Get it on Google Play
Download on the App Store

देवी कवच - प्राधानिकं रहस्यम्

ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नरायणा ऋषि:अनुष्टुप्छन्दः ,
महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं
जपे विनियोगः ।
 राजोवाच
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिम ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १ ॥
आराध्यं यन्मया देव्याः स्वरुपं येन च द्विज ।
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २ ॥
 ऋषिरुवाच
इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३ ॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्र्वरी ।
लक्ष्यालक्ष्यस्वरुपा सा व्याप्त कृत्स्नं व्यवस्थिता ॥ ४ ॥
माअतुलुङ्ग गदां खेटं पानपात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ ५ ॥
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६ ॥
शून्यं तदखिलं लोकं विलोक्य परमेश्र्वरी ।
बभार परमं रुपं तमसा केवलेन हि ॥ ७ ॥
सा भिन्नाञ्जनसंकाशा दंष्ट्राङ्कतवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥ ८ ॥
खङ्गपात्राशिरःखेटैरलंकृतचतुर्भुजा
कबन्ध्हारं शिरसा बिभ्राणा हि शिरःस्त्रजम् ॥ ९ ॥
सा प्रोवाच महालक्ष्मीं तामसी प्रम्दोत्तमा ।
नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ १० ॥
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ ११ ॥
महामाया महाकाली महामारी क्षुधा तृषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ १२ ॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्र्नुते सुखम् ॥ १३ ॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
तामित्युक्त्व महालक्ष्मीः स्वरुपमपरं नृप ।
सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥ १४ ॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राम्ही कामधेनुर्वेदगर्भा च धीश्र्वरी ॥ १६ ॥
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ।
युवां जनयतां देव्यौ मिथुने स्वानुरुपतः ॥ १७ ॥
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ।
हिरण्यगर्भो रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ १८ ॥
ब्रह्मन्‌ विधे विरित्र्चेति धातरित्याह तं नरम्‌।
श्री: पद्मे कमले लक्ष्मीत्याह माता च तां स्त्रियम्‌॥१९॥
महाकाली भारती च मिथुने सृजतः सह ।
एतयोरपि रुपाणि नामानि च वदामि ते ॥ २० ॥
नीलकण्ठं रक्तबाहुं श्वेताड्गं चन्द्रशेखरम्‌।
जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २१ ॥
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयी विद्या क्स्स्मधेनुः सा स्त्री भाषाक्षरा स्वरा ॥ २२ ॥
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ॥ २३ ॥
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सतीचण्डी सुन्दरी सुभगा शिवा ॥ २४ ॥
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः ॥ २५ ॥
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीनृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ २६ ॥
स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् ॥ २७ ॥
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगतस्थावरजड्ग्मम् ॥ २८ ॥
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
संजहार जगत्सर्वं सह गौर्या महेश्वरः ॥ २९ ॥
महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्र्वरी ।
निराकारा च साकारा सैव नानाभिधानभृत् ॥ ३० ॥
नामान्तरैर्निरुप्यैषा नाम्ना नान्येन केनचित् ॥ ॐ ॥ ३१ ॥
 इति प्राधानिकं रहस्यं सम्पूर्णम् ।

देवी कवचे

संकलित
Chapters
श्रीदत्तात्रेयवज्रकवचम्‌ देवी कवच - ॐ अस्य श्रीचण्डीकवचस्य ब्... देवी कवच - अथार्गलास्तोत्रम् देवी कवच - कीलकम् देवी कवच - रात्रिसूक्तम् देवी कवच - श्रीसप्तश्लोकी देवी कवच - तन्त्रोक्तं देवीसूक्तम् देवी कवच - सिद्धकुज्जिकास्तोत्रम् देवी कवच - दुर्गाद्वात्रिंशन्नाममाला देवी कवच - देव्यपराधक्षमापनस्तोत्रम् देवी कवच - कर्मसमर्पणम् देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवी कवच - अन्नपूर्णास्तोत्रम् देवी कवच - ऋग्वेदोक्तं देवीसूक्तम् देवी कवच - प्राधानिकं रहस्यम् देवी कवच - वैकृतिकं रहस्यम् देवी कवच - मूर्तिरहस्यम् देवी कवच - क्षमा-प्रार्थना श्रीभार्गवकवचम्‌