Get it on Google Play
Download on the App Store

कर्पूरादिस्तोत्र


श्रीगुरवे नमः । ॐ नमः परमदेवतायै ॥
श्रीकर्पूरादिस्तोत्रम्
कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते
मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति ।
तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः
स्वच्छन्दं
ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्व्व॥१॥
ईशान् सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते
मन्दचेता यदि जपति जनो वारूमेकं कदाचित् ।
जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षीवृन्दं
चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसेवव॥२॥
ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो बीजं ते
द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति ।
द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति
सृक्कद्वन्दास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति ॥३॥
ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये
चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च ।
जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ
करस्था: प्रकटितरदनेसिद्धयस्त्र्यम्बकस्य ॥४॥
वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं
लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा ।
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते
लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ॥५॥
प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं
त्वन्नाम्ना
योजयित्वा सकलमपि सदा भावयन्तो जपन्ति ।
तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी
देवि मुण्डस्त्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥६॥
गतासूनां बाहुप्रकरकृतकञ्चीपरिलसन्नितम्बां दिग्वस्त्रां
त्रिभुवनविधात्रीं त्रिणयनां ।
श्मशानस्ते तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वाम्
ध्यायन् जननि जडचेता अपि कविः ॥७॥
शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः परं स।म्कीर्णाया।म्
प्रकटितचितायां हरवधूम् । प्रविष्टां ।
स।म्तुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपिच
न तेषां परिभवः ॥८॥
वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो
हरिरपि न ते वेत्ति परमम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं नखलु
पशुरोषः समुचितः ॥९॥
समन्तादापीनस्तनजघनधृघौवनवतीरतासक्तो नक्तं यदि
जपति
भक्तस्तव मनुम् ।
विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः
सिद्धौघा भुवि चिरतरं जीवति कविः ॥१०॥
समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वाम् । ध्यायन्नतिशयमहाकालसुरताम् ।
तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या
पुरहस्वधू सिद्धिनिवहाः ॥११॥
प्रसूते सम्सारं जननि भवती पालयति च समस्तं क्षित्यादि
प्रलयसमये स्मरति च ।
अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः
सकलमपि किं स्तौमि भवतीम् ॥१२॥
अनेके सेवन्ते भवदधिकगीवार्णनिवहान् विमूढास्ते मातः किमपिन
हि जानन्ति परमम् ।
समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि
स्वैरं
रतिरससमहानन्दनिरताम् ॥१३॥
धरत्रि कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी
गिरिशरमणी कालि सकलम् ।
प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः ॥१४॥
श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वकार्णा।म्
निजगलितवीर्येण कुसुमम्।
जप।म्स्त्वत्प्रयेकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स
भवति धरित्रीपरिवृढः ॥१५॥
गृहे स।म्मार्ज्यन्या परिगलितविर्यं हि चिकुरं समूलं मध्याह्ने
वितरति चितायां कुजदिने ।
समुच्चार्य प्रमेणा मनुमपि सकृत्कालि सततं गजारूढो याति
क्षितिपरिवृढः सत्कविवरः ॥१६॥
स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन्
यदि जपति भक्तस्तव मनुम् ।
स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः पर्यन्ते
परमपदलीनः प्रभवति ॥१७॥
त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदना।म्
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि
जननि स स्यात् स्मरहरः ॥१८॥
सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्त्र।म्
मैश।म्
नरमहिषयोश्छागमपि वा ।
बलिम् ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः
सर्वा
प्रतिपदमपूर्वा प्रभवति ॥१९॥
वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा
मातर्युष्मच्चरणयुगलध्याननिपुणः ।
परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात्
स्मरहरसमानः क्षितितले ॥२०॥
इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्य।म्
पादाम्बुजयुगलपूजाविधियुतम् ।
निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि
प्रसरति कवित्वामृतरसः ॥२१॥
कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि
कुबेरप्रतिनिधिः ।
रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः
प्रभवति स भक्तः प्रतिजनुः ॥२२॥

इति श्रीमन्महाकालिविरचितं श्रीमद्दक्षिणकालिकायाः
स्वरूपाख्यं स्तोत्रं समाप्तम्

दशमहाविद्या स्तोत्र

स्तोत्रे
Chapters
आद्या स्तोत्र आनन्दलहरी कमला स्तोत्रम कर्पूरादिस्तोत्र कल्याणवृष्टिस्तव कामकलाकालीस्तोत्रम श्रीकालिका श्रुतिसुध श्रीछिन्नमस्ताहृदय श्रीज्वालामुखीस्तोत्र डाकिनी स्तोत्रम् तारास्तोत्रम् अपराध क्षमापन स्तोत्र श्रीत्रिपुरसुन्दरी सुप्रभातम् दशमहाविद्यास्तोत्रम् श्री नील सरस्वती स्तोत्रम् श्रीबगलामुखी स्तोत्रम् श्रीभुवनेश्वरी पञ्चकं श्री महात्रिपुरसुन्दरी सुप्रभातम् महाषोडशीवर्णरत्नावलिस्तोत्रम् श्री मङ्गलचण्डिकास्तोत्रम् श्री राजराजेश्वरी चूर्णिका राजराजेश्वरीस्तवः श्रीराजराजेश्वरी मन्त्रमातृकास्तवः श्री ललिता चतुःषष्ट्युपचारसङ्ग्रहः ललिता त्रिशति श्रीललिता त्रिशति नामावलिः ललितापञ्चकम् ललितास्तवरत्नं श्री ललिताहृदय स्तोत्रं श्यामला दण्डकम् श्यामलानवरत्नमालिकास्तोत्रम् श्रीविद्यारत्नसूत्राणि षट्त्रिंशन्नवमल्लिकास्तवः सौन्दर्यलहरी