श्रीराम जयराम जयजयराम

श्री

रामः श्रीकरः श्रीदः श्रीसेव्यः श्रीनिकेतनः ॥

रा

क्षसान्तकरो धीरो भक्‍तभाग्यविवर्धनः ॥१॥

म

रेति किलयन्नाम जपन् व्याधोऽभवन्मुनिः ॥

ज

न्मदुःखनुदं काव्यं दिव्यं व्यरचयन्महत् ॥२॥

य

दा यदा भवेद्‌ग्लानिर्धर्मस्य च तदा तदा ॥

रा

क्षसान्तकरो रामो सम्भवत्यात्ममायया ॥३॥

म

हामोहकरी माया यत्प्रसादाद्विनश्यति ॥

ज

घन्या अपि पूजाश्‍च पावना बहवोऽभवन् ॥४॥

य

स्य प्रसादतो जातो हनूमान् महतो महान् ॥

ज

न्ममृत्युजरादुःखान्मुक्‍तोऽद्यापिविराजते ॥५॥

य

स्मात्परतरन्नास्ति यस्य नाम महद्यशः ॥

रा

मं लोकाभिरामं तं व्रजामः शरणं मुदा ॥६॥

म

मैतयिति नः सर्वान् संसारात्तारयिष्यति ॥

श्री

राम जयरामेति जय जयेति जपाद्‌धृवम् ॥७॥

रा

म एव परब्रह्म राम एव परागतिः ॥

म

नः शान्तिकरोरामो मन्मथारिनमस्कृतः ॥८॥

ज

यत्रययुतः श्रेष्ठो रामत्रययुतो मनुः ॥

यत्र श्रीराममहिमा त्रिसत्यमिति वर्ण्यते ॥९॥

रा

मः श्रीसीतया युक्‍तः सर्वैश्‍वर्यद इत्यपि ॥

म

ह्त्वमस्यानन्तं यत् तच्छ्रीरामपदे स्थितम् ॥१०॥

ज

य रामपदेनायं जयरुप इतीर्यते ॥

य

तोऽसौ जयरुपो हि जयार्हो जयदस्तथा ॥११॥

ज

य जयेति पदेऽर्थोयं द्योतते सर्वरिद्धिदः ॥

य

स्मिन्न माया नाविद्या तस्मिन्मोहःकथं भवेत् ॥१२॥

रा

मत्रये दाशरथिश्‍चेशो ब्रह्मेति कथ्यते ॥

म

रुद्रात्मजसन्त्राता मोचयेन्मदनादपि ॥१३॥

श्री

रामेति पदं पूर्वं जय रामेति वै ततः ॥

रा

मोऽत्र द्विर्जयात्पश्‍चाद्वर्तते मनुराजके ॥१४॥

म

हासंसारव्यामोहान्मोचयत्याश्‍वयं मनुः ॥

ज

पनीयः कीर्तनीयो मुदा सर्वैश्‍च सर्वदा ॥१५॥

य

क्षराक्षसभूताद्या पीडाऽनेन विनश्यति ॥

रा

मो धनुर्धरो नित्यं संरक्षति पदे पदे ॥१६॥

म

दोन्मत्तनरैश्‍चापि न दुःखं लभते कदा ॥

ज

न्मसन्तापचंद्रोऽयं ज्ञानविज्ञानदो मनुः ॥१७॥

य

त्र कुत्रापि जप्योऽयं शुचिर्वाप्यशुचिस्तथा ॥

ज

पतः शान्तिमाप्नोति प्रशस्तोऽस्मिन् कलौ मतः ॥१८॥

य

ज्ञानां जपयज्ञोऽस्मि भगवद्वाक्यमीदृशम् ॥

रा

मेणैव पुरादिष्टः षडङगादिविवर्जितः ॥१९॥

म

रुत्सुतावताराय रामदासाय धीमते ॥

श्री

रमवरयुक्‍तोऽयं सुलभोऽपि फलाधिकः ॥२०॥

त्रैलोक्यपावनीपुण्या मुक्‍तिदा राघव स्तुतिः ॥

भद्रं तनोतु लोकेषु गंगेव किल सर्वदा ॥

इति श्रीरामदासानुग्रहीत रामपदकंजभृंगायमान

श्रीश्रीधरस्वामीविरचितं श्रीराममंत्रराजस्तोत्रं संपूर्णम् ॥