Guhyad Guhyatam

रुद्र उवाच— “किमिदं जले विमले ह्यात्मनि पश्यसि?”
“यथैवेह भगवः साध्वलङ्कृतस्सुवसनः परिष्कृतश्च एवमेव।”
“एष आत्म्येतेदममृतम्?”
“एष आत्म्येतेदममृतम्?”
“आत्मैवेह महीय आत्मा परिचर्य आत्मानमेवेह मह्यन्नात्मानं परिचरन्नुभौ लोकाव- वाप्रोति।”
“उभौ लोकाववाप्रोतीदञ्चामुञ्चति।”
“तस्मादप्यद्येहाददानमश्रद्दधानमयजमानं शरीरं वसनेनालङ्कारेणेति संस्कुर्वाणा ह्यमुं लोकं जेष्याम इति।”
“असत्यमप्रतिष्ठमनीश्वरमिदं जगत्।”
“ईश्वरोऽहम्।”
“एतद् गुह्याद् गुह्यतमम्।”
“का च परापरा वेति भगवन्!”
“द्वे विद्ये, पराचैवापरा च। तत्रापरा वेदोऽयं, परा यया तदक्षरमधिगम्यते।”
“किमक्षरं भगवन्!”
“जीवनम्। विरामो मृत्युस्तावदुद्गमो जन्म।”
“किमु यज्ञरूपं भगवन्।”
“योषा वा अग्निस्तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः-करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्या पुरुषः संभवति।”
“उपमन्त्रयते स हिंकारो, ज्ञपयते स प्रस्तावः, स्त्रिया सह शेते स उद्गीथः, प्रतिस्त्रिया सह शेते स प्रहारः, कालम गच्छति तत् निधनं, पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोक्तम्।”
“स य एवमेतद्वामदेव्यं मिथुने प्रोक्तं वेद मिथुने भवति। मिथुनान्मिथुनात्-प्रजायते सर्वमायुरेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या, न काञ्चन परिहरेत् तद् व्रतम्।”
“कस्य रेतः पुरा हुतम्?”
“रुद्रेण मया त्रैलोक्यं सविकारं निर्गुणगणं रेतो हुतम्।”
“हेतुभिर्वा किमन्यैस्तैः कारणैरेतद् लिङ्गमभ्यर्चितम्?”
“अर्चयेथाः सदा लिङ्गम्। सर्वा भगाङ्काः स्त्रियः, लिङ्गेनापि प्रत्यक्ष-चिह्नीकृता सर्वे पुरुषाः।