अथ शिवस्तोत्राणि

वेदांतेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी

यस्मिन्नीश्‍वर इत्यनन्यविषय: शब्दो यथार्थाक्षर: ।

अंतर्यश्‍च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते

स स्थाणु: स्थिरभक्‍तियोगसुलभो नि:श्रेयसायास्तु व: ॥