Get it on Google Play
Download on the App Store

अपराधक्षमापणस्तोत्रम्

अथ अपराधक्षमापणस्तोत्रम् ..
ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् .
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः .. १..
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके .
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु .. २..
अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् .
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि .. ३..
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे .
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि .. ४..
सर्वरूपमयी देवी सर्वं देवीमयं जगत् .
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् .. ५..
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् .
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि .. ६..
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् .
तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्व सदैव जायताम् .. ७..
यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब .
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं
ते स्तवेऽस्मिन् तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद .. ८..
प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले .
प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते .. ९.. ..
इति अपराधक्षमापणस्तोत्रं समाप्तम्.. ..

अथ देवीसूक्त्तम् ..
ॐ अहं रुद्रेभिर्वसुभिश्वराम्यह- मादित्यैरुत विश्वदेवैः .
अहं मित्रावरुणोभा बिभर्म्यह- मिन्द्राग्नी अहमश्विनोभा .. १..
अहं सोममाहनसं बिभम्र्यहं त्वष्टारमुत पूषणं भगम् .
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते .. २..
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् .
तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् .. ३..
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् .
अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि .. ४..
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः .
यं कामये तं तमुग्रं कृष्णोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् .. ५..
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ .
अहं जनाय समदं कृष्णोम्यहं द्यावापृथिवी आ विवेश .. ६..
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे .
ततो वि तिष्टे भुवनानु विश्वो- तामूं द्यां वर्ष्मणोप स्पृशामि .. ७..
अहमेव वात इव प्र वाम्या- रभमाणा भुवनानि विश्वा .
परो दिवा पर एना पृथिव्यै- तावती महिना सं बभूव .. ८.. ..
इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् .. .. ॐ तत् सत् ॐ ..