपत्रहकोणस्वरपत्रा धरणी वार्तालिसदनम् ॥३९॥
कगजकोणजपत्रस्वरधरणी बटुकस्य ॥४०॥
एवमतस्वरदला धहपत्रधरणी तिरोधानस्य ॥४१॥
तथैतत्समयायाः ॥४२॥
गगनप्रभाषड्वसुकोणपत्रस्य धरणी भुवनेशीसदनम् ॥४३॥
यषहकोण स्वरदलहपत्र धरणी सदनमन्नपूर्णायाः ॥४३॥
गगनगुणा धर्मा बिम्बविशिष्टकला भुवनेशी गुहवत् समयायाः ॥४४॥
गगन वसुकोणद्वयपत्रस्वरधरणी तुर्यासदनम् ॥४५॥
खजकोणद्वयपत्रस्वरवसुपत्रयगधरणी महार्द्धायाः ॥४६॥
द्वादशार्द्धासदनवत् स्वनायक्याः ॥४७॥
कलासदनवन्मिश्रविद्यायाः ॥४८॥
वाग्वादिन्याः कुमारिवत् ॥४९॥
गगनप्रभा पञ्चकोणाऽथ वसुकलापत्रभूरेखाः परागारम् ॥५०॥
तथैव प्रासादविशिष्टयोरुभयोः ॥५१॥
तुर्यासदनवच्छाम्भव्याः ॥५१॥
परासदनवत् समयायाः ॥५२॥
व्योमदहकर्ममनुपत्रा दहकोणा हरिमुखसदनम् ॥५३॥
व्योमजलजपत्रत्रिवृत्ता धरणी श्रीगुरोः सदनम् ॥५४॥
अकथादित्रिरेखशद्वितत्रिकोणमेव वा श्रिगुरोः सदनम् ॥५५॥
अनुत्तरविद्यानां सर्वासाँ शुद्धविद्यावत् ॥५६॥
वार्ताल्याः पञ्चावरणम् ॥५७॥
बटुकस्य षट् ॥५८॥
तद्वात्तित्रोधानस्य ॥५९॥
भुवनेशी सप्त ॥६०॥
षट्सन्निहितायाः ॥६१॥
कामेश्याः कलायास्त्रिः ॥६२॥
तुरीयायाः पञ्च ॥६३॥
षण्महार्द्धायाः ॥६४॥
परा प्रासादस्य च परावत् ॥६५॥
शाम्भव्याः प~च ॥६६॥
मृगेश्यास्यस्य षट् ॥६७॥
चतुर्भिरावरणैर्विशिष्टं बोधकस्य सदनम् ॥६८॥
अथ विद्या एकविंशद्वर्णविशिष्ता ॥६९॥
पञ्चदशवर्णाविशिष्टा सौभाग्या ॥७०॥
तथैव पश्चिमा विद्या ॥७१॥
शतवर्णयुता श्यामा ॥७२॥
द्वाविंशदक्षरविशिष्टा पुष्पिणी ॥७३॥
द्विचत्वारिंशद्वर्णा विशिष्टा शुकविद्या ॥७४॥
अष्टाविंशदक्षरविशिष्टा शारिकाविद्या ॥७५॥
पञ्चत्रिंशदक्षरविशिष्टा हसन्ती देवता ॥७६॥
अक्षरत्रयविशिष्टा शुद्धविद्या ॥७७॥
कुमारी वर्णत्रय विशिष्टा ॥७८॥
दशवर्णयुता द्वादशार्द्धा ॥७९॥
षट्त्रिंशद्वर्णसमुचिता सौभाग्यसन्निहिता ॥८०॥
अष्टाविंशद्वर्णसमुच्चयो महाहेरम्बस्य मनुः ॥८१॥
चतुर्विंशद्वर्णसमुच्चयो बटुकस्य मनुः ॥८२॥
अष्टाष्टोत्तरनवत्यक्षरसमुचिता कोलवदना ॥८३॥
षट्पञ्चाशदक्षरैर्विशिष्टा यवनिका ॥८४॥
एकवर्णविशिष्टा भुवनेशी ॥८५॥
अथवा सप्तविंशद्वर्णविशिष्टा ॥८६॥
ककारादिपञ्चदशाक्षरसमुचिता कादिपञ्चदशी ॥८७॥
खण्डद्वययुता चतुर्थस्वरविशिष्टा कामकला ॥८८॥
एकाक्षरविशिष्टा मुख्या ॥८९॥
त्रयोदशविशिष्टा तुर्या ॥९०॥
नवशतवर्णविशिष्टा महार्द्धा ॥९१॥
द्वादशाक्षरविशिष्टाऽश्वारूढा ॥९२॥
एकाक्षरविशिष्टा मिश्रविद्या ॥९३॥
त्रयोदशवर्नविशिष्टा वाग्वादिनी ॥९४॥
एकवर्णविशिष्टा परा ॥९५॥
पराप्रसादरूपिणी वर्णद्वययुता ॥९६॥
वर्णैकविशिष्टा तथैव प्रासादपरा ॥९७॥
अथ ह्रस्वदीर्घषट्कसमुच्चयदशैकवर्णविशिष्टः पराशम्भुः ॥९८॥
अथ ह्रस्वाक्षरदीर्घपञ्चसमुचिता तथैव सङ्ख्या परा शाम्भवी ॥९९॥
अनुत्तरसङ्केतप्रधानविद्या सप्तदशवर्णविशिष्टा ॥१००॥
अथैतासां परिवाराणामनुपरिवारा असंङ्ख्याकाः ॥१०१॥
एतानि सूत्राण्यस्माभिर्गौडपादैरुक्तानि ॥
॥श्रीविद्यारत्नसूत्राणि ॥


दशमहाविद्या स्तोत्र

स्तोत्रे
Chapters
आद्या स्तोत्र आनन्दलहरी कमला स्तोत्रम कर्पूरादिस्तोत्र कल्याणवृष्टिस्तव कामकलाकालीस्तोत्रम श्रीकालिका श्रुतिसुध श्रीछिन्नमस्ताहृदय श्रीज्वालामुखीस्तोत्र डाकिनी स्तोत्रम् तारास्तोत्रम् अपराध क्षमापन स्तोत्र श्रीत्रिपुरसुन्दरी सुप्रभातम् दशमहाविद्यास्तोत्रम् श्री नील सरस्वती स्तोत्रम् श्रीबगलामुखी स्तोत्रम् श्रीभुवनेश्वरी पञ्चकं श्री महात्रिपुरसुन्दरी सुप्रभातम् महाषोडशीवर्णरत्नावलिस्तोत्रम् श्री मङ्गलचण्डिकास्तोत्रम् श्री राजराजेश्वरी चूर्णिका राजराजेश्वरीस्तवः श्रीराजराजेश्वरी मन्त्रमातृकास्तवः श्री ललिता चतुःषष्ट्युपचारसङ्ग्रहः ललिता त्रिशति श्रीललिता त्रिशति नामावलिः ललितापञ्चकम् ललितास्तवरत्नं श्री ललिताहृदय स्तोत्रं श्यामला दण्डकम् श्यामलानवरत्नमालिकास्तोत्रम् श्रीविद्यारत्नसूत्राणि षट्त्रिंशन्नवमल्लिकास्तवः सौन्दर्यलहरी