Get it on Google Play
Download on the App Store

भूमिवर्गः - श्लोक ३ ते ४०


 ३) भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा
४) धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः
५) सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा
६) गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही
७) विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा
८) भूतधात्री रत्नगर्भा जगती सागराम्बरा
९) मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका
१०) उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका
११) ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली
१२) समानौ मरुधन्वानौ द्वे खिलाप्रहते समे
१३) त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्
१४) लोकोऽयं भारतं वर्षम् शरावत्यास्तु योऽवधेः
१५) देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः
१६) प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः
१७) आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः
१८) नीवृज्जनपदो देशविषयौ तूऽपवर्तनम्
१९) त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि
२०) कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे
२१) शाद्वलः शादहरिते सजम्बाले तु पङ्किलः
२२) जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः
२३) स्त्री शर्करा शर्करिलः शार्करः शर्करावति
२४) देश एवादिमावेववमुन्नेयाः सिकतावति
२५) देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः
२६) स्यान्नदीमातृको देवमातृकश्च यथाक्रमम्
२७) सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्
२८) गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम्
२९) पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान्
३०) वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम्
३१) अयनम् वर्त्म मार्गाध्वपन्थानः पदवी सृतिः
३२) सरणिः पद्धतिः पद्या वर्तन्येकपदीति च
३३) अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि
३४) व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः
३५) अपन्थास्त्वपथं तुल्ये शृण्गाटकचतुष्पथे
३६) प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम्
३७) गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम्
३८) घण्टापथः संसरणं तत्पुरस्योपनिष्करम्
३९) द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी **
४०) दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः **
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९