Get it on Google Play
Download on the App Store

श्री महागणेश पञ्चरत्नं

श्री महागणेश पञ्चरत्नं मुदा करात्त मोदकं सदा विमुक्ति साधकं कलाधरावतंसकं विलासि लोक रक्षकम् ।

अनायकैक नायकं विनाशितेभ दैत्यकं नताशुभाशु नाशकं नमामि तं विनायकम् ॥१॥

नतेतराति भीकरं नवोदितार्क भास्वरं नमत् सुरारि निर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्त लोक शंकरं निरास्त दैत्य कुन्जरं दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् ।

कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् ।

प्रपञ्चनाश भीषणं धनंजयादि भूषणं कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् ।

हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेकमेव चिन्तयामि सन्ततम् ॥५॥

फल श्रुती

महागणेश पञ्चरत्नं आदरेण योन्ऽवहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।

अरोगतां अदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ॥६॥

इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ॥

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि