Android app on Google Play

 

वामनस्तोत्रम्

 


अदितिरुवाच ।
नमस्ते देवदेवेश सर्वव्यापिन जनार्दन । सत्त्वादिगुणभेदन लोकव्यापारकारण ॥ १ ॥
नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्‌भुतरूपाय निर्गुणाय गुणात्मने ॥ २ ॥
नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मंगलात्मने ॥ ३ ॥
यस्यावतररूपाणि ह्यर्चयन्ति मुनीश्‍वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ ४ ॥
यं न जानंति श्रुतयो यं न जानंति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ ५ ॥
यस्यावलोकनं चित्रं मायोप्रद्रववारणम् । जगद्रूपं जगत्पालं तं वंदे पद्मजाधवम् ॥ ६ ॥
यो देवस्त्यक्तसंगानां शांतानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वंदे संगर्विजतम् ॥ ७ ॥
यत्पादाब्जजलक्लिन्नसेवारंजितमस्तकाः । अवापुः परमां सिद्धिं तं वंदे सर्ववंदितम् ॥ ८ ॥
यज्ञेश्‍वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥९ ॥
अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वंदे लोकसाक्षिणम् ॥ १० ॥
ब्रह्माद्या अपि ये देव यन्मायापाशयंत्रिताः । न जानंति परं भावं तं वंदे सर्वनायकम् ॥ ११ ॥
ह्रत्पद्मनिलयोऽज्ञानां दुरस्थ इव भाति यः । प्रमाणातीतसद्भावं तं वंदे ज्ञानसाक्षिणम् ॥ १२ ॥
यज्मुखाद्‌ब्राह्मणो जातो बाहुभ्यः क्षत्रियोऽजनि । तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३ ॥
मनश्‍चंद्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादिंद्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ १४ ॥
त्वमिंद्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निऋतिश्चैव वरुणस्त्वम दिवाकरः ॥ १५ ॥
देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगंधर्वा नद्यो भूमिश्च सागराः ॥ १६ ॥
त्वमेव जगतामीश पुन्नामास्ति परात्परः । त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ १७ ॥
इति स्तुत्वा देवधात्री देवं मत्वा पुनः पुनः । उवाच प्रांजलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ १८ ॥
अनुग्राह्याऽस्मि देवेश हरे सर्वादिकारण । अकंटकश्रियं देहि मत्सुतानां दिवीकसाम् ॥ १९ ॥
अन्तर्यामिन् जगद्रूप सर्वभूत परेश्वर । तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ २० ॥
तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्राऽस्मिदेवेश रक्षोभिः परिपीडिता ॥ २१ ॥
एतान्न हंतुमिच्छामि मत्सुता दितिजातयः । तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ २२ ॥
इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः । उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुतः ॥ २३ ॥
श्रीभगवानुवाच ।
प्रीतोऽस्मि देवि भद्रं तं भविष्यामि सुतस्तव । यतः सपत्‍नीतनयेष्वपि वात्सल्यशालिनी ॥ २४ ॥
त्वया च मे कृतं स्तोत्रं पठंति भुवि मानवाः । तेषां पुत्रा धनं सम्पन्न हीयन्ते कदाचन ॥ २५ ॥
अन्ते मत्पदमाप्नोति यद्विष्णो परमं शुभम् ॥ २६ ॥
इति श्रीपद्मपुराने वामनस्तोत्रं समाप्तम ।