Get it on Google Play
Download on the App Store

वामनस्तोत्रम्


अदितिरुवाच ।
यज्ञेशयपक्षपुरुषाच्युततीर्थपादतीर्थश्रवःश्रवणमंगलामधेय ।
आपन्नलोकवृजिनोपशमोदयाऽऽद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ १ ॥
विश्‍वाय विश्‍वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुषक्तिगुणाय भूम्ने ।
स्वस्थाय शश्‍वदुपबृंहितपूर्णबोधव्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्द्यौर्भूरसाः सकलयोगगुणास्त्रिवर्गः ।
ज्ञानं च केवलमनंत भवंति तुष्टोत्त्वत्तो नृणां किमु सपत्‍नजयादिराशीः ॥ ३ ॥
इति श्रीमद्भागवतांतर्गतम वामनस्तोत्रं संपूर्णम् ।