Get it on Google Play
Download on the App Store

देवी कवच - कीलकम्

अथ कीलकम्
ॐ अस्य श्रीकीलकमन्नस्य शिव ॠषिः अनुष्टुप् छन्दः श्रीमहासरस्वती
देवता ,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्र्चण्डिकायै ॥
मार्कण्डेय उवाच
ॐ विशुध्दज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १ ॥
सर्वमेतद्विना यस्तु मन्त्राणामभिकीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥ २ ॥
सिद्ध्यन्तुच्चाटनादीनि वस्तूनि सकलान्यापि ।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिध्यति ॥ ३ ॥
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते ।
विना जाप्येन सिध्येत सर्वमुच्चातनादिकम् ॥ ४ ॥
समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५ ॥
समाप्नोति सुपुण्येन तां यथावन्नियन्त्रणाम् ।
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ॥ ६ ॥
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ।
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ॥ ७ ॥
इत्थंरुपेण कीलेन महादेवेन कीलितम् ।
निष्कीलां च तत: क्रुत्वा पठितव्यं समाहितैः ॥ ८ ॥
यो निष्कीलां विधायैनां नित्यं जपाति संस्फुतम् ।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥ ९ ॥
न चैवाप्यटतस्तस्य भयं क्वापिह जायते ।
नापमृत्युवशं याति मृतो मोक्षमवान्पुयात् ॥ १० ॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्ररभ्यते बुधैः ॥ ११ ॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२ ॥
श्नैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३ ॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः ।
शत्रुहानिःपरो मोक्षः स्तुयते सा न किं जनैः ॥ १४ ॥

देवी कवचे

संकलित
Chapters
श्रीदत्तात्रेयवज्रकवचम्‌ देवी कवच - ॐ अस्य श्रीचण्डीकवचस्य ब्... देवी कवच - अथार्गलास्तोत्रम् देवी कवच - कीलकम् देवी कवच - रात्रिसूक्तम् देवी कवच - श्रीसप्तश्लोकी देवी कवच - तन्त्रोक्तं देवीसूक्तम् देवी कवच - सिद्धकुज्जिकास्तोत्रम् देवी कवच - दुर्गाद्वात्रिंशन्नाममाला देवी कवच - देव्यपराधक्षमापनस्तोत्रम् देवी कवच - कर्मसमर्पणम् देवी कवच - श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवी कवच - अन्नपूर्णास्तोत्रम् देवी कवच - ऋग्वेदोक्तं देवीसूक्तम् देवी कवच - प्राधानिकं रहस्यम् देवी कवच - वैकृतिकं रहस्यम् देवी कवच - मूर्तिरहस्यम् देवी कवच - क्षमा-प्रार्थना श्रीभार्गवकवचम्‌